अक्षर आकार:

श्रीपरशुरामाष्टाविंशतिनामावलिः

shrIparashurAmAShTAviMshatinAmAvaliH

श्रीपरशुरामाष्टाविंशतिनामावलिः

भूभारभरणार्थाय मायामानुषविग्रहाय नमः । जनार्दनांशसम्भूताय । स्थित्युत्पत्त्यप्ययेश्वराय । भार्गवाय । जामदग्न्याय । पित्राज्ञापरिपालकाय । मातृप्राणप्रदाय । श्रीमते । क्षत्रियान्तकराय । प्रभवे । रामाय । परशुहस्ताय । कार्तवीर्यमदापहाय । रेणुकादुःखशोकघ्नाय । विशोकाय । शोकनाशनाय । नवीननीरदश्यामाय । रक्तोत्पलबिलोचनाय । घोराय । दण्डधराय । धीराय । ब्रह्मण्याय । ब्राह्मणप्रियाय । तपोधनाय । महेन्द्राद्रौ न्यस्तदण्डाय । प्रशान्तधिये । सिद्धगन्धर्वचारणैरुपगीयमानचरिताय । जन्ममृत्युजराव्याधिदुःखशोकभयातिगाय नमः ॥ २८ पायाद्वो जमदग्निवंशतिलको वीरव्रतालङ्कृतो रामो नाम मुनीश्वरो नृपवधे भास्वत्कुठारायुधः । येनाशेषहताहिताङ्गरुधिरैः सन्तर्पिताः पूर्वजाः भक्त्या चाश्वमखे समुद्रवसना भूर्हन्तकारीकृता ॥ इति श्रीपरशुरामाष्टाविंशतिनामावलिः समाप्ता ।