अक्षर आकार:

परमार्थस्तुतिः

Paramarthastutih

परमार्थस्तुतिः

वेदान्तदेशिककृता । (गृध्रसरसि) श्रीमद्गृध्रसरस्तीरपारिजातमुपास्महे । यत्र तुङ्गैरतुङ्गैश्च प्रणतैर्गृह्यते फलम् ॥ १॥ गुरुभिस्त्वदनन्यसर्वभावैः गुणसिन्धौ कृतसम्प्लवस्त्वदीये । रणपुङ्गव वन्दिभावमिच्छन् अहमस्म्येकमनुग्रहास्पदं ते ॥ २॥ भुवनाश्रय भूषणास्त्रवर्गं मनसि त्वन्मयतां ममातनोतु । वपुराहवपुङ्गव त्वदीयं महिषीणामनिमेषदर्शनीयम् ॥ ३॥ अभिरक्षितुमग्रतः स्थितं त्वां प्रणवे पार्थरथे च भावयन्तः । अहितप्रशमैरयत्नलभ्यैः कथयन्त्याहवपुङ्गवं गुणज्ञाः ॥ ४॥ कमला निरपायधर्मपत्नी करुणाद्याः स्वयमृत्वजो गुणास्ते । अवनं श्रयतामहीनमाद्यं स च धर्मस्त्वदनन्यसेवनीयः ॥ ५॥ कृपणाः सुधियः कृपासहायं शरणं त्वां रणपुङ्गव प्रपन्नाः । अपवर्गनयादनन्यभावाः वरिवस्यारसमेकमाद्रियन्ते ॥ ६॥ अवधीर्य चतुर्विधं पुमर्थं भवदर्थे विनियुक्तजीवितः सन् । लभते भवतः फलानि जन्तुः निखिलान्यत्र निदर्शनं जटायुः ॥ ७॥ शरणागतरक्षणव्रती मां न विहातुं रणपुङ्गवार्हसि त्वम् । विदितं भुवने विभीषणो वा यदि वा रावण इत्युदीरितं ते ॥ ८॥ भुजगेन्द्रगरुत्मदादिलभ्यैस्त्वदनुज्ञानुभवप्रवाहभेदैः । स्वपदे रणपुङ्गव स्वयं मां परिचर्याविभवैः परिष्क्रियेथाः ॥ ९॥ विमलाशयवेङ्कटेशजन्मा रमणीया रणपुङ्गवप्रसादात् । अनसूयुभिरादरेण भाव्या परमार्थस्तुतिरन्वहं प्रपन्नैः ॥ १०॥ इति वेदान्तदेशिककृता परमार्थस्तुतिः समाप्ता ।