अक्षर आकार:

पञ्चपञ्चाशद्विष्णुनामानि

pa~nchapa~nchAshadviShNunAmANi

पञ्चपञ्चाशद्विष्णुनामानि

अग्निरुवाच - जपन् वै पञ्चपञ्चाशद्विष्णुनामानि यो नरः । मन्त्रजप्यादिफलभाक्तीर्थेष्वर्चादि चाक्षयम् ॥ १॥ पुष्करे पुण्डरीकाक्षं गयायाञ्च गदाधरम् । राघवञ्चित्रकूटे तु प्रभासे दैत्यसूदनम् ॥ २॥ जयं जयन्त्यां तद्वच्च जयन्तं हस्तिनापुरे । वाराहं वर्धमाने च काश्मीरे चक्रपाणिनम् ॥ ३॥ जनार्दनञ्च कुब्जाम्रे मथुरायाञ्च केशवम् । कुब्जाम्रके हृषीकेशं गङ्गाद्वारे जटाधरम् ॥ ४॥ शालग्रामे महायोगं हरिं गोबर्धनाचले । पिण्डारके चतुर्वाहुं शङ्खोद्धारे च शङ्खिनम् ॥ ५॥ वामनञ्च कुरुक्षेत्रे यमुनायां त्रिविक्रमम् । विश्वेश्वरं तथा शोणे कपिलं पूर्वसागरे ॥ ६॥ विष्णुं महोदधौ विद्याद्गङ्गासागरसङ्गमे । वनमालञ्च किष्किन्ध्यां देवं रैवतकं विदुः ॥ ७॥ काशीतटे महायोगं विरजायां रिपुञ्जयम् । विशाखयूपे ह्यजितन्नेपाले लोकभावनम् ॥ ८॥ द्वारकायां विद्धि कृष्णं मन्दरे मधुसूदनम् । लोकाकुले रिपुहरं शालग्रामे हरिं स्मरेत् ॥ ९॥ पुरुषं पूरुषवटे विमले च जगत्प्रभुम् । अनन्तं सैन्धवारण्ये दण्डके शार्ङ्गधारिणम् ॥ १०॥ उत्पलावर्तके सौरीं नर्मदायां श्रियः पतिम् । दामोदरं रैवतके नन्दायां जलशायिनम् ॥ ११॥ गोपीश्वरञ्च सिन्ध्वब्धौ माहेन्द्रे चाच्युतं विटुः । सहाद्रौ देवदेवेशं वैकुण्ठं मागधे वने ॥ १२॥ सर्वपापहरं विन्ध्ये औड्रे तु पुरुषोत्तमम् । आत्मानं हृदये विद्धि जपतां भुक्तिमुक्तिदम् ॥ १३॥ वटे वटे वैश्रवणं चत्वरे चत्वरे शिवम् । पर्वते पर्वते रामं सर्वत्र मधुसूदनम् ॥ १४॥ नरं भूमौ तथा व्योम्नि वशिष्ठे गरुडध्वजम् । वासुदेवञ्च सर्वत्र संस्मरन् भुक्तिमुक्तिभाक् ॥ १५॥ नामान्येतानि विष्णोश्च जप्त्वा सर्वमवाप्नुयात् । क्षेत्रेष्वेतेषु यत् श्राद्धं दानं जप्यञ्च तर्पणम् ॥ १६॥ तत्सर्वं कोटिगुणितं मृतो ब्रह्ममयो भवेत् । यः पठेत् श‍ृणुयाद्वापि निर्मलः स्वर्गमाप्नुयात् ॥ १७॥ इत्याग्नेये महापुराणे पञ्चपञ्चाशद्विष्णुनामानि नाम चतुरधिकत्रिशततमोऽध्यायः ॥ ३०४॥