अक्षर आकार:

श्रीपञ्चघाटीस्तोत्रम्

shrIpanchaghATIstotram

श्रीपञ्चघाटीस्तोत्रम्

धाटिपञ्चकम् श्रीमद्वेङ्कटनाथार्यः कवितार्किक केसरी । वेदान्ताचार्य वर्य्यो में सन्न्निधत्तांसदा हृदि ॥ पाषण्डद्रुमषण्डदावदहनश्चार्वाकशैलाशनि- र्बौद्धध्वान्तनिरासवासरपतिर्जैनेभकण्ठीरवः । मायावादिभुजङ्गभङ्गगरुडस्त्रैविद्यचूडामणिः श्रीरङ्गेशजयध्वजो विजयते रामानुजोऽयं मुनिः ॥ १॥ पाषण्डषण्डगिरिखण्डनवज्रदण्डाः प्रच्छन्नबौद्धमकरालयमन्थदण्डाः । वेदान्तसारसुखदर्शनदीपदण्डाः रामानुजस्य विलसन्ति मुनेस्त्रिदण्डाः ॥ २॥ चारित्रोद्धारदण्डं चतुर्नयपथालङ्क्रियाकेतुदण्डं सद्विद्यादीपदण्डं सकलकलिकथासंहृतेः कालदण्डम् । त्रय्यन्तालम्बदण्डं त्रिभुवनविजयच्छत्रसौवर्णदण्डं धत्ते रामानुजार्यः प्रतिकथकशिरोवज्रदण्डं त्रिदण्डम् ॥ ३॥ त्रय्या माङ्गल्यसूत्रं त्रियुगयुगपथारोहणालम्बसूत्रं सद्विद्यादीपसूत्रं सगुणनयकथासम्पदां हारसूत्रम् । प्रज्ञासूत्रं बुधानां प्रशमधनमनः पद्मिनीनालसूत्रं रक्षासूत्रं यतीनां जयति यतिपतेर्वक्षसि ब्रह्मसूत्रम् ॥ ४॥ पाषण्डसागरमहावडवामुखाग्निः । श्रीरङ्गराजचरणाम्बुजमूलदासः । श्रीविष्णुलोकमणिमण्डपमार्गदायी श्रीरामानुजो विजयते यतिराजराजः ॥ ५॥ कवितार्किकसिंहाय कल्याणगुणशालिने । श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥ इति श्रीपञ्चघाटी स्तोत्रं सम्पूर्णम् ॥ श्री श्रीवत्सचिह्नमिश्रादिभिरनुगृहीतमिति प्रथितं