अक्षर आकार:

पञ्चायुधस्तुतिः

Panchayudhastutih

पञ्चायुधस्तुतिः

श्रीः अथ पञ्चायुधस्तुतिः । प्रथिमहितं प्रोद्यद्धनमित्रद्योतं महायुधं हृदये । सारसनाभं कलये सुदर्शनं साधुचक्रराजन्तम् ॥ १॥ हरिमुखमरुदभिसंस्तवभवनिनदध्वस्तदनुतनुजदर्पः । पञ्चजनाधारोऽव्याद्भगवाव्राजन्महादरः कोऽपि ॥ २॥ रुचिराङ्गदाभुजङ्गमपुङ्गवगिरिपतिकरग्रहोल्लसिताम् । विधुतालसदनुजातां साधुश्रियमाश्रये शरणम् ॥ ३॥ सन्नन्दकमसितोज्ज्वलमोजःश्रीमत्सरूपधेयाङ्गम् । ध्यायामो बलिदैत्यध्वंसनदक्षिणमहाशयाकलितम् ॥ ४॥ समुपनतेषु प्रवणं विधूनितज्यानिघृष्टपरकोटि । वस्तुमहाशार्ङ्गं चिरमस्तु मम श्रेयसे किमपि ॥ ५॥ अनुदिनकृतिरचनकृती श्रीकृष्णब्रह्मतन्त्रपरकालः । इष्टार्थदां यतिरिमां श्लिष्टां पञ्चायुधीयनुतिमतनोत् ॥ ६॥ इति श्रीकृष्ण ब्रह्मतन्त्र परकाल महादेशिकानां कृतिषु पञ्चायुधीयस्तुतिस्सम्पूर्णा ॥