अक्षर आकार:

श्रीपञ्चाक्षरमन्त्रगर्भस्तोत्रम्

shrIpanchAkSharamantragarbhastotram

श्रीपञ्चाक्षरमन्त्रगर्भस्तोत्रम्

दुष्टतमोऽपि दयारहितोऽपि विधर्मविशेषकृतिप्रथितोऽपि । दुर्जनसङ्गरतोऽप्यवरोऽपि कृष्ण तवास्मि न चास्मि परस्य ॥ १॥ लोभरतोऽप्यभिमानयुतोऽपि पराऽहितकारणकृत्यपरोऽपि । क्रोधपरोऽप्यविवेकहतोऽपि कृष्ण तवाऽस्मि न चाऽस्मि परस्य- काममयोऽपि गताश्रयणोऽपि पराश्रयगाशयचञ्चलितोऽपि । वैषयिकादरसंवलितोऽपि कृष्ण तवाऽस्मि न चाऽस्मि परस्य ॥ ३॥ उत्तमधैर्यविभिन्नतरोऽपि निजोदरपोषणहेतुपरोऽपि । स्वीकृतमत्सरमोहमदोऽपि कृष्ण तवाऽस्मि न चाऽस्मि परस्य ॥ ४॥ भक्तिपथादरमात्रकृतोऽपि व्यर्थविरुद्धकृतिप्रसृतोऽपि । त्वत्पदसन्मुखताऽपतितोऽपि कृष्ण तवाऽस्मि न चाऽस्मि परस्य ॥ ५॥ संसृतिगेहकलत्ररतोऽपि व्यर्थधनार्जनखेदसहोऽपि । उन्मदमानससंश्रयणोऽपि कृष्ण तवाऽस्मि न चाऽस्मि परस्य ॥ ६॥ कृष्णपथेतरधर्मरतोऽपि स्वस्थितविस्मृतिमद् हृदयोऽपि । दुर्जनदुर्वचनादरणोऽपि कृष्ण तवाऽस्मि न चाऽस्मि परस्य ॥ ७॥ वल्लभवंशजनुःसबलोऽपि स्वप्रभुपादसरोजफलोऽपि । लौकिकवैदिकधर्मखलोऽपि कृष्ण तवाऽस्मि न चाऽस्मि परस्य ॥ ८॥ पञ्चाक्षरमहामन्त्रगर्भिनस्तोत्रपाठतः । श्रीमदाचार्यदासानां तदीयत्वं भवेद्ध्रुवम् ॥ ९॥ ॥ इति श्रीहरिरायवरचितं श्रीपञ्चाक्षरगर्भस्तोत्रं समाप्तम् ॥ In the Pushti Margeeya Stotra Ratnakara, it is Haridasa and not Hariraya who has written this stotra.