अक्षर आकार:

श्रीपद्मनाभस्तोत्रम्

Shri Padmanabhastotram

श्रीपद्मनाभस्तोत्रम्

(श्रीमदनन्तपद्मनाभक्षेत्रे) पद्मनाभ करुणामृतराशे सद्महेतुलवशून्यकृपायाः । छद्महारितमहाबलिसम्पद्विद्म एव तव वीर्यमनन्तम् ॥ १॥ नाभ्याः सरस्त्वेन हि वर्णनं तु सत्यं तदा स्यात्किल पद्मनाभ । यदा त्वदीयं विषयीकरोति नाभिं न चेद्याति कथं प्रमात्वम् ॥ २॥ नाभीपद्मे पुत्रं वक्षसि कान्तां च सन्दधत्तान्तः । स्वपिषि सदा किं विष्णो नम्रायास्मै द्रुतं ब्रूहि ॥ ३॥ पापाब्धौ बडवानलस्य हि शिखा जाड्यान्धकारे रविः भाग्याब्धौ शरदिन्दुपङ्क्तिरमला त्वन्नामसङ्कीर्तनम् । भक्तानां परिपोषणे च जननी स्वात्मावबोधे पिता कस्तस्माद्विमुखो भवेद्भुवि नरो नो चेन्महापापभाक् ॥ क्षीराम्भोनिधिराजमानफणिराण्मध्ये शयाना सदा लक्ष्मीपाणिपयोजमर्दितपदा कारुण्यवारान्निधिः । कुर्वाणा मधुना च कैटभयुजा युद्धं च दोर्भ्यां मुहु- र्मुद्रा काचन मुक्तिदानकुशला निद्राति जागर्ति वा ॥ पद्मनाभ तव पादसरोजासक्तचित्तमवनीपतिमेनम् । पाहि साश्रितसबन्धुसविद्वल्लोकमादरभरेण सराष्ट्रम् ॥ ६॥ सामोदं प्रदिशन्तु वञ्चिकुलभूमूलर्क्षराजाय वाग्- देवीचन्द्रकलाधरेभवदनाः कारुण्यवाराशयः । दीर्घायुर्दृढगात्रतामलयशांस्याचन्द्रतिग्मांशुभं धर्माध्वन्यधिकां प्रवृत्तिमचलामच्छिन्नसत्सन्ततिम् ॥ ७॥ पायासुर्जगदम्बकेन्दुविलसच्छीर्षेभवक्त्राः सदा राज्ञ्यौ केरलदेशभाग्यलतिके कारुण्ययुग्भिर्मुदा । दृग्भिः पादविनम्रसौख्यविततेः सम्पादिकाभिर्जवाद्- दत्त्वा सन्ततिमाशु सद्गुणयुतामारोग्यदीर्घायुषी ॥ ८॥ मोचितः किं गजाधीश पद्मनाभेन सत्वरम् । दृढभावनया तस्य पद्मनाभोऽभवद्गजेट् ॥ ९॥ श्रीभूमिपाणिसरसीरुहसेविताङ्घ्रे श्रीवत्सकौस्तुभधर प्रणतार्तिहारिन् । श्रीकण्ठमित्र दिननाथसुधांशुनेत्र श्रीपद्मनाभ मम देहि पदावलम्बम् ॥ १०॥ नागेन्द्रभोगशयन प्रणतालिवाञ्छा- सम्पूरणामरतरो विधियोनिनाभे । नाकाधिपादिपरिपूजितपादपद्म श्रीपद्मनाभ मम देहि करावलम्बम् ॥ ११॥ कमलाकरपद्मपूजितं करुणादुग्धपयोधिमध्यगम् । भुजगाधिपभोगशायिनं कलये कञ्चन देवसत्तमम् ॥ १२॥ इति श्रीश‍ृङ्गेरी जगद्गुरु श्रीसदाशिवाभिनवनृसिंहभारती- श्रीपादैः विरचितं श्रीपद्मनाभस्तोत्रं सम्पूर्णम् ।