अक्षर आकार:

श्रीपद्मनाभशतकम्

Padmanabhashatakam

श्रीपद्मनाभशतकम्

महाराजा स्वाति तिरुनाळ् विरचितम् ॥ श्री गणेशाय नमः ॥ ॥ प्रथमं दशकम् ॥ या ते पादसरोजधूलिरनिशं ब्रह्मादिभिर्निस्पृहैः भक्त्या सन्नतकन्धरैः सकुतुकं सन्धार्यमाणा हरे । या विश्वं प्रपुनाति जालमचिरात् संशोषयत्यंहसां सा मां हीनगुणं पुनातु नितरां श्रीपद्मनाभान्वहम् ॥ १॥ सत्त्वैकप्रवणाशया मुनिवरा वेदैः स्तुवन्तः परैः त्वन्माहात्म्यपयोनिधेरिहपरं नाद्यापि पारङ्गताः । एवं सत्यहमल्पबुद्धिरवशः स्तोतुं कथं शक्नुयां त्वत्कारुण्यमृते हरे! तरति कः पोतं विना सागरम् ॥ २॥ तस्माच्छिन्धि मदीयमोहमखिलं संसारबन्धावहं भक्तिं त्वत्पदयोर्दिश स्थिरतरां सर्वापदुन्मीलिनीम् । वाणीं त्वत्पदवर्णने पटुतमां विद्वज्जनाह्लादिनीं देहि त्वत्पदसेवकाय ननु मे कारुण्यवारांनिधे ॥ ३॥ येनेदं भुवनं ततं स्वबलतो यस्याज्ञयोदेत्यहर्- नाथो वात्यनिलो दहत्यपि शिखिः सर्वेऽपि यन्निर्मिताः । यश्चेदं सकलं जगत्स्वजठरे धत्ते च कल्पावधौ तत्तादृग्विभवे त्वयि प्रमुदिते किं वा दुरापं नृणाम् ॥ ४॥ भक्तानामखिलेप्सितार्थघटने बद्धोद्यमस्त्वं हरे! नित्यं खल्विति बोद्ध्यमस्ति बहुशो देव! प्रमाणं मम । नो चेद्व्यासवचस्तवैव वचनं वेदोपगीतं वचो हा रथ्याजनवादवद्बत भवेन्मिथ्या रमावल्लभ! ॥ ५॥ इन्द्रद्युम्ननृपः करीन्द्रजननं प्राप्तोऽथ शापेन वै नक्राक्रान्तपदो विमोचनपटुर्नाभूत्सहस्रं समाः । भूयस्त्वामयमर्चयन् सरसिजैः शुण्डोद्धृतैः सादरं सारूप्यं समवाप देव भवतो नक्रोऽपि गन्धर्वताम् ॥ ६॥ पापः कश्चिदजामिलाख्यधरणीदेवोऽवसत्सन्ततं स्वैरिण्या सह काममोहितमतिस्त्वां विस्मरन् मुक्तिदम् । अन्ते चाह्वयदीश! भीतहृदयो नारायणेत्यात्मजं नीतः सोऽपि भवद्भटैस्तवपदं संरुध्य याम्यान् भटान् ॥ ७॥ पाञ्चालीं नृपसन्निधौ खलमतिर्दुश्शासनः पुष्पिणीं आकर्षश्चिकुरेण दीनवदनां वासः समाक्षिप्तवान् । यावत्सा भुवनैकबन्धुमवशा सस्मार लज्जाकुला क्रोशन्ती व्यतनोः पटौघममलं तस्यास्त्वनन्तं हरे ! ॥ ८॥ यामार्धेन तु पिङ्गला तव पदं प्राप्ता हि वाराङ्गना बालः पञ्चवयोयुतो ध्रुवपदं चौत्तानपादिर्गतः । यातश्चापि मृकण्डुमौनितनयः शौरे! चिरं जीवितं नाहं वक्तुमिह क्षमस्तव कृपालभ्यं शुभं प्राणिनाम् ॥ ९॥ एवं भक्तजनौघकल्पकतरुं तं त्वां भजन्तः क्षणं पापिष्ठा अपि मुक्तिमार्गममलं के के न याता विभो! । स त्वं मामपि तावकीनचरणे भक्तं विधायानतं स्यानन्दूरपुरेश! पालय मुदा तापान्ममापाकुरु ॥ १०॥
॥ द्वितीयं दशकम् ॥ पिबन्ति ये त्वच्चरितामृतौघं स्मरन्ति रूपं तव विश्वरम्यम् । हरन्ति कालं च सह त्वदीयैः मन्येऽत्र तान् माधव धन्यधन्यान् ॥ १॥ सदा प्रसक्तां विषयेष्वशान्तां मतिं मदीयां जगदेकबन्धो! । तवैव कारुण्यवशादिदानीं सन्मार्गगां प्रेरय वासुदेव! ॥ २॥ दृशौ भवन्मूर्तिविलोकलोले श्रुती च ते चारुकथाप्रसक्ते । करौ च ते पूजनबद्धतृष्णौ विधेहि नित्यं मम पङ्कजाक्ष ! ॥ ३॥ नृणां भवत्पादनिषेवणं तु महौषधं संसृतिरोगहारी । तदेव मे पङ्कजनाभ भूयात् त्वन्मायया मोहितमानसस्य ॥ ४॥ यदीह भक्तिस्तवपादपद्मे स्थिरा जनानामखिलार्तिहन्त्री । तदा भवेन्मुक्तिरहो करस्था धर्मार्थकामाः किमु वर्णनीयाः ॥ ५॥ वेदोदिताभिर्व्रतसत्क्रियाभिर्- नश्यत्यघौघो न हि वासना तु । त्वत्पादसेवा हरति द्वयं यत् तस्मात्स्थिरा सैव ममाशु भूयात् ॥ ६॥ त्वदीयनामस्मृतिरप्यकस्माद् धुनोति पापौघमसंशयं तत् । यद्वद्गदानौषधमाशु हन्ति यथा कृशानुर्भुवि दारुकूटम् ॥ ७॥ यद्यत्स्मरन् प्रोज्झति देहमेतत् प्रयाणकाले विवशोऽत्र देही । तत्तत्किलाप्नोति यदन्यभावे तस्मात्तवैव स्मृतिरस्तु नित्यम् ॥ ८॥ अनेकधर्मान् प्रचरन्मनुष्यः नाके नु भुङ्क्ते सुखमव्यलीकम् । तस्यावधौ सम्पततीहभूमौ त्वत्सेवको जातु न विच्युतः स्यात् ॥ ९॥ तस्मात्समस्तार्तिहरं जनानां स्वपादभाजां श्रुतिसारमृग्यम् । तवाद्य रूपं परिपूर्णसत्वं रमामनोहारि विभातु चित्ते ॥ १०॥
॥ तृतीयं दशकम् ॥ दिनमनुपदयुग्मं भावयेयं मुरारे कुलिशशफरमुख्यैश्चिह्निते चारु चिह्नैः । नखमणिविधुदीप्त्या ध्वस्तयोगीन्द्रचेतो - गततिमिरसमूहं पाटलाम्भोजशोभम् ॥ १॥ यदुदितजलधारा पावनी जह्नुकन्या पुरभिदपि महात्मा यां बिभर्ति स्वमूर्ध्ना । भुजगशयन! तत्ते मञ्जुमञ्जीरयुक्तं मुहुरपि हृदि सेवे पादपद्मं मनोज्ञम् ॥ २॥ मुरहर! तव जङ्घे जानुयुग्मं च सेवे दुरितहर तथोरू मांसळौ चारुशोभौ । कनकरुचिरचेलेनावृतौ देव! नित्यं भुवनहृदयमोहं सम्यगाशङ्क्य नूनम् ॥ ३॥ मणिगणयुतकाञ्चीदाम सत्किङ्किणीभिः मुखरतमममेयं भावये मध्यदेशम् । निखिलभुवनवासस्थानमप्यद्य कुक्षिं मुहुरजित! निषेवे सादरं पद्मनाभ! ॥ ४॥ भवहरण! तथा श्रीवत्सयुक्तं च वक्षो- विलसदरुणभासं कौस्तुभेनाङ्ग कण्ठम् । मणिवलययुतं ते बाहुयुग्मं च सेवे दनुजकुलविनाशायोद्यतं सन्ततं यत् ॥ ५॥ वरद जलधिपुत्र्या साधु पीतामृतं ते त्वधरमिह भजेऽहं चारुबिम्बारुणाभम् । विमलदशनपङ्क्तिं कुन्दसद्कुड्मलाभां मकरनिभविराजत्कुण्डलोल्लासि गण्डम् ॥ ६॥ तिलकुसुमसमानां नासिकां चाद्य सेवे गरुडगमन! चिल्यौ दर्पकेष्वासतुल्यौ । मृगमदकृतपुण्ड्रं तावकं फालदेशं कुटिलमळकजालं नाथ नित्यं निषेवे ॥ ७॥ सजलजलदनीलं भावये केशजालं मणिमकुटमुदञ्चत्कोटिसूर्यप्रकाशम् । पुनरनघ! मतिं मे देव! सङ्कोच्य युञ्जे तव वदनसरोजे मन्दहासे मनोज्ञे ॥ ८॥ गिरिधर तव रूपं त्वीदृशं विश्वरम्यं मम विहरतु नित्यं मानसाम्भोजमध्ये । मनसिजशतकान्तं मञ्जुमाधुर्यसारं सततमपि विचिन्त्यं योगिभिः त्यक्तमोहैः ॥ ९॥ अथ भुवनपतेऽहं सर्गवृद्धिक्रमं वै किमपि किमपि वक्तुं प्रारभे दीनबन्धो । परपुरुष! तदर्थं त्वत्कृपा सम्पतेन्म- य्यकृतसुकृतजालैर्दुर्लभा पङ्कजाक्ष ! ॥ १०॥
॥ चतुर्थं दशकम् ॥ तावकनाभिसरोजात् जातो धाता समस्तवेदमयः । शंसति सकलो लोको यं किल हिरण्यगर्भ इति ॥ १॥ तदनु स विस्मितचेताः चतसृषु दिक्षु साधु सम्पश्यन् । समगादच्युत तूर्णं चतुराननतामिहाष्टनयनयुताम् ॥ २॥ दृष्ट्वा कमलं सोऽयं तन्मूलां तव तनुं त्वसम्पश्यन् । कोऽहं निश्शरणोऽजं कस्मादजनीति देव! चिन्तितवान् ॥ ३॥ ज्ञातुं तत्वं सोऽयं सरसिजनाळाध्वना त्वधो गत्वा । योगबलेन मनोज्ञां तव तनुमखिलेश! नाप्यपश्यदहो ॥ ४॥ तावद्दुखितहृदयः पुनरपि च निवृत्य पूर्ववज्जलजे । तावक करुणामिच्छन् चक्रे समाधिमयि! भगवन् ॥ ५॥ वत्सरशतकस्यान्ते दृढतरतपसा परिविधूतहृदयमलः । स विधिरपश्यत्स्वान्ते सूक्ष्मतया तव तनुं तु सुभगतमाम् ॥ ६॥ पुनरिह तेन नुतस्त्वं शक्तिमदास्तस्य भुवननिर्माणे । पूर्वं त्वसृजत्सोऽयं स्थावरजङ्गममयं तु सकलजगत् ॥ ७॥ सनकमुखान् मुनिवर्यान् मनसाह्यसृजत्तवाङ्घ्रिरतहृदयान् । सृष्टौ तु ते नियुक्ताः जगृहुर्वाणीं न वैधसीं भूमन्! ॥ ८॥ अङ्गादभवंस्तूर्णं नारदमुख्या मुनीश्वरास्तस्य । मनुशतरूपात्मासौ मानुषसृष्टिं चकार कमलभवः ॥ ९॥ सर्गस्थितिलयमूलं सुरमुनिजालैरमेयमहिमानम् । तं त्वामेव प्रणमन् मुदमतुलां पद्मनाभ! कलयामि ॥ १०॥
॥ पञ्चमं दशकम् ॥ भुवो भारं हर्तुं नियतमवतारांस्तु भवतो नियुङ्क्ते वक्तुं मामपि जडधियं भक्तिरधुना । तदर्थं कृत्वा मामनुपमपटुं पालय हरे भवत्पादाम्भोजप्रवणहृदयं देव सदयम् ॥ १॥ हयग्रीवाख्येन त्रिदशरिपुणा वेदनिवहे हृते निद्राणस्याम्बुरुहजनुषो हन्त वदनात् । निहन्तुं दुष्टं तं विनिहितमतिस्त्वं पुरुदया- पयोधिस्तूर्णं वै दधित बत मात्स्यं किल वपुः ॥ २॥ नदीतोये सन्तर्पयति किल सत्यव्रतनृपे भवान् दृष्टो हस्ते परमतनुवैसारिणवपुः । ततो निन्ये कूपं पुनरपि तटाकं च तटिनीं महाब्धिं तेनाहो सपदि ववृधे तावक वपुः ॥ ३॥ ततस्तं भूपालं प्रलयसमयालोकनपरं मुनीन्द्रान् सप्तापि क्षितितरणिमारोप्य च भवान् । समाकर्षन् बद्धां निज विपुलश‍ृङ्गे पुनरिमां मुदा तेभ्यः सन्दर्शितभुवनभागः समचरत् ॥ ४॥ पुनस्संहृत्य त्वं निजपरुषश‍ृङ्गेण दितिजं क्षणाद्वेदान् प्रादा मुदितमनसे देव विधये । तथाभूताऽमेयप्रणतजनसौभ्याग्यद! हरे! मुदा पाहि त्वं मां सरसिरुहनाभाऽखिलगुरो! ॥ ५॥ वहंस्त्वं मन्थानं कमठवपुषा मन्दरगिरिं दधानः पाणिभ्यां स्वयमपि वरत्रां फणिपतिम् । सुरेभ्यः सम्प्रदास्त्वमृतमिह मथ्नन् किल जवात् हरे दुग्धाम्भोधेः सपदि कमलाऽजायत ततः ॥ ६॥ ततो निक्षिप्ता वै सपदि वरणस्रक् खलु तया भवत्कण्ठे मात्रा निखिलभुवनानां सकुतुकम् । पपौ त्वत्प्रीत्यर्थं सपदि बत हालाहलविषं गिरीशः प्रादास्त्वं सुरतरुगजादीनि हरये ॥ ७॥ पुरा ते द्वास्थौ द्वौ सनकमुखशापेन तु गतौ हरे! सर्वैर्निन्द्यं खलु दनुजजन्मातिकठिनम् । तयोर्भ्राता दुष्टो मुरहर कनीयान् वरबलात् हिरण्याक्षो नाम क्षितिमिह जले मज्जयदसौ ॥ ८॥ महीं मग्नां दृष्ट्वा तदनु मनुना सेवितपदात् विधेर्नासारन्ध्रात्समभवदहो सूकरशिशुः । ततो दैत्यं हत्वा परममहितः पीवरतनुः भवान् निन्ये भूमिं सकलविनुत प्राक्तनदशाम् ॥ ९॥ वधेन स्वभ्रातुः परमकुपितो दानववरो हिरण्यप्रारम्भः कशिपुरिह मोहाकुलमतिः । विजेतुं त्वां सोऽयं निखिलजगदाधारवपुषं प्रतिज्ञां चाकार्षीद्दनुसुतसभामध्यनिलयः ॥ १०॥
॥ षष्ठं दशकम् ॥ पुत्रोऽस्य वै समजनीह तवाङ्घ्रिभक्तः प्रह्लाद इत्यभिमतः खलु सज्जनानाम् । तं तत्पिता परमदुष्टमतिर्न्यरौत्सीत् त्वत्सेविनं किमिह दुष्करमीश पापैः ॥ १॥ भूयोऽपि सोऽथ जगदीश्वर! गर्भवासे श्रीनारदेन मुनिनोक्तभवत्प्रभावः । शुश्राव नो जनकवाक्यमसौ तदानीं तत्प्रेरितैर्गुरुजनैरपि शिक्षितश्च ॥ २॥ दृष्ट्वा पिताऽस्य निजपुत्रमतिं त्वकम्पां त्वत्पादपद्मयुगळादतिरुष्टचेताः । शूलैश्च दिग्गजगणैरपि दन्तशूकैः एनं निहन्तुमिह यत्नशतं चकार ॥ ३॥ सोऽयं दृढं तव कृपाकवचावृताङ्गः नो किञ्चिदाप किल देहरुजामनन्त ! । ``कस्ते बलं खल! वदे''त्यथ देव ! पृष्टो ``लोकत्रयस्य तु बलं हरि''रित्यवादीत् ॥ ४॥ स्तम्भे विघट्टयति कुत्र हरिस्तवेति रूपं ततः समभवत्तव घोरघोरम् । नो वा मृगात्म न नरात्म च सिंहनाद- सन्त्रासिताखिलजगन्निकरान्तराळम् ॥ ५॥ तूर्णं प्रगृह्य दनुजं प्रणिपात्य चोरौ वक्षो विदार्य नखरैः रुधिरं निपीय । पादाम्बुजैकनिरतस्य तु बालकस्य कायाधवस्य शिरसि स्वकरं न्यधास्त्वम् ॥ ६॥ एवं स्वभक्तजनकामितदानलोल ! निर्लेप! निर्गुण! निरीह! समस्तमूल ! । मां पाहि तावक पदाब्जनिविष्टचित्तं श्रीपद्मनाभ! परपूरष! ते नमस्ते ॥ ७॥ दृष्टो भवानदितिजो वटुरूपधारी दैत्याधिपेन बलिना निज यज्ञगेहे । पृष्टश्च तेन ``किमु वाञ्छसि बालके''ति पादत्रयी प्रमितभूमितलं ययाचे ॥ ८॥ युग्मेन देव! चरणस्य तु सर्वलोके पूर्णे तृतीयचरणं त्ववशः प्रदातुम् । बद्धश्च देहि मम मूर्ध्नि तृतीयपादं इत्यब्रवीद्गतमदोऽनुगृहीत एषः ॥ ९॥ जातोऽसि देव! जमदग्निसुतो महात्मा त्वं रेणुकाजठर ईश्वर! भार्गवाख्यः । शम्भुप्रसाद! सुगृहीतवरास्त्रजालः कृत्ताखिलारिनिकरोरुकुठारपाणिः ॥ १०॥
॥ सप्तमं दशकम् ॥ याञ्चाभिस्त्वं खलु दिविषदां रावणोपद्रुतानां पुत्रीयेष्ट्या फलविलसितं मानवे देव! वंशे । जातो रामो दशरथनृपाल्लक्ष्मणेनानुजेन भ्रात्रा युक्तो वरद! भरतेनाथ शत्रुघ्ननाम्ना ॥ १॥ धृत्वा चापं सहजसहितः पालयन् कौशिकीयं यज्ञं मारीचमुखसुमहाराक्षसेभ्यः परं त्वम् । कृत्वाऽहल्यां चरणरजसा गौतमस्येश! पत्नीं भित्वा शैवं धनुरथ तदा लब्धवांश्चापि सीताम् ॥ २॥ मध्येमार्गागत भृगुपतिं देव! जित्वाऽतिरुष्टं भूयो गत्वा परम! नगरीं स्वामयोध्यां वसंस्त्वम् । कैकेयीवाग्भ्रमितमनसो हन्त तातस्य वाचा त्यक्त्वा राज्यं विपिनमगमो दुःखिताशेषलोकः ॥ ३॥ गत्वाऽरण्यं सह दयितया चाथ सौमित्रिणा त्वं गङ्गां तीर्त्वा सुसुखमवसच्चित्रकूटाख्यशैले । तत्र श्रुत्वा भरतवचनात्तातमृत्युं विषण्णः तस्मै प्रादा वरद! धरणिं पादुकां चात्मनस्त्वम् ॥ ४॥ भूयो हत्वा निशिचरवरान् द्राग्विराधादिकांस्त्वं कुम्भोद्भूतेन खलु मुनिना दत्तदिव्यास्त्रजालः । भ्रातृच्छिन्नश्रवणविनदच्छूर्पणख्या वचोभिः त्वायातांस्तान् खरमुखमहाराक्षसान् प्रावधीश्च ॥ ५॥ मारीचं तं कनकहरिणछद्मनायातमारात् जायावाक्यादलमनुगतः प्रावधीः सायकेन । तावद्भूमन्! कपटयतिवेषोऽथ लङ्काधिनाथः सीतादेवीमहरत तदा दुःखितात्माऽभवस्त्वम् ॥ ६॥ दृष्ट्वा लङ्केश्वरविनिहतं तातमित्रं जटायुं तस्याऽथ त्वं वरद कृतवान् प्रेतकार्यं विषण्णः । दृष्टस्तत्राऽनुपम! भवता मारुतिर्भक्तवर्यः भूयस्तुष्टः सरसमकरोः साधु सुग्रीवसख्यम् ॥ ७॥ छित्वा सालान् सरसमिषुणा सप्तसङ्ख्यान् क्षणेन व्याजेन त्वं बत निहतवान् बालिनं शक्रसूनुम् । भूयोऽन्वेष्टुं जनकतनयां दिक्षु सम्प्रेष्य कीशान् सुग्रीवोक्तान् पवनजकरे दत्तवांश्चाङ्गुलीयम् ॥ ८॥ दृष्ट्वा सीतां निशिचरगृहे तावकं देव! वृत्तं कृत्स्नं तूक्त्वाप्यविदित भवते मारुतिर्मौलिरत्नम् । तुष्टस्तावत्किल जलनिधौ बाणवित्रासिते त्वं सेतुं बद्ध्वा निशिचरपुरं यातवान् पद्मनाभ! ॥ ९॥ हत्वा युद्धे किल दशमुखं देव! सामात्यबन्धुं सीतां गृह्णन् परिहृतमलां पुष्पके राजमानः । प्राप्यायोध्यां हरिवरनिषादेन्द्रयुक्तोऽभिषिक्तः त्राताशेषो रहितदयितश्चागमोऽन्ते स्वधिष्ण्यम् ॥ १०॥
॥ अष्टमं दशकम् ॥ देव! दुष्टजनौघभरेण व्याकुलाऽथ वसुधाम्बुजयोनिम् । प्राप्य देवनिकरैः श्रितपादं स्वीयतापमिह सम्यगुवाच ॥ १॥ पद्मभूरथ निशम्य च तापं चिन्तयन् सपदि देव! भवन्तम् । युष्मदीय सकलाधिहरः श्री पद्मनाभ इति तानवदत्सः ॥ २॥ भूय एत्य तव मन्दिरमेते हीनपुण्यनिकरैरनवाप्यम् । तुष्टुवुः सविबुधो द्रुहिणस्त्वां तापमाश्वकथयद्वसुधायाः ॥ ३॥ ``संभवामि तरसा यदुवंशे यादवाः किल भवन्त्विह देवाः'' । एवमीश! कथिते तव वाक्ये वेधसा किल सुरा मुदमापन् ॥ ४॥ रोहिणीजठरतः किल जातः प्रेरणात्तव परं त्वहिराजः । त्वं च विश्वगतकल्मषहारी देवकीजठरमाशु निविष्टः ॥ ५॥ अर्धरात्रसमये तु भवन्तं देवकी प्रसुषुवेऽधिकधन्या । शङ्खचक्रकमलोरुगदाभी - राजितातिरुचिबाहुचतुष्कम् ॥ ६॥ तावदीश! सकलो बत लोको तुष्टिमाप तमृते किल कंसम् । अष्टमः किल सुतोऽथ भगिन्या- स्तद्वधं कलयतीति च वाक्यात् ॥ ७॥ बाष्पपूर्णनयनो वसुदवो नीतवान् व्रजपदेऽथ भवन्तम् । तत्र नन्दसदने किल जाता - मम्बिकामनयदात्मनिकेतम् ॥ ८॥ कंस एत्य किल सूतिगृहे ते कन्यकां तु शयितां स निशाम्य । नूनमेवमजितस्य तु माया सेयमित्ययमतुष्टिमयासीत् ॥ ९॥ तूर्णमेष निधने निरतांस्ते पूतनाशकटधेनुकमुख्यान् । प्राहिणोदजित! मन्दमतिस्तान् दुष्करं किमिह विस्मृतपापैः ॥ १०॥
॥ नवमं दशकम् ॥ एवं घोषे विराजत्ययि! भवति जगन्नेत्रपीयूषमूर्तौ दुष्टा काचिन्निशाचर्यथ समधिगता चारुयोषित्स्वरूपा । स्तन्यं दातुं कुचाग्रं तवमुखजलजे देव! चिक्षेप यावत् तावत्क्षीरं सजीवं कपटशिशुरहो पीतवांस्त्वं क्षणेन ॥ १॥ भूयः शौरे! व्रजे वै शकटदनुसुत प्राप्तवान् संहृतोऽयं वातात्मा दानवश्च प्रवितत धरणीभारनाशेन कृत्तः । दृष्ट्वैवं ते महत्वं दनुजहृतिचणं तादृशीं बाललीलां त्वन्मायामोहितत्वादयि! बत! पशुपा विस्मयं मोदमापन् ॥ २॥ नन्दः पश्यन् कदाचिन्निजनिलयगतं यादवाचार्यवर्यं गर्गं ते कारयामास च विधिवदसौ नाम कृष्णेति तेन । रामाख्यां सोदरे ते मुनिरथ कलयन् वैभवं च त्वदीयं नन्दादिभ्यः प्रशंसन् निजपदमिह सम्प्राप्तवान् भक्तवर्यः ॥ ३॥ दृष्टं मात्रा समस्तं जगदिह वदने मृत्तिकाभक्षणं ते व्याकुर्वन्त्या शिशूनामथ वचनवशात्किं त्वितो हन्त चित्रम् । भूयस्तूर्णं भवान् मङ्गळगुण! गतवान्देव! वृन्दावनं तत् युष्मद्गात्रोरुशोभा प्रतुलित यमुनातीरसंस्थं मनोज्ञम् ॥ ४॥ वन्याशं त्वय्यधीशे कलयति तरसा श्रीधराहो विरिञ्चो गोपान् वत्सान् त्वदीयानहरदयि! विभो! तावदेव स्वरूपम् । सङ्ख्याहीनं परं त्वामपि कबळधरं वीक्ष्य सम्भ्रान्तचेताः त्वत्पादाब्जे पतित्वा मुहुरपि भगवन्नस्तवीदच्युतं त्वाम् ॥ ५॥ सर्पं तोये निमग्नं परमसुकुटिलं काळियं वीक्ष्य शौरे! नृत्यन् नृत्यन् फणे त्वं तदनु गतमदं चाकरोस्तं गतं च । भूयस्त्वद्वेणुगानादजित! जगदलं मोहितं सर्वमासीत् योषिच्चित्तापहारे निपुणमिदमिति श्रीश! किं वर्णनीयम् ॥ ६॥ धृत्वा गोवर्धनं त्वं गिरिमलमतनोर्वासवं वीतगर्वं योषिद्भिस्त्वं सलीलं रजनिषु कृतवान् रासकेळिं मनोज्ञाम् । भक्ताग्र्यं गान्दिनेयं तव खलु निकटे प्रेषयामास कंसः हत्वेभेन्द्रं च मल्लान् यदुवर! सबलो मातुलं चावधीस्त्वम् ॥ ७॥ गत्वा सान्दीपनिं त्वं कतिपयदिवसैः ज्ञातवान् सर्वविद्याः कृत्वा राज्ये नरेन्द्रं विमलतमगुणं चोग्रसेनं जवेन । राजानं धर्मसूनुं चरणरतमवन् चैद्यमुख्यादिहन्ता रुग्मिण्याद्यष्टयोषायुतबहुवनिताश्चारमो द्वारकायाम् ॥ ८॥ विप्रं निस्स्वं कुचेलं सदनमुपगतं बाल्यकालैकमित्रं पश्यन् कारुण्यलोलः पृथुकमिह करात्तस्य सङ्गृह्य तूर्णम् । लक्ष्मीसंवारितोऽपि स्वयमपरिमितं वित्तमस्मै ददानः कारुण्याम्भोनिधिस्त्वं जय जय भगवन्! सर्वलोकाधिनाथ! ॥ ९॥ यावद्वृद्धिः कलेर्वै भवति बत तदा कल्किरूपोऽतिहीनान् म्लेच्छान् धर्मैकशत्रून् भरितपुरुरुषा नाशयिष्यत्यशान्तान् । स त्वं सत्वैकतानां मम मतिमनिशं देहि शौरे! तदर्थं त्वत्पादाब्जे पतित्वा मुहुरहमवशः प्रार्थये पद्मनाभ! ॥ १०॥
॥ दशमं दशकम् ॥ भूषणेषु किल हेमवज्जगति मृत्तिकावदथवा घटे तन्तुजालवदहो पटेष्वपि राजिताद्वयरसात्मकम् । सर्वसत्वहृदयैकसाक्षिणमिहातिमाय निजवैभवं भावयामि हृदये भवन्तमिह पद्मनाभ! परिपाहि माम् ॥ १॥ चिन्मयाम्बुनिधिवीचिरूप! सनकादिचिन्त्यविमलाकृते ! जातिकर्मगुणभेदहीन! सकलादिमूल! जगतां गुरो ! । ब्रह्मशङ्करमुखैरमेयविपुलानुभाव! करुणानिधे! भावयामि हृदये भवन्तमिह पद्मनाभ! परिपाहि माम् ॥ २॥ माययावृततनुर्बहिः सृजसि लोकजालमखिलं भवान् स्वप्नसन्निभमिदं पुनस्सपदि संहरन्निजबलादहो! । हन्त! कूर्म इव पादमात्मनि तु धारयत्यथ यदा तदा दारुणे तमसि विस्तृते वितिमिरो लसत्यनिशमात्मना ॥ ३॥ देवदेव! तनुवाङ्मनोभिरिह यत्करोमि सततं हरे! त्वय्यसावहमर्पयाम्यखिलमेतदीश! परितुष्यताम् । त्वत्पदैकमतिरन्त्यजोऽपि खलु लोकमीश्वर! पुनात्यहो! नो रमेश! विमुखाशयो भवति विप्रजातिरपि केवलम् ॥ ४॥ पाप एष किल गूहितुं निज दुश्चरित्रमिह सर्वदा कृष्ण! राम! मधुसूदनेत्यनिशमालपत्यहह! निष्फलम् । एवमीश! तव सेवको भवति निन्दितः खलजनैः कलौ तादृशं त्वनघ! मा कृथा वरद! मामसीमतमवैभव! ॥ ५॥ कस्तु लोक इह निर्भयो भवति तावकं किल विना पदं सत्यलोकवसति स्थितोऽपि बत न स्थिरो वसति पद्मभूः । एवमीश सति का कथा परम! पापिनां तु निरयात्मनां तन्मदीय भवबन्धमोहमयि! खण्डयाऽनघ! नमोऽस्तु ते ॥ ६॥ भावयन्ति हि परे भवन्तमयि! चारु बद्धविमलासनाः नासिकाग्रधृतलोचना परम! पूरकादिजितमारुताः । उद्गताग्रमथ चित्तपद्ममयि! भावयन्त इह सादरं भानुसोमशिखिमण्डलोपरि तु नीलनीरदसमप्रभम् ॥ ७॥ श्लक्ष्णनीलकुटिलाळकं मकरकुण्डलद्युतिविराजितं मन्दहासहृतसर्वलोकविपुलातिभारमतिमोहनम् । कौस्तुभेन वनमालयापि च विराजितं मदनसुन्दरं काञ्चनाभवसनं भवन्तमयि! भावयन्ति हृतकल्मषाः ॥ ८॥ ज्ञानमीश! बत! कर्म भक्तिरपि तत्त्रयं भवदवापकं ज्ञानयोगविषयेऽधिकार इह वै विरक्तजनताहितः । कर्मणीह तु भवेन्नृणामधिकसक्तमानसजुषां हरे! ये तु नाधिकविरक्तसक्तहृदया हि भक्तिरयि! तद्धिता ॥ ९॥ देव! वैभवमजानताद्य तव यन्मया निगदितं हरे! क्षम्यतां खलु समस्तमेतदिह मोदमीश! कुरु तावके । दीर्घमायुरयि! देहसौख्यमपि वर्धतां भवदनुग्रहात् पङ्कजाभनयनापदो दलय पद्मनाभ! विजयी भव! ॥ १०॥ ॥ इति महाराजा स्वाति तिरुनाळ् विरचितं पद्मनाभशतकम् ॥