अक्षर आकार:

श्रीपद्मनाभनतिदशकम्

shrIpadmanAbhanatidashakam

श्रीपद्मनाभनतिदशकम्

विश्वं दृश्यमिदं यतः समयवद्यस्मिन्य एतत् पुनः भासा यस्य विराजतेऽथ सकलं येनेह या निर्मितम् । यो वाचां मनसोऽप्यगोचरपदं मायातिगो भासते तस्मै देव नमोऽस्तु विश्वगुरवे श्रीपद्मनाभाय ते ॥ १ ॥ लोके स्थावरजङ्गमात्मनि तु यः सर्वेषु जन्तुष्वलं चैतन्यात्मतया विशन् विलसति ज्ञानस्वरूपोऽमलः नो लिप्तः पयसेव पङ्कजदलं मायाश्रयस्तद्गुणैः तस्मै देव नमोऽस्तु विश्वगुरवे श्रीपद्मनाभाय ते ॥ २॥ यस्येशस्य निषेवयानवमया त्वाचार्यवर्यानना- दुद्भूतप्रतिमोपदेशविकसत्साद्वर्त्मनावाप्तया । मिथ्यात्वं जगतः स्फुटं हृदि भवेत्रज्जौ यथाहेस्तथा तस्मै देव नमोऽस्तु विश्वगुरवे श्रीपद्मनाभाय ते ॥ ३॥ रूपं यस्य मृगं न चेह मनुजं नो कर्म जातिं च नो न द्रव्यं न गुणं स्त्रियं न पुरुषं नैवासुरं नो सुरम् । नैवासच्च सदित्यनन्तधिषणाः प्राहुर्महान्तो बुधाः तस्मै देव नमोऽस्तु विश्वगुरवे श्रीपद्मनाभाय ते ॥ ४ ॥ मार्ताण्डो गगनोदितस्तु तिमिरं यद्वत्पिनष्टि क्षणात् शीतं चानुपमं यथा च हुतभुग् रोगान्यथैवौषधम् । अज्ञानं खिल तद्वदेव कृपया योऽसौ विदत्ते हतं तस्मै देव नमोऽस्तु विश्वगुरवे श्रीपद्मनाभाय ते ॥ ५॥ कल्पान्ते तु चराचरेऽथ भुवने नष्टे समस्ते पुनः गम्भीरेण तथामितेन तमसा व्याप्ते च दिङ्मण्डले । योऽसौ भाति तथा विभुर्वितिमिरस्तेजः स्वरूपोऽनिशं तस्मै देव नमोऽस्तु विश्वगुरवे श्रीपद्मनाभाय ते ॥ ६॥ लोके चात्र समाधिषट्कविकसद्दिव्यप्रबोधोज्ज्वल- स्वान्ताः शान्ततमा जितेन्द्रियगणा धन्यास्तु संन्यासिनः । मुक्तिं यत्करुणालवेन सरसं सम्प्राप्नुवन्तीह ते तस्मै देव नमोऽस्तु विश्वगुरवे श्रीपद्मनाभाय ते ॥ ७॥ कृत्वा हन्त मखान्यथाविधि पुमान् स्वर्गेच्छया भूतले तेषां तत्र फलं च पुण्यसदृशं भुङ्क्ते च नातोदिकम् । सेवा यस्य दधाति मुक्तिममलामानन्दसान्द्रां स्थिरं तस्मै देव नमोऽस्तु विश्वगुरवे श्रीपद्मनाभाय ते ॥ ८॥ स्वेनैवेह विनिर्मितं खलु जगत्कृत्स्नं स्वतो लीलया स्वेनेदं परिपालितं पुनरिह स्वेनैव सन्नाशितम् । पश्यन्तो मुदितः प्रभुर्विलसति श्रेयोऽयनं सात्वतां तस्मै देव नमोऽस्तु विश्वगुरवे श्रीपद्मनाभाय ते ॥ ९॥ चित्ते यस्य तु यादृशी प्रभवति श्रद्धा निजाराधने तद्वत्तत्परिपालनाय विहितश्रद्धाय विश्वात्मने । सच्चित्पूर्णसुखैकवारिधि लसत्कल्लोलरूपाय वै तस्मै देव नमोऽस्तु विश्वगुरवे श्रीपद्मनाभाय ते ॥ १०॥ जयतु जयतु सोऽयं पद्मनाभो मुकुन्दः निजचरणरतानां पालने बद्धदीक्षः । अविकलमपि चायुः श्रीसुखारोग्यकीर्तिः प्रतिदिनमपि पुष्णन् स्वानुकम्पासुधाभिः ॥ एवं जगत्त्रयगुरोः कमलावरस्य सङ्कीर्तनं गुणगणाब्धिलवस्य किञ्चित् । देवस्य तस्य कृपयैव कृतं मयेदं सन्तो गृणन्तु रसिकाः किल सप्रमोदम् ॥ इति स्वाति तिरुनाळ् महाराजा विरचतम् श्रीपद्मनाभनतिदशकम् सम्पूर्णम् । The champU kAvyam, `syAnandUrapura varNana prabandham' penned by Maharaja SvAti tirunAL of Travanacore/ Trivandrum, deals with the mammoth temple of Lord PadmanAbha, the various temple rituals, pUja, and the festivals associated with the temple, and so on. The work is a champU (prose mixed with poerty) arranged in 10 stabakas, and in the last stabakam (verses 15 to 26), the following prayer to Lord Padmanabha appears. It is appropriately called `padmanAbha nati dashakam.' The verses, addressed to Lord Padmanabha, follow the same style, construction and philosophy, as that of Adi Sankara's `shrIdakshinamurthi Stotram.' References : 1. `shri svAti tirunAL jIvitavuM kRithikaLum' (in malayalam) by Dr. V. S. Sharma, National Book Stall, Kottayam (1985) - 1128 pages 2. `Sri Padmanabha Shatakam and Syanandurapura varnana Prabandham' (Sanskrit text with Tamil commentary by V S V Gurunurrthi Sastrigal), Swathi Tirunal Krithis Publication Committe, Trivandrum (1973) - 457 page 3. Syanandurapuravarnana Prabandha (Digital Library of India 99999990177833 ) Maharaja Ramavarmakulashekhara Perumal, with commentary of Rajarajavarma Koil Tampuran, Edited by T. Ganapati Shastri, 1920, 228 pgs