अक्षर आकार:

श्रीपार्थसारथि सुप्रभातम्

Shri Parthasarathi Suprabhatam

श्रीपार्थसारथि सुप्रभातम्

कौसल्या-सुप्रजा राम पूर्वा सन्ध्या प्रवर्तते उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥ उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज । उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥ वन्दे वृन्दावनान्ते मणिगणविलसत्सौधहर्म्ये गृहाढ्ये सम्राजत्कैरविण्यास्तटभुवि घृणिमद्गोपुरे सालरम्ये । आनन्दाख्ये विमाने मुनिगणविनुतं पार्थसूतं च रामं रङ्गेशं श्रीनृसिंहं गजवरवरदं श्रीक्षितिभ्यां समेतम् ॥ १॥ मातः श्रीर्जगतामशेषजगतां नाथस्य भर्त्तुः प्रिये तद्वक्षस्थलनित्यवासिनि सदा श्रीवेदवल्याह्वये । वृन्दारण्यनिवासियोगिसदने सम्भूय वारान्निधे- र्मन्नाथामरभूरुहेण सहिते नैशं प्रभातं शुभम् ॥ २॥ श्रीमद्वेदलतां श्रितामृतलतां वृन्दावने संस्थितां सम्यग्दृष्टपरावरेण मुनिना संवर्धितां तद्धिताम् । लब्ध्वा तां समुपेत्य दुग्धजलधेस्तद्दत्तनामा वसन् मन्नाथाश्रितकल्पभूरुहविभो ते सुप्रभातं हरे ॥ ३॥ समस्तकल्याणगुणैकधाम्नः स्वशक्तिलेशोद्धृतभूतलस्य । प्रह्लादभक्तेः परिवर्धकस्य मन्नाथनाम्नस्तव सुप्रभातम् ॥ ४॥ श्रीमत्कैरविणीसरोवरतटे नित्यं तपः कुर्वते सम्यग्ज्ञानवतां वराय भृगवे दत्वा त्वभीष्टं वरम् । लब्ध्वा तस्य सुतां जगत्त्रयमुदे तस्मै प्रसन्नस्य ते मन्नाथाद्य हि सुप्रभातमखिलांस्त्रातुं प्रसीद प्रभो ॥ ५॥ श्रीमन् धरापरविमोचनदीक्षितं त्वां सम्बोधयन्ति विधिशङ्करशक्रमुख्याः । स्वामिन् जगत्त्रयविभो यदुवंशनाथ श्रीपार्थसूत भगवंस्तव सुप्रभातम् ॥ ६॥ भास्वान् विकासयति पङ्कजकुड्मलानि पद्माकरेषु परिकूजितसारेसेषु । कूजन्ति पञ्जरशुकाः सह सारिकाभिः श्रीपार्थसूत भगवंस्तव सुप्रभातम् ॥ ७॥ वीणां प्रगृह्य मुनिवाहनयोगिवर्यो गानं करोति सह तुम्बुरुनारदाद्यैः । var तुम्बुरुनारदाद्याः सङ्गीतवाद्यनिपुणास्तव सुप्रभात- गाथाः पठन्ति यदुनन्दन सुप्रभातम् ॥ ८॥ ब्रह्मादयस्सुरपतिप्रमुखा दिगीशाः स्वस्वाधिकारनियतास्तव सैन्यनाथाः । संप्रार्थयन्ति तव सद्मपुरोविभागे श्रीपार्थसूत भगवंस्तव सुप्रभातम् ॥ ९॥ गोपाङ्गनास्तव हि मङ्गलगीतकानि गायन्ति कामशरपीडितगात्रयष्ट्यः । गोपालबालककुलानि विसृज्य वत्सान् त्वां प्रार्थयन्ति यदुशेखर सुप्रभातम् ॥ १०॥ स्नेहप्रतिस्नुतपयोधरपारयुक्ताः गावः स्ववत्ससहिताः परितोषयुक्ताः । वत्सान् विसृज्य च पयः परिदोहयन्ति गोपालकास्तव यदूद्वह सुप्रभातम् ॥ ११॥ वृन्दावने विहरतां पशुपालकानां रक्षार्थमात्तवरवेत्र सुशङ्खपाणे । भ्रात्रा समेत सुमनोहर भूषणार्ह प्रोत्तिष्ठ पार्थरथपालक सुप्रभातम् ॥ १२॥ वृन्दावनान्तरमनोज्ञवनान्तरेषु नानातरुप्रवरशोभिजलाशयेषु । कूजद्विहङ्गमगणेषु मधुव्रतानि गायन्ति पार्थरथनायक सुप्रभातम् ॥ १३॥ मन्दारकुन्दवरकैतकमाधवीनां आमोदनिर्भरवनान्तरनिस्सृतोऽसौ । मन्दानिलः प्रसरति प्रवरः प्रभाते श्रीपार्थसूत भगवंस्तव सुप्रभातम् ॥ १४॥ सम्फुल्लकैरवसरोवरनीरसंस्थाः हंसास्सचक्रमिथुनास्सह सारसैश्च । तीरे तु देशिकगणैस्सह संविवादान् तन्वन्ति पार्थरथनायक सुप्रभातम् ॥ १५॥ तद्देशिकाः सकलशास्त्रविदां वरिष्ठाः त्वत्प्रोक्तदिव्यचरमार्थनिविष्टभावाः । कासारयोगिमुखदेशिकसूक्तिनिष्ठाः तिष्ठन्ति किङ्करकृतौ तव सुप्रभातम् ॥ १६॥ श्रीभट्टनाथकृतिभिस्तव मङ्गलानि शंसन्ति देशिकवरास्त्वमितप्रभावाः । गोदासुसूक्तिभिरपि प्रविबोधयन्ति श्रीपार्थसूत भगवंस्तव सुप्रभातम् ॥ १७॥ सूर्योदये ग्रहगणास्त्वितरे सुरेन्द्राः आज्ञां तवैव निजवैभवसंप्रयुक्ताः । संप्रार्थ्य तोषितुमिहाद्य जगत्पतिं त्वां तिष्ठन्ति पार्थरथनायक सुप्रभातम् ॥ १८॥ नित्यार्चनां रचयितुं विविधोपहारान् वस्तूनि वस्त्रवरदिव्यविभूषणानि । सङ्गृह्य वैदिकशिखामणयः प्रभाते तिष्ठन्ति पार्थरथभूषण सुप्रभातम् ॥ १९॥ काश्मीरकेसरयुतं हरिचन्दनञ्च कस्तूरिकां च घनसारवरं गृहीत्वा । द्वारि स्थितास्तव हि दासगणास्समस्ताः श्रीपार्थसूत भगवंस्तव सुप्रभातम् ॥ २०॥ सम्फुल्लपङ्कजनवोत्पलकैरवाणि सच्चम्पकैर्मरुवकैः कृतमालिकानि । सङ्गृह्य तावकसमर्चनमादरेण तिष्ठन्ति कर्तुमनघास्तव सुप्रभातम् ॥ २१॥ भाग्याधिकास्तव पदाब्जनिविष्टभावाः पीताम्बराण्यपरिमेयविभूषणानि । रत्नानि काञ्चनयुतानि समर्पयन्ति श्रीपार्थसूत भगवंस्तव सुप्रभातम् ॥ २२॥ प्रातःप्रयुक्तनवनीतपयःफलानि मुद्गान्नलड्डुकमनोहरमिश्रितानि । सोपायनानि च समर्पयितुं यतन्ते श्रीवैष्णवास्तव यदूद्वह सुप्रभातम् २३॥ भेरीमृदङ्गपटहानकगोमुखादि- वाद्यानि घोषयति दासगणस्तवाग्रे । तिष्ठन्ति नर्तनपरा गणिकास्समस्ताः श्रीपार्थसूत भगवंस्तव सुप्रभातम् २४॥ हस्तीन्द्रमूर्ध्नि धृतकाञ्चनकुम्भतीर्थं छत्रावृतं विधृतचामरयुग्ममारात् । श्रीमन् प्रभो तव हि मङ्गलमज्जनाय श्रीपार्थसूत भगवंस्तव सुप्रभातम् ॥ २५॥ एकान्तिनश्च विमलाशययोगिवर्याः अध्यापकास्तव पदाब्जनिविष्टभावाः । तिष्ठन्ति सन्निधिमुपेत्य भवत्पदाब्जे सेवार्थमर्जुनसखे तव सुप्रभातम् ॥ २६॥ त्वत्सेवनाय सकलद्रविडागमानां वक्ता पराङ्कुशमुनिस्स्वपदप्रपन्नैः । रामानुजोऽपि कृतनित्यसमस्तकृत्यः त्वद्द्वारि तिष्ठति विभो तव सुप्रभातम् ॥ २७॥ उत्तिष्ठ लक्ष्मणगुरो सह सीतयाऽद्य धर्मं विवर्धय विभो जय पालयास्मान् । दासान् कुरुष्व सहसा तव किङ्करांश्च ते सुप्रभातमधुना रघुवंशनाथ ॥ २८॥ श्रीमन् गजेन्द्रवरदाश्रितपारिजात श्रीवैनतेयभुजमूलविभूषणाढ्य । इन्द्रादिदेवगणपूजितपादपद्म श्रीमन् वरप्रद सुरेश्वर सुप्रभातम् ॥ २९॥ श्रीमन् नृसिंह जगतां जनिहेतुभूत सम्पालनान्तकरणादिषु जागरूक । अन्तःप्रविश्य च नियन्तृतया भवास्मान् श्रीमन् नृसिंह भगवंस्तव सुप्रभातम् ॥ ३०॥ श्रीमन् नृसिंह तव मङ्गलमस्तु नित्यं सूर्येन्दुतारकसमानमहःप्ररोहैः । नैशं तमःप्रसरमान्तरमप्यपास्तं स्वामिन् नृसिंह भगवंस्तव सुप्रभातम् ॥ ३१॥ काव्योऽपि पूर्वदिशि संस्थितपर्वतस्थो वाचां पतिर्हिमकरोऽस्तमितो बभूव । पक्षी निनादमपि पञ्जरगः करोति श्रीमन् नृसिंह भगवंस्तव सुप्रभातम् ॥ ३२॥ श्रीपार्थसारथि रघूत्तम वेदवल्ली- मन्नाथ सौम्यनरसिंहवरप्रदानाम् । ये सुप्रभातमनिशं प्रपठन्ति तेषां ब्रह्मेश्वराद्यसुलभं सुलभं पदं स्यात् ॥ ३३॥ इति श्रीपार्थसारथि सुप्रभातम् ।