अक्षर आकार:

श्रीपार्थसारथिस्तवः

Shri Parthasarathi Stavah

श्रीपार्थसारथिस्तवः

श्रियै नमः । श्रीमते रामानुजाय नमः । श्रीमन्नृसिंहवरद श्रीरङ्गेशरघोत्तमैः मूर्तिभेदैश्शुभैस्सस्व्य जयत्यर्जुनसारधिः आवियुर् श्रीनिवसचार्यविरचितः श्रीपार्थसारथिस्तवः प्रपन्नसञ्जीवनं यतीन्दुगुणचन्द्रिका च

प्रथमो भागः ।

श्रीः । श्यामाभं द्विभुजं किरीटरुचिरं शङ्खारिराजत्करं राजीवायतलोचनं विकसिताम्भोजोपरिस्थायिनम् । श्रीवत्साङ्कितवक्षसं परिलसद्राकेन्दुबिम्बाननं ध्यायामो हृदि वासुदेवमितरैः पूर्णैर्गुणैरञ्चितम् ॥ पद्मस्थामवकुञ्च्य दक्षिणपदं संस्थाप्य वामं पदं श्यामाभां वरदायिदक्षिणकरां विस्तार्य बाह्वन्तराम् । रत्नाभां दधतीं प्रसूनविलसत्फालोर्द्ध्वभागां हृदि ध्यायामो घनपीवरस्तनभरां भूषोज्ज्वलां रुक्मिणीम् ॥ श्रियै नमः । श्रीरुक्मणिसमेतपार्थसारथिपरब्रह्मणे नमः । श्रीमत्कैरविणी क्षेत्रा कल्पकं कल्पकं नृणाम् । रुक्मणीलतिकाश्लिष्टं पार्थसारथिमाश्रये ॥ १ ॥ आचार्यस्सर्वशेषी स यस्मात्तस्माद्धृतात्मनाम् । अन्यत्र न पतेदेव मत्कृतानति सन्ततिः ॥ २ ॥ यत्तदुक्तमविज्ञातं श्रुतिभिः प्रतिभावताम् । अज्ञत्वादेव संप्राप्ते वेत्तृत्वं वक्तृता च मे ॥ ३ ॥ अधिकारोऽत्र नोवेति कल्पना न हरिस्तुतौ । पश्यन्तु साधु विबुधाः तावत्कालफलानयम् ॥ ४॥ अथवा कुरु काधीश पदपद्ममधुद्रवैः । निर्धूततापवंशोत्थः नार्हामि न हरिस्तुतौ ॥ ५ ॥ यद्वा रमानृहरिकारिजदृष्टितीर्ण- मायाप्रवाहविभवो ममताविहीनः । अत्यन्तशेषमतिरात्मपतीक्षणेन स्तोत्राय सत्कुलपतेर्यतते जनोऽयं ॥ ६ ॥ यदि वा पञ्चषाश्श्लोकाः आरब्धाः परमाणवः । आह्वये तार्किकान् साधून् अणुकारणवादिनः ॥ ७ ॥ यद्वा श्रीपतिसङ्कल्पविश्वहेतुत्ववादिनः । आश्रये निगमान्तार्यान्(१) ज्ञानवत्ख्यापितात्मकान् ॥ ८॥ var (१) त्रय्यन्तवृद्धान् ॥ अहो नु विश्वपतिना स्वतन्त्रेणाऽस्वतन्त्रधीः । प्रवेशितोऽस्मि सुदृढं गुणरत्नाकरे निजे ॥ ९ ॥ यद्वत्खे मरुतः सुरासुरगणाः कान्ताः सुराणां स्त्रियः ज्योतिश्चक्रमथाण्डजाश्च शशभृत्सूर्यस्तदन्ये ग्रहाः । अन्ये सत्यपरायणा मुनिगणा ये चापि दिव्यर्षयः ते चिन्तां न च यन्ति यान्ति च पुनर्यावत्फलाविष्कृति ॥ १०॥ यद्वा सदार्यपरिवीक्षणलब्धहृद्य ज्ञानप्रदीपविलसद्धृदयावकाशः । राजाधिराजयदुराट्-चरितामृताब्धि- रत्नानि तानि कलयामि यथा स्वशक्ति ॥ ११ ॥ तमोहन्ता कृष्णः गगनचरतेजोविलसितः निरुन्धन् द्रष्टॄणां नयनपथनिम्नोऽन्ततयियम् । मनुष्यानन्यान्वा निजनिजपदस्थांश्च कलयन् कथं तद्धर्म्मासौ जलधिसुतया भाति सकशः ॥ १२ ॥ फेनैः पुष्पैस्सुकलितमहावीचिभिः दोर्भिरुच्चैर्लक्ष्मीस्थानायितसुहृदयो । वारांराशिः किमेषः सत्त्वस्तोमानजहद var वारिराशिः मलाङ्गोह्ययं वाथ कृष्णः श्वासोद्भेदा हतसुररिपुः चित्रधामैकराशिः ॥ १३ ॥ कल्पस्तोमः प्रसूनैरसुसुपरिमळैर्भुषणैर्भुषितो वा शाखालक्षोपजुष्टो द्विजवरनिवहैरात्तगानैर्गरिष्ठः । सूर्येन्दुभ्याममुक्तः स्वपदनतिमतां छायया तापहारी हन्तायं लोकनाथः नतभवहरणाभीतिमुद्राविलासः ॥ १४ ॥ किं वा विष्णुपदस्थमेघनिवहः विद्युच्छ्रिया भूषितः सन्तप्ताखिलतापहृन्निजगुणो दृष्टस्सदैवोन्मुखैः । अद्धा दिक्षुविदिक्षु कीर्त्तिकलितः दोषैरजुष्टस्स्वतः यद्वेदं सुदिनं यदीक्षणदिनं कृष्णश्श्रिया मोदते ॥ १५ ॥ बहुळपदसुजुष्टः छन्दसां वाथराशिः निखिलजनपवित्रात्मीयशब्दप्रचारः । बहुमुखभुजशखाकल्पिताशेषभोगो- ऽनवरतकलितश्री श्रीसखः पार्थसूतः ॥ १६ ॥ सुराणामास्थानं विविधचिदचिद्वृन्दनिलयः सदा गीतानन्दप्रकटितमहात्मीयविभवः । सदाऽऽगत्याश्लिष्टः सकलजनरक्षामतिपदं सुमेरुर्वा यद्वा हरिरखिलनिर्म्माणनिपुणः ॥ १७ ॥ रथ इव कलिताक्षो योजितात्मीयचक्रः रिपुदमनपरात्मा दिव्यगन्धर्वजुष्टः । स्वकलितबहुशक्तिः दूरदृष्टस्वकेतुः सकलनयनदृष्टः किं रमेशः स्वतन्त्रः ॥ १८ ॥ सुरभिरिव सुराणां स्थानभूताङ्गयष्टिः सकलमुनिगणेज्या होमरक्षाप्रधानः । सुकलित बहुधर्म्मैरेव दृष्टस्वरूपः स च यदुकुलनाथः स्त्रीसमाजाद्विशिष्टः ॥ १९ ॥ रत्नाकरो जलधिवत्सुविशालमूर्त्तिः स्त्रीरत्नजन्मनिलयो निलयो गुणानाम् । मुक्ताप्रवाळविलसत्परभागजुष्टः लक्ष्मीपतित्वविभवेन विशेषितोऽसौ ॥ २० ॥ आनन्दाख्यविमानतल्लजरुचा नित्यं समुद्भासिते क्षेत्रे कैरविणीपदेऽतिविलसद्दिव्यालयेऽन्तर्गृहे । उद्यद्दक्षिणवृत्तबाहुविलसच्चङ्खारवामोदिता शेषप्राणिचयस्तदन्यभुजसन्निर्दिष्टपादाम्बुजः ॥ २१ ॥ श्रीमान्वेङ्कटकृष्णनामयदुराड्-भक्तान् निजैकाश्रयान् कुर्वन् सोदरपुत्रमित्रसहितान् सुभ्रातृपुत्रैस्सह । श्रीतोण्डादिमभूभृते शुचिधिये सर्न्दशयन् स्वां तनुं श्रीवैखानसभक्तमुद्खमुनिवर्यात्रिप्रतिष्ठापितः ॥ २२॥ द्वाभ्यामेव न तेभ्य एष यदुराडिष्टैहिकामुष्मिका- भिख्यार्थं प्रददत्स्मिताननविधुर्दोर्भ्यामतीवोज्ज्वलः । श्रीमद्रामसुसात्यकिप्रगुणवत्प्रद्युम्नपुत्रोत्तम- स्वारातिप्रचयानिरुद्धदयितैर्विद्योतते सङ्गतः ॥ २३ ॥ श्रीमन्नृसिंहवरदश्रीरङ्गेशरघूत्तमैः । मूर्त्तिभेदैश्शुभैस्स्वस्य जयत्यर्जुनसारथिः ॥ २४ ॥ सिद्धं जगद्धेतुतया भवन्तं रमापतिं वेदशतैस्सुतर्कैः । सर्वज्ञसाम्राज्यपदेऽभिषिक्तं जानन्ति सन्तो बहुशक्तिमन्तम् ॥ २५ ॥ कारुण्याविष्टचित्तः कमलसमदृशा विश्वलक्ष्म्या समानः तत्तत्कर्मानुरूपप्रकृतविरहितक्लेशविश्वप्रचारः । तत्तत्तत्त्वान्तरात्माप्यकलिततनुभृत्कृत्यतत्कार्यसङ्ग- श्चामोक्षं क्लृप्ततन्त्रः परिणतिसमयेऽपेक्षिते मोक्षदायी ॥ २६ ॥ श्रिवैकुण्ठावस्थितो वासुदेवः श्रिभूनीळाभिश्च शेषासनस्थः । शेषश्वासह्रासवृद्ध्यानुगुण्यात् पात्रं विश्वं भङ्गसृष्ट्योः करोषि ॥ २७ ॥ वक्त्रप्रभापरिणतिस्तवदिव्यदेहः देहोचिताननरुचिर्नु चिराय शङ्का । स्मेरं मुखं प्रणतकर्षकमन्यदङ्गं यत्तच्च तत्समगुणं वद पार्थसूत ॥ २८ ॥ पादाम्बुजातकलितौ मणिनूपुरौ ते मञ्जुप्रणादमुखरौ मकरध्वजस्य । शिष्यप्रशिष्यविषये नियमेन साङ्ग- श‍ृङ्गारनर्मनिगमं परितो ब्रुवाते ॥ २९ ॥ महामेरुर्दर्पात्पदकमलभावं हृदि लगन् अहो नु स्वर्णाङ्गः निजहृदयमप्राप्य बहुशः । पदाम्भोजापीठायितकमलगात्रो रविरुचिः स्फुरत्पद्मे मौळौ वहति पदपद्मं श्रितसुखम् ॥ ३० ॥ परागपरमाणवो यदि पतन्त्यमी वेधसः इतीव किल भीतधीस्सुरपदाचलः पद्मतः । स्वरूपमथ कल्पयन् तव नु विश्वमातुः कृपा धराधर सुपांसुळं पदयुगं वहन्मूर्द्धनि ३१ त्वत्पादाब्जे ध्वजपविमहाशङ्खचक्रदिरेखाः दृष्टास्सन्तीत्यनघवचसो ये स्तुवन् पादपद्मम् । तद्द्रष्टारौ कमलनयनस्वर्णपाथोजपीठं साक्षाद्ब्रह्मा दनुजविजये क्लृप्तपादाभिषेकः ॥ ३२ ॥ त्वद्दिव्यलावण्यनिधिस्वरूपं कल्याणसंवाहिदृशां जनानाम् । सर्वानुकूलं जलधिर्निरीक्ष्य निन्दत्यहो घोषमिषात्स्वदेहम् ॥ ३३ ॥ तव चरणगतं यत्कर्क्कशत्वं मृदुत्वं युगपदुदयभावात्सङ्गतं लब्धसख्यम् । वनभुवि शकटारौ वार्द्धिकन्याकराब्जे मुनियुवतिदृषत्व चेदने च प्रदृष्टे ॥ ३४ ॥ त्वत्सङ्कल्पादधिकशकनं तावकाङ्गं च तत्त- त्त्वत्तोऽप्युच्चैरखिलविदितं नोच्यते पक्षपातात् । ऊरोर्जातासुरजनमनःकर्षणी चोर्वशी सा पदाम्भोजस्फुरितरजसः पाददृग्धर्मपत्नी ॥ ३५ ॥ पदसरसिजवैभवं हि शक्यं न खलु बुधैर्निगमैस्त्वयापि वक्तुम् । सरसिजगृहया करेणवा यत्तव वदनेऽर्पितरस्यताप्रभावम् ॥ ३६ ॥ शेषभोगशयनान्मृदुळं किं भाग्यशालिवटपत्रमनर्घम् । यत्र क्लृप्तशयनोऽर्भकवृत्त्या कल्पसेऽस्य जगतोंऽकुरणाय ॥ ३७ ॥ निर्मितेष्वथ जगत्सु च सर्वेषूच्चनीचपरिकर्बुरितेषु । अन्तरात्मविधयाखिलतत्त्वेष्वद्भुताकृतिरमूनि बिभर्षि ॥ ३८ ॥ एकरूपमिव या प्रकृतिर्वा सा विवर्त्तमुपलभ्य दृशा ते । नामरूपकलितं च यथार्हं भूजलेन्द्रियगतीश्च बिभर्ति ॥ ३९ ॥ व्यूहत्रयं व्यूहचतुष्टयं वा किञ्चिन्निमित्तेन करोषि रूपम् । रूपान्तरं वार्जुनसूत हृद्यं यद्विश्वरूपं कुरुपर्षदात्तम् ॥ ४० ॥ विशाले लोकेऽस्मिन्विविधफलजुष्टे नृनिवहे यदीच्छावैगुण्यात्प्रभवति मिथो हिंस्रविधया । तदा तत्रैकस्सन् तदुचितसुखाद्याश्रितमतिः स्वतस्नेहाधिक्याद्व्रणगणविरोपाय भवसि ॥ ४१ ॥ प्रकल्प्य जगदीक्षणं तदनु विश्वसंरक्षणं यथा- विधि ततो लयस्तदनु जीवसञ्जीवनम् । स्वतो निजधिया क्वचित्क्वच परात्मसंवेशनं ततोऽन्यविधया क्वचिद्बहु तनोषि नर्मश्रिया ॥ ४२ ॥ सर्वज्ञभावाद्दयया विसृष्टे जीवात्मवृन्देऽप्यधिकारभाजि । ज्ञात्वाऽऽर्तिहारिप्रमुखप्रवृत्तिं त्वां स्वं स्वतन्त्रं मनुते हि कश्चित् ॥ ४३ ॥ अनुदयास्तमयोऽमृतसागरादमृतदीधितिरेष मुखाभिधः । अनलसेशसुरेशमुखोद्भवप्रभुरथो परिलुप्ततमः कथम् ॥ ४४ ॥ मुखमयपरिपूर्णचन्द्रबिम्बे ग्रहणरुची तव केतुसैंहिकेयौ । असितरुचिभरभ्रुवोर्मिषेण प्रधितधियः किल शङ्कयेति मग्नाः ॥ ४५ ॥ उभयविभूतियोगसमयोचितरत्नमहो ऽङ्कुरलळितेन्द्ररत्ननिलयो निलयो नृदृशाम् । जलनिधिकन्यकाकरधृताम्बुरुहद्वितये नवनवहासकृत्तव किरीटपतीरविरुक् ॥ ४६ ॥ कुण्डलं मुखमण्डनं श्रुतिलम्बितं मणिकल्पितं श्रीमदंससुसङ्गतं निजभाविधूततमोगणम् । नित्यमुक्तसभागतार्थिगणार्थपूरणनिस्तुलं नेह नास्ति च नास्ति चेति समत्ववादिनृघोषितम् ॥ ४७ ॥ स्वातन्त्र्यधैर्यार्जववत्सलत्वपूर्णत्वशूरत्वसमत्वमुख्यान् । संसूचयत्यात्मगुणान् बुधानां त्वज्जानुलग्नायत वृत्तबाहुः ॥ ४८ ॥ प्रच्छायबाहुशाखानां पल्लवोंऽगुळयः किल । अर्थिवाय्वनुगावैरिकमलामर्मकर्त्तनाः ॥ ४९ ॥ कमलोदरसोदरपाणितलं विनताभयसत्रकथाकुतुकम् । सगरात्मजपुण्यनदीप्रभवं कपटाकृतिसूतमहं कलये ॥ ५० ॥ विषयाग्निशिखापरितप्तनृणां विमलामृतसागरकर्मगुणम् । शिखिवाहन तत्पितृवन्द्यपदं कपटाकृतिसूतमहं कलये ॥ ५१ ॥ द्रोणसुतशस्त्रपरितप्ततनुरक्षा- कल्पकधियं सुजनकल्पकमिहस्थम् । देवपतिनन्दनजपारियुतजाता कर्षकधियं कलुषहारिगुणमीडे ॥ ५२ ॥ क्रीडितेन सुखप्रदं परिपीडितासुरनायकं पालितामरनायकं परिपिडितासुरराक्षसम् । वारिराशिसुतायुतं बलवैरिरत्नगिरित्विषं वामनोन्नतधीविहीनमथाश्रये नरसारधिम् ॥ ५३ ॥ करकलितकशं गजेन्द्रवश्यं बलरिपुसोदरभावदत्तचित्तम् । मृदितरिपुगणं शितैश्च शस्त्रैः अनुसवनं हृदये स्मरामि सूतम् ॥ ५४ ॥ अनुगतचिदचिन्नियन्तृभावं स्मृतिगतसर्वजनावनाख्यसत्रम् । विपिनसुमसृजा विभूषितांसं श्रुतिशतनिर्जितसद्गुणं भजेऽहम् ॥ ५५ ॥ जलनिधितनयाकृतात्मदेह- श्रमहरवन्दनमालिकेति सद्भिः । अनुकलकृतशङ्कया तमीडे कलितरुचा वनमालया प्रहृष्टम् ॥ ५६ ॥ मुखकान्तिवारिनिधिसङ्गताविमौ शफराविति स्तिमितदृक्सरोजया । रमया विशालकृपया सदेक्षिते नयने स्मरामि मम तापनुत्तये ॥ ५७ ॥ कलितोर्द्ध्वपुण्ड्रतिलकं मृगीमदैः स्मयमानचन्द्रवदनं जितश्रमम् । कमलाक्षिपातसुभगं रसावहं तपनीयवस्त्रधरमाश्रये सदा ॥ ५८ ॥ अळिकुलदळनार्हकुन्तळाढ्यं विमलदृशामळिकाक्षरप्रणाशम् । अळिकवचनदूरसत्कटाक्षादृत- विबुधं प्रणमामि पार्थसूतम् ॥ ५९ ॥ मुखकान्तिनाम्नि जलधौ सुखावहे स्मितमौक्तिकाधरसुविद्रुमं नवम् । वरनासिकाव्रततिनाळभास्वर- द्विकपद्मधीकरदृशं श्रये हरेः ॥ ६० ॥ उदराण्डजातगणनार्पिता अथो रदना अतीव धवळाश्शुभावहाः । रुचिरप्रभाविजितकुड्मलश्रियः स्मृतिसङ्गता नरसखस्य मे श्रियै ॥ ६१ ॥ पद्मामुखेन्दुकृतसङ्गवळर्क्षभावौ तद्भावसङ्गविशदीकृतसुन्दराङ्गौ । पार्श्वस्थद्रष्टृजनदृष्टनिजात्मबिम्बौ वन्दे हरेस्तुलितशैलतटौ कपोलौ ॥ ६२ ॥ उदारकृतवीक्षणं विनतशोकनिर्वापणं विदर्भतनयाञ्चितं विविधतापसंशोषणम् । विशालधवळप्रभाश्रयवशाच्च निघ्नं नृणां पृथासुतरथाश्रयप्रभुनिरीक्षणं प्रार्थये ॥ ६३ ॥ यत्पातलेशात्किल कौरवाणां वृन्दं कथाशेषितमेव दृष्टम् । किमत्र चित्रं मम जन्महेतु मर्मद्रुतं नश्यति तत्प्रपातात् ॥ ६४ ॥ अहो जनानां व्यसनाभिमुख्यं तद्दृष्टिपातादतिवर्तमानाः । आब्रह्मसृष्टेरनुवर्तमान- संसारकूपे यदमी पतन्ति ॥ ६५ ॥ यदा पार्त्थसूत प्रभातारुणाब्ज प्रभातुल्यदृग्लेशधूतात्मतापः । अभूवं प्रभातप्रभः काळरात्रिः कथं मां तु कुर्याद्भवाख्या क्षितीन्दो ॥ ६६ ॥ हरिनयनसुधाप्रवाहपूतः स्मितमयचन्द्रिकयास्य धूततापः । तदनघ महिमाऽऽत्मदृग्जितोऽहं हृदि कलये किमु भीतिमात्मनाथ ॥ ६७ ॥ करकलितकशे सशङ्खचक्रे जलधिसुता विलसद्भुजान्तराळे । त्वयि विलसति सर्वदे सुन्दरं ते ननु रचिताञ्जलिरन्यतः कुतस्स्याम् ॥ ६८ ॥ जलनिधितनयादोर्वल्लिपुष्पौघशङ्का प्रसृमररुचिरेखा कङ्कणोल्लासिकण्ठः । मृगमदकलुषोऽयं लोककालुष्यहन्ता कलयतु कुशलं नः कोऽपि कारुण्यराशिः ॥ ६९ ॥ उदारभुजलोचनं सकलरक्षणे लोलुपं श्रिया च निजशोभया गलितसुन्दराङ्गं हरिम् । प्रकृष्टवनमालया जलधिसाररत्नश्रिया सुकर्बुरितविग्रहं नरसखं हृदा संश्रये ॥ ७० ॥ पारिजातमिव नन्दनश्रियं नन्दगोपमिव गोविशोभितम् । देवराजमिव वज्रसङ्गतं पार्थसारथिमुपाश्रये हरिम् ॥ ७१ ॥ चिदचिदवनदीक्षं चेतना पद्मिनीनां सदयविनतवीक्षं विस्मिताशेषदृष्टम् । जलधितुलितदेहं जानुलग्नात्मबाहुं नररथनिलयं त्वां वीक्ष्य हृष्टो भवामि ॥ ७२ ॥ काशसुमकाशतनुमात्मपतिमीशा- वास्यमुखवेदशिखरेडितगुणाब्धिम् । अब्धितनयानयननिघ्ननिजविश्वा- धीश्वरनियन्त्रणधियं हरिमुपासे ॥ ७३ ॥ सम्भाषमाणमिव जङ्गमपारिजातं स्मेरायुधप्रसवजालविभूषिताङ्गम् । नित्यं श्रिया वसुधया च निषेव्यमाणं श्रीपार्थसारथितनुं मनवै मुकुन्दम् ॥ ७४ ॥ आचार्यैरेव मुक्तो मयि च कृतदयैः सास्त्रदीपैकदोर्भिः योऽयं देवोऽखिलेशः जलनिधिसुतया सार्द्धमाविष्कृतात्मा । तत्पादाम्भोजयुग्मं कलय शरणमित्यत्र मा गा विषादं कुर्वाणस्सत्यमेतत्त्वहमुपकलिता शेषकार्यप्रहृष्टः ॥ ७५ ॥ अष्ठवर्णरथारूढं प्रथमाक्षरबोधितम् । तृतीयो वा गतोऽस्म्यद्धा तच्छेषत्वं स्वतस्थितम् ॥ ७६ ॥ तान्तोऽहं मानमुत्सृज्य धारकं पोषकं श्रिया । भोग्यं त्वदात्मसुगुरुद्ध्यानपूर्वं स्मराम्यहम् ॥ ७७ ॥ सर्वावस्था सलक्ष्मीकपार्थसूतदृशेक्षितः । निर्भयस्सर्वभावेन शरणं यामि तादृशम् ॥ ७८ ॥ तप्तस्वर्णसवर्णपार्थरथगं वीक्षाभिवृद्धाखिलं लोकाधीश्वरकाङ्क्षितात्मवचनं वाचो विदूराध्वगम् । गोपालावळिकीर्त्त्यमानविपदुत्तारादिवृत्तामृतं भिष्मादिस्तुतिहृष्टमानसममुं सम्भावये मानसे ॥ ७९ ॥ कलिकल्कभग्नकविमानसाम्बुज- स्पृहणीयकान्तिभर एष भास्करः । जयति प्रसिद्धविभवस्त्रयीगणे- ष्वथ पुण्डरीकनयनस्सतां गतिः ॥ ८० ॥ पिता च माता च शरीरदाता पोष्टा गुरुर्ज्ञानसुधाप्रदाता । स्त्रीप्रायमज्जीवनरोत्तमैक- संयोजिता पार्थरथप्रणेता ॥ ८१ ॥ शङ्खचक्रलळितो भुजदण्डः भीतिहृन्नतदृशां द्युसदां वा । शत्रुवारिनिधिमन्थनजन्मा- राति पद्मनिलया सुखसक्तः ॥ ८२ ॥ पार्थवृन्दपरिदर्शितसारं सारभूतवचनं निगमानाम् । भाग्यसारमिव साधुजनानां आश्रये प्रणयसूचितभावम् ॥ ८३ ॥ सौन्दर्यसारमिव दर्पविहीनमग्र्यं चक्षुष्मतां हृदयकर्षकमात्ततोत्रम् । वैरप्रसक्तिरहिताखिलभोगभोग्यं आत्मेश्वरं हृदयतापहरं स्मरामि ॥ ८४ ॥ भूभाग्यलब्धसुखजङ्गमपारिजातं स्मेरप्रसूनसुभगं फलभूतरूपम् । शाखोपशाखपरिजुष्टमिवात्मदोर्भिः प्रच्छायतापशमनं नरसूतमीडे ॥ ८५ ॥ वात्सल्यवरान्निधिरद्भुतोऽसौ दोर्भिस्तरङ्गैरभितः प्रजुष्टः । लक्ष्मीसमेतः कमनीयरूपः कान्ताळकः कम्बुगळोऽस्तु भूत्यै ॥ ८६ ॥ विशालहृदयोदयोल्लसितभावलक्ष्म्योज्ज्वलः द्विषत्कुलविमर्दनोचितसभूषदोर्म्मण्डलः । विनापि विनतिं बुधे सुकलितात्मभावः प्रभुः ममाहितविमर्दने भवतु दीप्तपञ्चायुधः ॥ ८७ ॥ सिन्दूररूषितमिवोन्नतहस्तिमल्लं मल्लेशदन्तपतनार्हकरप्रहारम् । हारावळिप्रकृतदोर्युगमद्ध्यशोभं रत्नत्विषावलितमात्मपतिं नमामि ॥ ८८ ॥ मुखभवकलितप्रकर्षवेद- प्रकटितवैभवयज्ञपूजितात्मा । विधिहयमखक्लृप्त सद्वपाळि- प्रकृतकशाधरबन्धुरोऽस्तु मह्यम् ॥ ८९॥ दर्शय दर्शय चारुमुखं ते पाटय पाटय पापमपारम् । नन्दय नन्दय पादनतं मां केशव केशव कारणसूत ॥ ९० ॥ सुन्दरकरिकरपीवरसक्थिः मन्दरगिरिरिव जङ्गमयुक्तः । नाभिजपद्मजकल्पितविश्वं पालय पालय कारणसूत ॥ ९१ ॥ पाहि पाहि भवपीडितविश्वं कोमळाङ्ग कुसुमैर्वनजातैः । विश्वरक्षणसुदीर्घमखेस्थं पद्मया विलसिताननमीडे ॥ ९२ ॥ यदुनाथ मुदब्धीन्दो त्वदङ्गममृतश्च्युति । ममातिमुग्धहृदयमितश्चेतश्च कर्षति ॥ ९३ ॥ स्वकान्त्या निर्दोषं निरुदयविबाधञ्च सुसुखं प्रकुर्वन् विश्वं त्वं विमललळिताम्भोजनयन । सुधासारस्तोमप्रकलनमहामेघलळितः विना क्षोणीसङ्गं विनतहृदये वर्षसि सुधाम् ॥ ९४ ॥ अहो ममेदं हृदयं विमुग्धं नादेन जुष्टं जलधिं च पश्यन् । इतस्तव स्तावकबोद्ध्यमानं समङ्गळद्ध्वानमवैति नाथम् ॥ ९५ ॥ लावण्यवापी तव देहकान्तिः नर्म्मोचिता सागरसम्भवायाः । नाभिस्थिताम्भोरुहयोगरम्या वेलाप्युदारा भुजदण्डरूपा ॥ ९६ ॥ त्वदुदरनिलयं किलाण्डजातं विबुधगणा अवलोकयन्ति नूनम् । यदि तव हि तनुस्स्वयम्प्रकाशा परिणतमेव हि सत्त्वचित्तभाग्यैः ॥ ९७ ॥ पदनखपरिमृष्टचन्द्ररेखा सुहृदयगा वृजिने तमोगुणेऽस्मिन् । कलितबहुलया ततोऽपुनर्जं बहुविलसत्यपुनर्भवाय मह्यम् ॥ ९८ ॥ त्वत्पादाम्बुजरेखया परिणतः छत्रारविन्दद्ध्वजै- र्युक्तः केतुरकैतवाऽवनधियं संसूचयत्यद्भुतः । यद्धत्ते मनुजोऽस्य कैतवधिया नम्रे स्वमूर्ध्नि स्वयं सप्राप्तः परमप्रसादमसुरप्रद्वेषि विष्णोः शुभम् ॥ ९९ ॥ सस्नेहं नयनं प्रवाळसुभगः यश्चाधरः श्रिपतेः कण्ठश्श्रीकरकङ्कणाङ्कलळितः भावः प्रसादोज्ज्वलः । वृत्तास्ते च भुजाः पुरन्दरतरोश्शाखोज्ज्वलाः प्रांशवः तन्मद्ध्ये सदये क्षणा हरिसखी सर्वं जगन्मङ्गळम् ॥ १०० ॥ शिखिपिञ्चवेल्लितसुगन्धिकुन्तळं कमलायताक्षमपमृत्युनाशकम् । अमृतद्रवश्च्युतिकटाक्षवीक्षणं हरिमाश्रये विजयसारधिं प्रभुम् ॥ १०१ ॥ स्फुरदिन्द्रनीलसुभगत्विषं हरिं युवतीकटाक्षविशिखावमर्दितम् । प्रभुताश्रयोचितविशाललोचनं कमलाकटाक्षहततत्त्वसम्प्लवम् ॥ १०२ ॥ प्लवगर्षभानुगुणशीलसागरं श्रितरासमण्डलधियं स्मिताननम् । भुजगेन्द्रमूर्ध्नि कृतपादमद्भुतं भवसागरप्लवपदाम्बुजं श्रये ॥ १०३ ॥ भज हृदयसुन्दराङ्गं यदुपतिभावं गतं स्वसौशिल्यात् । व्रजयुवति नेत्रनिघ्नं निघ्नं तद्वस्त्रसंहतौ श्यामम् ॥ १०४ ॥ शिखिपिञ्छसारकृतनीलकुन्तळं कृतयोगनित्यपरिदृष्टविग्रहम् । निगमावतंसरमणीयभूषणं तरुणीवशं कमपि बालमाश्रये ॥ १०५ ॥ स्फुरदिन्द्रनीलसुभगाङ्गमेदुरं दुरवग्रहग्रहविशेषमोचकम् । मुरळीनिनादजितयोगियौवतं कलये शिशुं कमपि पूतनारिपुम् ॥ १०६ ॥ पूतनाजितडिम्भविग्रहवक्त्रपीततदात्मकं खञ्जरीटजितात्मलोचनपद्मया सुभगाकृतिम् । आकृतित्रययुक्तवारिधिसम्भवा लुळिताङ्घ्रिकं वारिरशिनिभाङ्गकान्तिमहं भजेऽर्जुनसारथिम् ॥ १०७ ॥ पीताम्बरं वरभुजार्गळयोगरम्यं श्वासानुयायिनिगमं निगमान्तवेद्यम् । वेद्याखिलाकृतिकृतिं गजराजलीलं लीलार्थविश्वरचनं कलये हृदिस्थम् ॥ १०८ ॥ अतिविशालभुजान्तरशोभितं व्रजकृशोदरिभावहिताशयम् । कमलसोदरपाणितलं हरिं हृदि करोमि तमालवनप्रभम् ॥ १०९ ॥ कुटिलाळकपाळिविशोभिमुखं श्रमहारिदृशां सुदृशां च फलम् । कलयेऽनुकलं कमलानिलयं विजयाजिरथस्पृहयाळुधियम् ॥ ११० ॥ सन्दृष्टं प्रङ्मुखस्थित्या पद्मवद्विश्वतोमुखम् । रुक्मिण्यादर्शदृष्टाङ्गं आश्रये सूतविग्रहम् ॥ १११ ॥ रुक्मिणीसहितं पार्थसूतं दृष्ट्वा स्वकैर्वृतम् । लक्षितः प्रणवार्थस्त्वां त्वदात्मपरिदर्शितः ॥ ११२ ॥ अथवा दर्शितोऽप्यर्थः नारायणपदानुगः । सर्वेषामाश्रयो यस्त्वं चेतनानां शुभात्मनाम् ॥ ११३ ॥ अन्योऽपि संस्मृतो ह्यर्थः दर्शनात्पार्थसूतते । नमसश्शब्द रत्नस्य यस्त्वं गतिरथात्मनां ॥ ११४ ॥ परस्परादर्शनिजाङ्गहृद्यौ हृद्याळकोल्लासि मुखेन्दुबिम्बौ । बिम्बात्मना दृष्टजनौ निजाङ्गे भैमीव्रजेशौ समुपाश्रयेऽहम् ॥ ११५ ॥ संश्लेषोत्कर्षसिद्धौ नरहितनिजरूपाश्रयावेकतत्त्वौ किंवेत्यालोलधीभिर्विमृदितलळितोत्कृष्टतत्त्वानुभावौ । भावातीतात्मभावावपि जनहितया लोकवासैकमत्या क्लृप्तार्च्चाविग्रहौ तौ जनहितकलनौ रुक्मणी पार्थसूतौ ॥ ११६ ॥ सौन्दर्यस्यैकराशी विदितसमगुणौ बिम्बभूताविवेमौ नाथौ भूतिद्वयस्याप्यखिलमखपरौ दर्शितान्योन्यसाम्यौ । श्रीमन्तौ कीर्त्तिमन्तौ क्वचन च विधयाऽदृष्टवैगुण्यभावौ भावौ सर्वश्रुतीनां कथमिव घटते तद्गुणालापनादौ ॥ ११७ ॥ आदौ तौ सृष्टिभवावखिलसमयसंसक्तदेहौ विनैकं दातुं वासं ग्रहीतुं नयनयुगमिवाक्लृप्त पार्थक्यकार्यौ । श्रीलक्ष्मीनयकौ च प्रधितकरुणया व्याजतः किञ्चिदेतौ अस्माकं भाग्याराशी जनदृशि च पृथग्भावमाप्तौ श्रयेऽहम् ॥ ११८ ॥ उन्नतांसपरिलम्बिकुण्डलौ कुण्डलोपमितसूर्यमण्डलौ । मण्डलाधिपतिवृन्दवन्दितौ रुक्मणीविजयसारथी भजे ॥ ११९ ॥ श‍ृङ्गारशान्तिरसवारिनिधी उभौ किं किं वा नृशोकदहनाचिरदीप्तमेघौ । किं वार्धिकाङ्क्षितसदर्थितदेवरत्ने चित्ते करोमि तरुणीमणिपार्थसूतौ ॥ १२० ॥ अब्जनाभो हरिः स्वर्णकान्ती रमा सङ्गतौ प्राणिनां प्राणदानप्रियौ । पद्मनेत्रश्रियौ चारुमन्दस्मितौ संश्रये रुक्मणी पार्थसूतावुभौ ॥ १२१ ॥ निजाङ्गलावण्यगतात्मलोकौ परस्पराङ्गप्रतिबिम्बिताङ्गौ । हंसाविमौ हृद्यगुणौ सुरूपौ वन्दे रमापार्थरथाश्रयौ तौ ॥ १२२ ॥ निजरुचिपरिमृष्टहृत्तमस्कौ विमलरुचिस्मितशोभि गण्डभागौ । कुसुमित सुभगावशुत्तमाला- विवजलधिप्रभवा नरैकसूतौ ॥ १२३ ॥ अहो नु संप्रार्थयते गुणज्ञौ अयं हि दासः प्रणयाम्बुराशी । किमस्ति वा त्वत्तनु दृष्टिमृष्टं मत्पातकं वां पदपद्मचूडः ॥ १२४ ॥ सतां नियोगं शिरसा प्रगृह्य निजात्मसाफल्यगुणं च वीक्ष्य । तत्कालहर्षं हृदि चिन्तयित्वा यथा स्वधीशक्तिकृतेह माला ॥ १२५ ॥ वामर्पिताहं कृतिमूढचित्त- कृतापि युष्मद्गुणसंप्रयोगात् । आमोद भारावहलब्धवर्णा जीयाच्चिरं वां च मुदे कवीनाम् ॥ १२६ ॥ लक्ष्मिनृसिंहादि शठारियोगि समर्पितो वां पदपङ्कजाय । त्वद्दासक्लृप्तेति च पश्यतं तां सत्सूक्तिमाला युवयोर्म्मुदेऽस्तु ॥ १२७ ॥ श्रीमते श्रीवण्शठकोप श्रीलक्ष्मीनरसिंह- शठकोपयतीन्द्रमहादेशिकाय नमः । श्रीमते श्रीवण्शठकोप श्रीरङ्गशठकोप- यतीन्द्रमहादेशिकाय नमः ॥ अतिसरळपदप्रसूनगुम्भे हरिपदपद्ममधुद्रवे स्पृहा वा । रसिकबुधगणाग्रगा भुविस्थाः नरवरसूतनुतिं प्रपश्यतैनाम् ॥ १२८॥ ॥ शुभं भवतु ॥ End of Part 1

द्वितीयो भागः ।

श्रीगणेशाय नमः । श्रीः नमश्श्रियैजगन्मातः तुभ्यं सर्वनमस्कृते । स्त्रीरत्नेन त्वया विष्णुर्दोर्मध्यं नित्यभास्वरम् ॥ १॥ त्वया विना न च हरिः न च त्वं हरिणा विना । न युवाभ्यां विनाहं नो युवामपि मया विना ॥ २॥ जगत्पतिस्स भगवान् मातस्त्वं हरिवल्लभा । नित्यदास्योऽहमिति च प्रणवप्रतिपादिताः ॥ ३॥ प्रणवमयरथेऽग्रतस्सविष्णु- र्हरिसखिमध्यगता सुमध्यमा त्वम् । अहमपि युवयोरधीनवृत्तिः चरमपदस्थित एष रक्ष्य एव ॥ ४॥ केचिद्वदन्ति रथिनं हरिमेव मुख्यं अन्ये तु नित्यकृतदास्यममुञ्च जीवम् । आद्यन्ततस्स्थितिमतोरनुकूलधीर्य- त्तां त्वां च सूक्ष्ममतयः प्रवदन्ति मुख्याम् ॥ ५॥ यश्फ(?)न्दो वृषभस्त्रिपादकलितस्तद्वक्त्रगोऽयं हरिः तन्मध्ये भवती ततः कृतपदः जीवश्च दास्योचितः । जीवे क्लृप्तदयाभरा च भवती त्वद्दृक्प्रसन्नो हरिः युष्मद्दास्यकृतोद्यमान्नतजनानूरिकरोति प्रभुः ॥ ६॥ अतिचिरसहवासयोगभूम्ना पदविनतं न च हातुमत्र युक्तम् । तव तु सुकरुणार्द्रदृङ्महिम्ना हतवृजिनं शरणोक्तिसादरं माम् ॥ ७॥ प्रतापपरिपाटिभिः विमतदण्डनैर्भीकरं समीक्ष्य पतिमीदृशं हरिसखिस्स्वपादाम्बुजे । विशेषविनतं नरं मृदितकिल्बिषं वीक्षणात् पतिं नयसि सान्त्वनोज्झितरुषं सतां रक्षकम् ॥ ८॥ जगतामनुकूलदृग्विलासै- स्तमसां हन्तृभिरार्ततापहृद्भिः । जननेत्रचकोरपारणार्हैः स शुभं यच्च करोषि विश्वमेतत् ॥ ९॥ पराङ्मुखानथपरमार्थदूरगान् सुधासखिप्रणतिविदूरगानपि । जनान् धिया जगदनुकूलया च सा- प्युदकवागमृतरसेन सिञ्चसि ॥ १०॥ परत्वेन परामृश्य पतिं च जगदीश्वरम् । भीतानां प्रणतानां च वाक्यं श्रुतिपुटेऽकरोः ॥ ११॥ यथा स सेव्यते विष्णुः कल्याणगुणसागरः । तथा त्वमपि कल्याणि कल्याणावहसद्गुणा ॥ १२ ॥ यच्चक्षुर्विषयं गताथ भवती सन्तीर्णदुःखाम्बुधिः मर्त्योऽयं यदि दिव्यदृष्टिपदवीक्लृप्तानुषङ्गस्तव । सोऽयं धूतपराभवः परिगताशेषार्थलाभः प्रभुः सूच्चैश्छत्रसुचामराञ्चितकरैराप्तैश्च संसेव्यते ॥ १३ ॥ हरिदोर्मध्यगा या त्त्वमतिदीनान् श्रितान्नरान् । वीक्षणात्तुल्यविभवान् करोष्यमृतसोदरि ॥ १४॥ यत्र दृष्टिर्निधिस्तत्र गजाश्वरथसम्भृतः । पुत्रपौत्राभिवृद्धिश्च तव चित्तप्रहर्षकृत् ॥ १५॥ सा त्वं सुधाब्धिशितांशुपद्मविष्णुभुजान्तरात् आनन्दनिलये भासि पार्थसारथिना सह ॥ १६॥ श्रीरस्तुः ॥ End of Part 2

तृतीयो भागः

श्रीगणेशाय नमः । श्रीयै नमः । श्रीमते श्रीमच्छठकोपश्रीलक्ष्मीनरसिंहशठकोपयतीन्द्रमहादेशिकाय नमः । लक्ष्मीनृसिंहमखिलावनबद्धदीक्षं तद्धर्मनित्यनिरतां दयितां च तस्य । तत्पादपद्मयुगसक्तनिजात्महंसान् तद्धर्मरक्षणपरान् कलये सदाहम् ॥ १॥ श्रीरङ्गनाथपदमद्भुतदानवृत्त- भावान्वितं विबुधसङ्घसमाश्रितं च । सर्वत्र दृष्टबहुधर्मधियं स्वभक्तैः दृष्टात्मवैभवममुं यतिवर्यमीडे ॥ २ ॥ श्रीविष्णुपादपरिसञ्चरदक्षशीलं नित्यं नरार्पितमहोपनिषत्सुसारम् । सारात्महृद्यवचनं वचनातिदूरं कृष्णं श्रये सुकलितामृतमेघवृत्तिम् ॥ ३॥ लक्ष्मीनृसिंहशठजित्करुणाम्बुराशिं निम्नोन्नतक्रमविवर्जितमद्वितीयम् । निर्धूततापमवनीतलदेवताना- मुज्जीवनप्रदममुं रमणीयभावम् ॥ ४॥ पद्मानुबन्धसुखगन्धवहं सदैव स्वान्तर्गताखिलसुसद्गणरम्यमूर्तिम् । सच्छङ्खचक्रविलसच्छुभहेतुभूतं निर्द्धूतसन्नतभवं भवि भाग्यराशिम् ॥ ५॥ मत्स्यादिकूर्मकिटिसुन्दरसिंहखर्व- नित्यार्पिताशयमवर्जितरामभावम् । कृष्णं त्वचिच्चकलने क्वचिदच्छभाव- मश्वाधिरोहपटुपोषणतत्पराशम् ॥ ६॥ नारायणैकनिलयं स्ववशामरौघं सद्धर्मवर्द्धनपरं परभागजुष्टम् । गम्भीरभावसुभगं स्मृतिशुद्धिदायि सद्धर्मकृद्धरणिदेवगणैरमुक्तम् ॥ ७॥ हंसाळिजुष्टमविवर्जितसेतुधर्मं तं कञ्चन क्रमकरावळिशोभमानम् । निर्द्धूतकल्मषगणं निजसेविनाञ्च सत्वैकसंश्रयमनुन्धितनैजसारम् ॥ ८॥ अकलितपरभङ्गं स्वाश्रितेऽदत्तभङ्गं विनतजनसमाजेऽदृष्टकालुष्यलेशम् । गुरुमिह समभावं ग्रीष्मकालेऽपिवर्षा- स्वमलरससमेतं योगिनाथं नमामि ॥ ९॥ नित्यं च हंसध्वनिरागयुक्तं सङ्गीतरत्नाकरवद्गभीरम् । वादेषु सम्मोहनवत्सुयुक्तिं कल्याण्यनुल्लङ्घितगोविलासम् ॥ १०॥ सदैव पुन्नागवराळिजुष्टं श्रीरागयुक्तं महितं रसज्ञैः । यथोचिते काल उपास्यमानं भक्तैस्स्वपादार्पितसर्वभावैः ॥ ११॥ स्वपदविनतहंसं शोभितास्यं सुवाण्या शुचिबहुमुखरम्यं वेदवेदार्थदक्षम् । विधिमिव सुखसत्यं काङ्क्षितं योगिवृन्दैः अविरळितपदं तं मर्त्यसिंहादिपुंसः ॥ १२॥ विस्तीर्णश्रुतिरोचिषा परिगतं लोकांश्च कारुण्यतः निक्षिप्याखिलचक्षुषां सुखकरे कण्ठे पवित्राञ्चिते । तत्तत्कृत्यवशात्फलप्रदमतिं नीचोच्चभावं विना श्रीलक्ष्मीनरसिंहकारिजयतिं विद्योदितं धातृवत् ॥ १३॥ विनतसुजनवृन्दप्रीतिविस्फारिताक्षं बहुगुणरमणीयं लोकरक्षावतीर्णम् । द्विरसनकृतपादं गुप्तगोसम्पदं वा करकलितमहागोवर्धनं नाथमीडे ॥ १४॥ दत्ताम्बरं नतजनेषु निजेच्छयैव धर्मादरं पिहितवन्द्यपरत्वभावम् । सुभ्रूलताग्रकलितोत्कनरप्रदृष्टिं गीतार्यवद्यतिमवैमि विराजमानम् ॥ १५॥ दृष्टे मुखेऽस्यलळिते श्रितविष्णुपादे तादृग्विधौ क्व च तिरोहितवृत्तभावे । काले सुवृत्तवति वा सुकळङ्कयुक्ते कस्सत्पतावपि मतिं न जहाति धीरः ॥ १६॥ या वै शिखा यतिवरस्य निजानुरूपा कौटिल्यलेशरहिता प्रविभात्यनल्पा । यद्वा शिखी स च तया क्व च साधुवृन्दाः धाम्ना शिखीति गदितुं किल संप्रवृत्ताः ॥ १७॥ मूर्ध्नापि सद्वृत्तमयो यतीशः यदेनमाहुर्भुवि भूसुराणाम् । मूर्धानमप्यन्त्यशरीरभाजां मूर्द्धन्यपादाम्बुज एष योगी ॥ १८॥ अद्वैतगन्धानवधूय शीघ्रं स्वाधीनवेदान्तसुरद्रुगन्धः । भोग्योयदस्याशु जितात्मशत्रोः नासातिदीर्घा सफला यतीन्दोः ॥ १९॥ अनुदितरवियोगमन्त्रजापः यतिनृपतिः किल मूकभावपद्मे । उषसि नियतधीर्यतो महान्स्यात् मुखकमलं फलवद्रसज्ञयाढ्यम् ॥ २०॥ यावतीह वसुधा सुविशाला तावती खलु नृसिंहविभूतिः । तावदस्य हृदयं सुविशालं सर्वरक्षणचणं सुविभाति ॥ २१॥ यदस्य वाक्यादधरीकृतास्ते प्रच्छन्नबौद्धाऽसकृद्धरण्याम् । ततो धरो नाम रदच्छदोऽस्य तद्योगभूम्ना किल वाग्जयोऽयम् ॥ २२॥ अथवास्य धरापि नो समा भवती वोचितदानकर्मणि । विनिवेदयितुं पराजितान् अधरो भाति मुखे यतीशितुः ॥ २३॥ गर्भेकुर्वन् गोप्तुकामो नतौघं यस्माद्योगी भाति कारुण्यचित्तः । तस्मात्पीनो भाति वास्योदरोऽयं अन्तस्थानां क्लृप्तपङ्क्तिस्त्रिवळ्या ॥ २४॥ पार्श्वे वसन्तो वसुधाधिपेन्द्राः समानचित्ता विषमातिदूराः । तेषां प्रदृष्ट्यानुनिषेवितत्वात् प्रमृष्टपार्श्वो यतिनाथचन्द्रः ॥ २५॥ पीताम्बरो हरिश्श्रीमान् हली कृष्णाम्बरः पुनः । रक्ताम्बरो नरहरिः तस्माद्रक्ताम्बरो यतिः ॥ २६॥ परिवृत्तबाहुसुखलग्नजानुकः यतिनाथ एष सततं शुभावहः । विनिवार्य भीतिमवनीतलौकसां शरणं शरण्यगुणलक्षितो यतिः ॥ २७॥ भद्रासने जाग्रति योगिनाथे समुन्नते स्वात्मगुणैश्च शश्वत् । ततश्च संलब्धफलौ तदूरू तत्रोचितौ पीवरतामुपात्तौ ॥ २८॥ कश्चित् स्वार्थं याति पन्थानमात्मा लोकार्थोऽसौ भाति वेदाद्ध्वनी नः । छेत्ता येषां संसृतेर्वाग्विलासैः तेषां नॄणां सौख्यसम्पत्प्रदाता ॥ २९॥ अष्टोत्तरे शतपदे कृतसन्निधान- लोकेशदिव्यसुपवित्रधृतिक्षमां सः । यज्ञोपवीतविलसद्रमणीयवक्षः सुश्राव्यनादमहितो बहुरक्तकण्ठः ॥ ३०॥ वृत्तबाहुविलसत्त्रयदण्डः प्राप्तनम्रबुधपापनिबर्हः । सेऽवितो न यदि योगिवरिष्ठः का गतिर्भवजिगीषुजनानाम् ॥ ३१॥ ब्रह्मसूत्रहृदयो यतिराजः व्यासपाद इव विष्णुपदस्थः । भूसुरेशकुलवृद्धिकरोऽसौ संश्रितेष्टबहुवृद्धिकरस्स्यात् ॥ ३२॥ बाहुना सुकलितत्रयदण्डः योगिनां परिवृढः करुणाब्धिः । यूयमेवमखिलावनदक्षं हृत्सु मां कलयतेति गिरन्नु ॥ ३३॥ पादङ्गुळीयनखनूतनचन्द्रलोखा सेवापरा यदि नरा विबुधा भवेयुः । तेषां मनांसि सुनिरस्ततमांसि लोके नैव क्वचित् पुनरमीषु तमोविकाराः ॥ ३४॥ चरणाविह शङ्खचक्ररेखो- ल्लसितौ श्लक्ष्णतमौ बुधैर्धृतौ यौ । भवसागरमग्नमर्त्यपोतौ यतिभूभृन्महितस्य संश्रयेऽहम् ॥ ३५॥ सामुद्रिके वा यदि वा बुभुत्सा यतेः पदाब्जं तु निरीक्ष्य सम्यक् । यथाविधानं ननु लक्षणानि स्वया धिया कल्पयत प्रभुद्धाः ॥ ३६॥ सद्धर्मशास्त्रे यदि वाऽन्यशास्त्रे नित्याह्निके वा हरियागकृत्ये । अदो यतीन्दोः परिपश्यतात्र कृतं यदेते न हि शासनं वः ॥ ३७॥ अन्यत्र वा यत्र हि संशयस्स्यात् भक्त्या समुद्वीक्ष्य यतीन्द्रधर्मम् । निश्चित्य तन्निर्णयमेव सत्यं जानीत धर्मं च तमेव यूयम् ॥ ३८॥ श्रीरङ्गवासरसिकं सुगुणाम्बुराशिं प्रातः स्फुरत्सुरभिदर्शनहर्षयुक्तम् । श्लाघ्यैर्नवैश्च सुमनोभिरजस्य युक्तं श्रीशं च तत्समगुणं यतिनाथमीडे ॥ ३९॥ गतभयं श्रुतिपालनधीर्यतिः अखिलकालमनन्तनतद्विजैः । निगमयोग्यदिने स्मृतिगौरवात् निखिलवेदविचारमचारयत् ॥ ४०॥ अमृतदानमतिर्निजसेविनां सुमनसामजहन्निजविग्रहः । यतिरिहाद्भुतलक्ष्म्णयोगिवा- गमृतदानमहादरधीरसौ ॥ ४१॥ भूसुरौघमशेषेण हिरण्याक्षं वचोऽमृतैः । विनिवर्त्य रसास्वादे कृतबुद्धीनकारयत् ॥ ४२॥ हिरण्यदो हरिश्चासौ यतिश्चेत्येनयोर्द्वयोः । आद्यः क्वचिद्यतिश्शश्वद्विस्मयः कस्य वा कृतौ ॥ ४३॥ हंसद्वयं स्मृतिगतं सुपवित्रमूर्ति- स्मृत्या नृणां विधिकृताखिलवेदजातः । एकोऽन्य एष नरसिंहशठारियोगी सर्वत्र दत्तनिगमो द्विजवर्यजाते ॥ ४४॥ विभुधराडवने विलसन्मतिः कविमकोपपदं कलयन् यतिः । अजहदेव निजाखिलवैभवं निखिलविक्रमशालिपदाम्बुजः ॥ ४५॥ येषां च स्मृतिमारूढं यतेश्चरितमङ्गळम् । ते नृपास्सन्नता यस्य तत्साम्येन नृपा हितः ॥ ४६॥ यत्कृत्यदर्शनवशादखिलाघनाशः यद्दर्शने सुमनसां न च तृप्तिरस्ति । गुर्वाज्ञया नियमिताविह योगिरामौ विश्वावनक्षमगुणौ शरणं प्रपद्ये ॥ ४७॥ तीर्थे कृतादरौ द्वौ तु रोहिणीशानयोगिनौ । कृष्णैकसंश्रयौ नाथौ तारतारप्रकाशकौ ॥ ४८॥ क्वचित्पुण्यदेशे कृतात्मावतारौ क्वचिद्दर्शिताशेषरक्षास्वभावौ । जिताशेषशत्रू मुदा सर्वसेव्यौ वरौ सत्यवाचौ सुधर्म्मैकचित्तौ ॥ ४९॥ वराशेषलोकप्रमाणस्ववाक्यौ नतोत्तारकौ योगिकृष्णौ गुरू तौ । रसोद्धारदक्षौ महायामुनेय- प्रभावादरौ दूरधूतामरेशौ ॥ ५०॥ गुणाम्भोनिधी दिव्यपद्माक्षमाला- वृतांसौ सुहंसादृतस्वीयवाक्यौ । स्ववाक्यावळीधूतगाङ्गेयपूर- द्ध्वनीध्वानमाधुर्यनम्राखिलेशौ ॥ ५१॥ तेजस्त्रयोल्लासितोऽसौ कृष्णो नृहरिकारिजः । लक्ष्मीमर्त्यमृगेन्द्रश्च भजेऽहं तुल्ल्यवर्चसः ॥ ५२॥ कर्णश्च दानाद्भुवि सुप्रसिद्धः सूर्यात्मजोऽयं नकुलस्य वैरी । सुरेशदत्तानघदिव्यशक्तिः स्मृत्या तु हीनः स्मृतिमान् यतिस्तु ॥ ५३॥ अनादिकालादघकाष्ठदीप्त- ज्वालाभवात्तपितस्य मेऽद्य । तत्तापशान्त्यै ननु दृष्टमेव दिव्यौषधं श्रीनृहरी शठारिः ॥ ५४॥ अनादिकालोपचिता ह्यविद्या तयाभितप्तस्य ममाद्य लोके । सञ्जीवनं सर्वविधोपयोग्यं लक्ष्मीनृसिंहाद्यशठारियोगी ॥ ५५॥ न च स्नानं न वा भुक्तिः भुक्तिमुक्तिफलप्रदात् । लक्ष्मीनृहरिकार्यात्मजातयोगिस्मृतेर्मता ॥ ५६॥ भवाभिधमहाहिना सुदृढदष्टनष्टात्मनां सुधां समुपजीवनीं झटिति यो ददाति स्वयम् । रमानृहरिकारिजात्यधिपतेरथान्यो भिष- ग्वरोऽस्ति यदि वोच्यतां क्वचन नास्ति सत्यं हि तत् ॥ ५७॥ विषयविषाग्निना कृतमुखेन दशेन्द्रियतः प्रथुलभवाहिना समुपदष्टनिजात्मवतः । नरहरिरेष एव रमया सुद्रढं कलितः नरमृगराजकारिजमुखेन सुजीवयति ॥ ५८॥ कियन्तौ स्वर्वैद्यौ हरिकृतसुजन्मा च सुमतिः सुधाकुम्भोद्धारोऽनुपधिदयधन्वन्तरिपदः । स रामः कृष्णो वा नृहरिरथवा श्रीनृमृगराट्- शठारिर्वा योगी भवदहनतप्ताय सुखदाः ॥ ५९॥ मृतसञ्जीवनं शास्त्रे कृष्णो राम इति श्रुतम् । लक्ष्मीनृसिंहशठजिद्योगिसञ्जीवनं पुरः ॥ ६०॥ कलितब्रह्मचर्येण कृतं सञ्जीवनं क्वचित् । कृष्णेनानेन यतिना बहुसञ्जीवनं कृतम् ॥ ६१॥ यत्पादकल्पतरुपल्लवसक्तमूर्ध्नां नैवास्ति तापनिवहः परिदृष्ट एषः । तछ्रीनृसिंहपतिकारिजयोगिनाथात् नान्यस्त्रिवर्गफलदस्त्रिगुणप्रभेदी ॥ ६२॥ शिरस्सु यतिपादाब्जशङ्खचक्राङ्कितेषु वः । मुमुक्षूणां स्वदोर्म्मूलशङ्खचक्राङ्कनैरलम् ॥ ६३॥ अधिकदयैकसारहृदये यतिभूमिपतौ नरहरिकारिसूनुपदगे नयनाध्वगते । किमिह रसायनैः नवनवौषधिसङ्घटितैः पिबत सुचक्षुषा भवभृदार्तिहरं सुयतिम् ॥ ६४॥ क्वचन दोषयुतेऽपि नतव्रजे निकटमाशु गते यतिशेखरः । अनघदृष्टिसुपूततदात्मकः जयति वत्सलतानिधिरद्भुतः ॥ ६५॥ हिरण्यस्य चैकस्य हन्ता नृसिंहः निहन्ता च षण्णामरीणां यतीन्द्रः । ऋषिश्चेत्पुराणस्य कर्ता स च स्यात् नसोऽस्त्यत्र नैवास्ति वक्ता तदन्यः ॥ ६६॥ अन्योपमर्देऽप्यधिकात्मकान्तिः आदर्शवत्स्पष्टपरात्मभावः । स्वच्छस्स्वतो दर्शितसौम्यभावः निजेन धाम्ना प्रचकास्ति योगी ॥ ६७॥ लक्ष्मीनृसिंहशठजित्करुणानिधिं तं भूसङ्गतं च सुदृशामपि गूढभावम् । शश्वत्कृते परिचये गहनं गभीरं भक्त्याञ्जनेन सुदृशः परिपश्यतैनम् ॥ ६८॥ यावत्कालं सन्नतौघे समीपं संप्राप्ते वा स्वात्मभारार्पणाय । नायं योगी योगदृष्टाखिलेशः खिन्नो दृष्टो दृष्टपुंसिंहचित्तः ॥ ६९॥ सर्वज्ञश्च कलाधरश्च सुयती रामार्पितात्माशयः कन्दर्पप्रशमाय कल्पितमतिः पूर्णो ह्यहीनैर्गुणैः । हासेनाधरकल्पिताहितगणस्सम्पूजितश्चामरैः कण्ठे निर्विषवत्तया सुमनसां पूज्यो यतीन्दुश्शिवात् ॥ ७०॥ जडोऽश्क्तवान् तथा वृजिनशन्तमीमोहितः त्रिवर्गफलधीः पुनः षडरिवर्गभिन्नाशयः । सदा भयभराकुलः बहुळतापसन्तापितः यतीन्दुकरुणामृताप्लुततनुश्च निर्भीरहम् ॥ ७१॥ यदि चिरजीविकासु विबुधा भवतां स्पृहणं न खलु तपःक्रिया न च पयोनिधिसम्मथनम् । अपि तु रमानृसिंहपतिकारिजयोगिगुणां- बुधिममृताप्तये कलयताग्र्यधिया निजया ॥ ७२॥ करुणापरिणाम एष योगी यतिनाथस्य च लक्ष्मणाभिधस्य । न हि चेदवनीतलस्थिताना- मवनेऽस्य क्व भवेत्स्वतोऽनुकम्पा ॥ ७३॥ रङ्गनाथमिव लोकभूषणं वेदराशिमिव विप्रभूषणम् । सत्पतिं विधुमिवानिशं भजे श्रीनृसंहशठजिद्यतीश्वरम् ॥ ७४॥ पद्मराशिमिव तीर्थभूषणं पद्मयोनिमिव हंसभूषणम् । पद्मजातमिव सत्यभूषणं भावये नृहरिकारिजाभिधम् ॥ ७५॥ मूलमन्त्रमिव सर्वथोऽर्थदः व्यापकेषु महितश्च सर्वतः । जन्मशुद्धिकरशक्तिभूषितः भक्तिभावरहितैरलक्षितः ॥ ७६॥ मन्त्ररत्नवदशेषभोग्यधीः दर्शिताखिलसुतत्त्वनिर्णयः । साद्ध्यसाधनतया च सेवितः संयमी नरहरीशकारिजः ॥ ७७॥ अन्त्यश्लोको यथाऽमोघो नरचित्तप्रदार्ढ्यदः । तथायं सेवितो योगी चित्तोत्साहप्रदः शुभः ॥ ७८॥ भीष्मभूप इव रङ्गक्लृप्तधीः दर्शिताखिलसुतत्त्वनिर्णयः । धर्मजातबहुविस्तराशयः सर्वपार्थिवगणैश्च पूजितः ॥ ७९॥ सुधाब्धिवत्सक्तगजाश्वघोषः रमापतिस्थानवरस्वरूपः । कलाधरोत्पादकरो गरिष्ठः नृसिंहकार्यात्मजयोगिनाथः ॥ ८०॥ सावधान इव दर्शितस्मृतिः स्वर्गवद्रुचिरभावबन्धुरः । कल्पवत्सफलरूपमेदुरः श्रीनृसिंहशठजिद्यतीश्वरः ॥ ८१॥ सर्वकालकलिता गुणा यतेः श्रीरमानृहरिराट्-शठद्विषः । नैव यान्ति हि समाप्तिमद्भुताः काल एव विलयं गतो भवेत् ॥ ८२॥ ये ये गुणा निगमशेखरदेशिकोक्ता श्रीलक्ष्मणाख्ययतिराजसुधामनिष्ठाः । ये कूरनाथनियता महिताश्च सर्वे ते श्रीनृसिंहपतिकारिजयोगिनिष्ठाः ॥ ८३॥ वाचामगोचरतया प्रथिता गुणास्ते कीर्त्युल्लसत्त्रिभुवनस्य दयाम्बुराशेः । श्रीमन्नृसिंहपतिकारिजयोगिनेतुः तद्भक्तिकल्पितधिया कलिता हि केचित् ॥ ८४॥ ज्ञानतोऽज्ञानतो वापि कृते कर्म्मणि यः फली । फली श्रीनृहरिर्भूयात् निजमूर्त्त्यन्तरस्तुतेः ॥ श्रीः ॥ ८५॥ श्रीमते श्रीमच्छठकोपश्रीलक्ष्मीनरसिंह- शठकोपयतीन्द्रमहादेशिकाय नमः । शुभं भवतु ॥ End of Part 3

चतुर्थो भागः ।

श्रीगणेशाय नमः । श्रीः । श्रीमते श्रीमच्छठकोपश्रीलक्ष्मीनरसिंहशठकोप- यतीन्द्रमहदेशिकाय नमः । वन्दे श्रीरङ्गगशठजिद्योगिनाथसुधाकरम् । यद्वाणीचन्द्रिकातृप्तास्सदा बुधचकोरकाः ॥ १॥ आजानशुद्धविभवं दत्तभूदेवभूषणम् । लक्ष्मीनृसिंहनिलयं सुधाब्धिमपरं श्रये ॥ २॥ स्ववृत्तामोदिसुजनं अनीचोच्चसमादरम् । गुरुलब्धबलैश्वर्यमपरं राममाश्रये ॥ ३॥ सदागमोल्लासधियं वाङ्माधुर्यान्मधुद्विषम् । रसार्णवैकनिलयमादिमत्स्यमिवापरम् ॥ ४॥ अमृतोत्पादनोपायं विबुधानां दृढाशयम् । हर्यंशादुद्धृतस्वाङ्गमादिकूर्म्ममिवापरम् ॥ ५॥ रसाश्रयोज्ज्वलतनुं हिरण्याक्षनिषूदनम् । श्रीमुष्णसङ्गोल्लसितं भूवराहमिवापरम् ॥ ६॥ प्रह्लाददर्शितात्मानं सन्ध्याकालप्रतीक्षकम् । लोकावनक्षमगुणं श्रीनृसिंहमिवापरम् ॥ ७॥ सर्वोन्नतस्वभावाढ्यं सदागमसमुज्ज्वलम् । सर्वज्ञेप्सितवत्तोयं त्रिविक्रममिवापरम् ॥ ८॥ निराकृतावनीपालं श्रीरामार्पितहृद्गतिम् । श्रीरङ्गशठजिन्नाथमादिं राममिवाश्रये ॥ ९॥ सर्वलोकेप्सितगुणं सर्वाह्लादैकमूर्त्तिकम् । लसन्मुनिगणामोदिकृत्यं राममिवापरम् ॥ १०॥ कृष्णप्रभाविलसितं स्फारतारप्रकाशकम् । शुभतीर्थकृताह्लादं बलराममिवापरम् ॥ ११॥ कृष्णां च येन राजन्तं धर्मस्थापनतत्परम् । विजयैककरं लोकपूज्यं कृष्णमिवापरम् ॥ १२॥ कलिं निपात्य धर्माणां स्थापनार्हकृतोद्यमम् । श्रीरङ्गशठजिद्योगिविधुं कल्किमिवाश्रये ॥ १३॥ अनधीत्य श्रुतिं सम्यगलब्ध्वा शास्त्रसम्पदम् । श्रुतिशास्त्रोल्लसद्रङ्गशठजिद्वृत्तवाक् तु कः ॥ १४॥ स्मृतिपावनसत्कीर्त्तेश्श्रीरङ्गशठवैरिणः । योगीन्द्रस्य शुभं वृत्तं मद्वाचा निस्सरत्यहो ॥ १५ ॥ स्वभासा भूषयन् लोकं विनिर्भिद्य तमोगणम् । सर्वदा पूर्णमूर्त्तिर्हि चन्द्रमा अपरो ह्ययम् ॥ १६ ॥ सर्वत्रोच्चैस्स्थितिश्श्रीकृत् बुधाश्लेषसमुन्नतिः । मकरेऽवतरन्नुच्चैः विश्वदेवर्क्षगो गुरुः ॥ १७॥ जायमानं हरिः पश्यन् सात्त्विकानां समृद्धये । यथामुमात्मनाऽऽत्मानं प्रेम्णा हृष्टमना अभूत् ॥ १८॥ अहं रेखामयीविद्या यावत्यस्योचितेति सा । स्वां च तं ग्राहयामास लोकाविद्यानिवृत्तये ॥ १९॥ भविता ब्रह्मसूत्रीति रोद्धा निर्गुणवादिनाम् । सावित्त्र्युदैक्षतामुं च सगुणब्रह्मसूत्त्रिणम् ॥ २०॥ भविष्यति त्रिदण्डीति त्रयीमात्रानुगामिनी । विवेश मधुरात्मानं मधुनाथसमाननम् ॥ २१॥ पदक्रमानुगश्चार्थ इत्येव शुभधीरसौ । पूर्वं पदक्रमं पश्चादर्थविस्तारमग्रहीत् ॥ २२॥ तर्के प्राधान्यबुद्ध्यैव तर्कशास्त्रं सविस्तरम् । प्रणेतृप्रतिभायोग्यं दृढं चेतसि सन्दधे ॥ २३॥ अत्र चित्रमिदन्त्वेव प्रतिवक्तुं क्षमेतराः । स्वधीविलासभूम्नामुं हृद्यकुर्वन्नताननाः ॥ २४॥ धर्मशास्त्रक्रियास्सर्वाः गुरुणा बहुमानिताः । पश्चाद्रक्षिष्यमाणास्स्युरित्यसङ्कोचविस्तरम् ॥ २५॥ आवीक्षकी साहिती च ते ह्यस्मिन् सत्पथानुगे । समूषतुः कवितया सर्वरञ्जनया मुदा ॥ २६॥ पूर्वसूरिप्रबन्धाश्च सावकाशं समादृताः । समेत्यास्मिन् गुरौ विद्या ऊषुराभरणानि वा (इव)॥ २७॥ सुखितास्तास्समीक्ष्यापि गुरौ ज्ञानेशबोधिता । स्पर्द्धयेवाविशत् सौत्त्रीसाग्राताभ्योऽतिशायिनी ॥ २८॥ तत्तद्विद्यासु यावत्ता सर्वाप्यस्मिन् गुरौ स्थिरा । स्वस्वालङ्कार इत्येव नित्यावासममन्यत ॥ २९॥ आभिर्जुष्टं गुरुं वीक्ष्य क्षमाशान्त्यादयो गुणाः । मानसेऽस्य कृतस्थानाः वज्रलेपाञ्चिता इव ॥ ३०॥ विद्यगुणैरात्मगुणैर्निबद्धं बन्धदूरगम् । नृहरिस्सत्यसङ्कल्पः स्वचेतस्यकरोद्गुरुम् ॥ ३१॥ गुरोराशालवाले स्युः तत्तद्विद्यालताश्शुभाः । वाक्पुष्पैरर्च्चितदिशः शालिन्यश्च यशः फलैः ॥ ३२॥ श्रुत्वाऽस्यवाणीं विबुधाः सुधायां हरिगौरवात् । स्पृहां चक्रुः स्वबुद्ध्या न यद्वाङ्नित्यामृतप्रदा ॥ ३३॥ विद्याचन्द्रिकया जुष्टे राजमाने द्विजेश्वरे । सच्चकोराः कृतास्वादाः अन्ये काकपदानुगाः ॥ ३४॥ परिशुद्धैर्हविर्भिस्समनसा च यथोचितैः । अथ नित्योक्तविधिना तोषयामास माधवम् ॥ ३५॥ पाञ्चकालिकधर्मज्ञः यजन् तेनैव वर्त्मना । स्वार्चामाराध्य संहृष्टः दक्षो दक्षाद्भभौ सुधीः ॥ ३६॥ ये सात्त्विका महात्मानः श्रुतिसङ्गप्रहर्षदाः । उपमानमभूत्तेषां तत्तत्कृत्यसधर्मकृत् ॥ ३७॥ नतात्मनां गुरुर्बन्धुः लोके नारायणो यथा । यस्य शक्तिस्थिरोदर्का सर्वज्ञस्य महत्यभूत् ॥ ३८॥ पराशरो वा मुनिराड्रत्नं येन विनिर्मितम् । मुमुक्ष्वाभरणं पूर्वापराधिषु च धर्षणम् ॥ ३९॥ व्यासश्श्रुतिपरामर्शी श्रुतिसारैकसूत्रधीः । अभिज्ञो लोकवृत्तानां सद्भिरेषः प्रकीर्त्तितः ॥ ४०॥ शुकोऽयं कृष्णपक्षश्च वर्धमानः पदेपदे । निर्दोषकलया पूर्णो गुरुर्लोकैकवन्दितः ॥ ४१॥ दयया यति भूपालः पारमैकान्त्यसम्पदा । कूरनाथो भट्टवरः तत्त्वानां निर्णयोक्तिभिः ॥ ४२॥ तत्त्वविस्तारभूम्ना चोपकारकरसूक्तिभिः । त्रय्यन्तदेशिकस्सर्वतन्त्रे स्वातन्त्र्यतायुतः ॥ ४३॥ नृसिंहप्रीतिकरणे प्रह्लादोऽभूद्गुरुस्स्वयम् । सद्वृत्तैः प्रीणयन् सम्यग्ज्योत्स्नयैव जनं शशी ॥ ४४॥ दिव्यक्षेत्रेषु सर्वत्र वर्षन्तं वचनामृतम् । सर्वतृट्-शमनं सन्तो मेनिरे लक्ष्मणं यतिम् ॥ ४५॥ प्रबन्धार्थप्रवक्तारं भीकरं तद्विरोधिनाम् । कलिघ्नमथवा कारिसूनुं सर्वे शशङ्किरे ॥ ४६॥ शभकृद्वृत्तसम्पन्नः पारमैकान्त्यभस्वरः । हृदयङ्गमकीर्त्त्याढ्यः गुरुर्लोकैकवन्दितः ॥ ४७॥ तत्तादृग्गुणसम्पन्नं सच्चारित्र्यैकवत्सलः । लक्ष्मीनृकेसरी स्वार्थे यतीन्दुमकरोद्गुरुम् ॥ ४८॥ लक्ष्मीनृकेसरी सात्क्षात् शठारिश्चेत्युभौ गुरू । एकीभूयोदितौ येनाभिषिक्तस्तेन तत्पदे ॥ ४९॥ ब्राह्म्या श्रिया लौकिकया श्रीनृसिंहस्य तेजसा । भास्वन्तं भास्कराभं तं नतहृत्पद्मराशिषु ॥ ५०॥ श्रीनृसिंहशठारातियतीन्द्रस्स्वीयतेजसा । कृतनीराजनं प्रेम्णाकरोत्सर्वत्र भास्वरम् ॥ ५१॥ लक्ष्मीनृसिंहशठजिन्मनःकुमुदचन्द्रमाः । श्रीरङ्गशठजिद्योगी जयत्यद्भुतचेष्ठितः ॥ ५२॥ यतीन्द्वोर्मेळने श्लाघ्या शोभाहर्षकरी सताम् । अविच्छिन्नामृतास्वादा रामलक्ष्मणयोरिव ॥ ५३॥ कृतान्वयश्श्रीनृहरौ योगी भाति ह्यनन्वयः । लक्ष्मीनृसिंहशठजिद्योगीन्द्रकरुणाप्लुतः ॥ ५४॥ येन लक्ष्मीनृसिंहशठकोपयतीन्द्रेण रूपेण एकीभूय उदितौ तेन योगीन्द्रेण तत्पदे अभिषिक्तः ॥ यतीन्द्रेण स्वपदेऽभिषिक्तः ॥ पशुव्याघ्रैक्यसम्पत्तिः गजसिंहसमाशयः । निर्वैरमभवत्तत्र प्रशान्ताश्रमसन्निधौ ॥ ५५॥ सदा तत्त्वविचारश्च सदाऽमृतविगाहनम् । श्रवणैर्विदुषां श्रीमद्धंसद्वितयसन्निधौ ॥ ५६॥ सर्वसंशयविच्छित्तिरहितार्थनिरासनम् । सर्वविद्याप्रचारश्च वरहंसयुगान्तिके ॥ ५७॥ वृष्टिर्वसोश्च विद्यायाः पुष्पस्य मधुनो यथा । सर्वामोदकरी लक्ष्मीनृसिंहहृदयङ्गमा ॥ ५८॥ सर्वथा संप्रवृत्ता सा देवानामपि दुर्लभा । दशधा लसदात्मापि तुष्यत्यात्मेश्वरो हरिः ॥ ५९॥ गुरुसन्तोषकृद्वृत्तः हंसश्शिष्यो यतिस्सदा । शिष्यहंसाभिमानी च यतिराड्-धर्मतत्त्ववित् ॥ ६०॥ सात्विकी परमा दृष्ठिस्तयोः परमहंसयोः । विभाति देहमात्रेण भेदो नैवाशये क्वचित् ॥ ६१॥ परस्परगुणादर्शौ परस्परगुणादरौ । परस्परप्रीतिनिधीविदुषां विस्मयावहौ ॥ ६२॥ ब्रह्मविद्योज्ज्वलत्स्वाङ्गं विश्वामोदकृतोदयम् । पद्मोल्लासकरं भान्तं विष्ण्वेकनिलयं यतिम् ॥ ६३॥ सर्वसन्तापहरणच्छायोल्लासितविग्रहम् । आश्रिताभीष्ठफलदं सौम्यं सूर्यं विलक्षणम् ॥ ६४॥ द्वारं भवतितीर्षूणां सद्भावं द्विजजन्मनाम् । अभावं दोषवर्गाणां श्रीरङ्गशठजिद्यतिम् ॥ ६५॥ सन्मार्गबुद्धिसद्धेतुं वरतेजोनिधिं शुभम् । सर्वारोग्यप्रदधियं शुचिकारणमाश्रये ॥ ६६॥ नृसिंहानुष्टुभा प्रीतो रङ्गिकारिजदत्तया । लक्ष्मीनृसिंहो यन्निघ्नः श्रये रङ्गशठद्विषम् ॥ ६७॥ देहवाग्वृत्तहृदयगाम्भीर्यात् कविमोहनम् । इत्थं त्वेन गिरावक्तुं यतीन्दुं मुह्यतीव धीः ॥ ६८॥ नित्यारियातुहन्तारं भवसिन्धुविशोषणम् । ममताविन्ध्यदमनं कुम्भजं मेनिरे यतिम् ॥ ६९॥ गरुत्मन्तमिवोद्यन्तं पक्षपातं विनोर्जितम् । विनतानन्दनं रङ्गशठजिन्नाम योगिनम् ॥ ७०॥ सर्वथाशेषभावेन द्योतमानं निजश्रिया । माधवार्पितसर्वांशं शेषं रङ्गशठद्विषम् ॥ ७१॥ शेषाशनं श्रीशधर्म्मनेतारं हरिसम्मतम् । तत्सेनान्यमिवाप्यन्यं श्रये रङ्गशठद्विषम् ॥ ७२॥ अनुष्ठितक्रतुशतं सर्वज्यैष्यपदस्थितिम् । यतिं महेन्द्रमपरं नरसिंहैकपालितम् ॥ ७३॥ धीप्रचोदनकर्तारं सर्वसन्मार्गदायिनम् । पुण्डरीकाक्षनिलयं सवितारमिवापरम् ॥ ७४ ॥ सुदर्शनं द्योतमानं हरेः करसमुज्ज्वलम् । चक्रेशमिव योगीन्द्रं विमताशाविबाधकम् ॥ ७५॥ रामान्वयकरं विष्णुपदद्योतितविग्रहम् । हंसं हंसान्वयाद्दीप्तं भस्वन्तमपरं यतिम् ॥ ७६॥ पाञ्चजन्यमिवाशेषमोदावहशुभद्ध्वनिम् । सतां जयप्रदगुणमसतां च भयावहम् ॥ ७७॥ श्लाघ्याभिजनसम्भूतं सदैव रमयेक्षितम् । यतिमन्यं कौस्तुभञ्च हृद्गतं च हरेर्गुणैः ॥ ७८॥ अविच्छिन्नगुणं श्रीमद्धरिशार्ङ्गमिवापरम् । अविनाभूतविजयं नित्यशत्रुविनाशनम् ॥ ७९॥ सदाधिष्ठितदेवेशं गुरुदृष्ट्याभिपालितम् । कृतपुण्यैर्जनैर्दृष्टं यतिं स्वर्गमिव स्थितम् ॥ ८० ॥ सरस्वतीपदमुखं सत्यपालनतत्परम् । स्वभक्तितुष्टहस्तीशमन्यं पद्मभवं यतिम् ॥ ८१॥ जाह्नवीतीर्थपूताङ्गं कलयोल्लसिताननम् । विश्वातिशायिसार्वज्ञ्यं ईशानमपरं यतिम् ॥ ८२॥ अमेघभीतिनिलयमतमस्सङ्गदुःखितम् । अनाभिजातसंसर्गं हंसं वन्दे विपश्चितम् ॥ ८३॥ अथ तेभ्यो नमोऽप्यस्तु यतीन्दुं विद्विषन्ति ये । अत्र प्रवृत्तमनसः यैश्च सन्धुक्षिता वयम् ॥ ८४॥ यदन्वयाद्विशुद्धास्स्युः भक्त्या दूषणया धिया । उभये शुद्धमनसः स्मरणं तत्र कारणम् ॥ ८५॥ विचार्य बुद्ध्याऽमलया यतीन्दोर्निर्मलाशयाः । वृत्ताब्धौ सन्त आसायं निमग्ना भवतश्रियै ॥ ८६॥ अपापभीरुहृदयैः अयतीन्द्रानुवर्त्तिभिः । अनृसिंहेक्षितैः किं वा सद्भिरेव हि केवलैः ॥ ८७॥ यस्मिन्नुपदिशत्यर्थं प्रणवैकसमुद्गतम् । मेने जनस्स्वमात्मानं जातं शेषं पुनर्नवम् ॥ ८८॥ सर्वद्विजसमक्षं हि कृतस्नानादिकक्रियः । जगद्धेतुर्रमानाथमर्घ्यदानादिनार्च्चयत् ॥ ८९॥ रविप्रभे जपत्यस्मिन् पद्मराशिस्स्मिताननः । स्वयं च निश्चलस्तस्थौ यतिना शिक्षितो यथा ॥ ९०॥ शुद्धभानुकराश्लिष्टं लक्ष्मीनरमृगेश्वरम् । अतोषयत्त्वभिगमैः परिवारेण संयुगम् ॥ ९१॥ नित्यसेवाविशुद्धात्मभूमिदेवगणेष्वसौ । श्रीभाष्यामृतवर्षाणि यथा मेघोऽभ्यवर्षयत् ॥ ९२॥ उच्चस्थेऽथ रवौ योगी योगतुष्टरमापतिम् । इज्याऽऽराधनसन्तुष्टं कारयामास वाग्यमी ॥ ९३॥ हुतशिष्टं यतिः सम्यक् शिक्यलब्धं सुधोपमम् । पवित्रमन्नं हार्दाय न्यवेदयद्यथोचितम् ॥ ९४॥ अथ द्वयार्थवक्ताऽसौ द्वन्द्वातीतस्सतां व्रजे । तोषयामास योगीन्द्रं श्रीनृसिंहशठद्विषम् ॥ ९५॥ समक्षञ्च दिनेशस्य कृतस्नानो यतीश्वरः । सन्दिग्धायां रविस्थित्यां नृसिंहारधने यतः ॥ ९६॥ लक्ष्मीनृसिंहशठजिद्योगीन्द्रं संप्रण्म्य च । कटाक्षामृतसन्तुष्टः जयत्यखिलवन्दितः ॥ ९७॥ अथ योगासने योगी योगतुष्टनृसिंहधीः । शेषिणं जगतां स्वस्य ध्यायति श्रीरमाश्रयम् ॥ ९८॥ एवं विधैर्बुधाश्चर्यैः कृत्यैर्हंसौ परस्परम् । हर्षयन्तौ सदा नम्रान् जीयातस्तां बहुवत्सरान् ॥ ९९॥ यत्रैतद्धंसयोश्शुद्धपदपङ्कजरेणवः । पावनास्सर्वजन्तूनां सा भूमिर्द्वारकादिका ॥ १००॥ श्रूयतेहंसयोर्नादः यत्रयद्विषयोऽपि वा । सा प्राणनाडिविद्यायाश्शीक्षाद्यायाश्च सम्पदः ॥ १०१॥ अहो ह्यदूषयं रङ्गशठजिद्योगिवैभवम् । यदपारं कलुषया वाचा गोष्पदमभ्रुवम् ॥ १०२॥ नन्दन्तु सन्तो यदि वा दूषयन्तु कृतिं मम । उभयं भूषणं नैव प्राज्ञेतरसमादरः ॥ १०३॥ जप्यमेतद्धि विदुषां मनोवाग्वृत्तभूषणम् । न हि त्यजन्ति विबुधा विधुं दोषाञ्चितं क्वचित् ॥ १०४॥ न चार्थतृष्णया ख्यात्यै यतीन्दुगुणचन्द्रिका । तद्गुणाविदुषां भक्त्या दर्शनार्थमियं कृतिः ॥ १०५॥ शब्दे स्वर्गदुहानेन सूरिभिश्शिक्षिता वयम् । लक्ष्मीनृसिंहशठजिद्योगिदृष्ठ्याविशोधिताः ॥ १०६॥ तुष्यत्वनेन वचसा शुभलक्ष्मीनृकेसरी । लक्ष्मीनृसिंहशठजिग्योगीन्द्रो दैवतं मम ॥ १०७॥ अनुष्ठुभा परमया वाचा साफल्यमीफ्सता । श्रीरङ्गशठजिद्योगिविधोर्वृत्तं च र्वणितम् ॥ १०८॥ ॥ शुभमस्तु ॥ शठारिलक्ष्मणमुनीन्द्रार्च्चाधीः जयति श्रुतः । लक्ष्मीनृसिंहशठजित् चापादि प्रोष्ठपाद्भवः ॥ जयत्युच्चैर्गुरुश्श्रीकृद्बुधाश्लेषसमुन्नतिः । मकरेऽवतरन् रङ्गशठजिद्विश्वदेवभः ॥ श्रीमते श्रीमच्छठकोप श्रीरङ्गशठकोपयतीन्द्रमहादेशिकाय नमः ॥ इति आवियुर् श्रीनिवसचार्यविरचितः श्रीपार्थसारथिस्तवः समाप्तः । End of Part - 4