अक्षर आकार:

पापप्रशमनस्तोत्रं

Papa Prashamana Stotram

पापप्रशमनस्तोत्रं

पुलस्त्य उवाच - नमेस्तेऽस्तु जगन्नाथ देवदेव नमोऽस्तु ते । वासुदेव नमस्तेऽस्तु बहुरूप नमोऽस्तु ते ॥ १॥ एकश‍ृङ्ग नमस्तुभ्यं नमस्तुभ्यं वृषाकपे । श्रीनिवास नमस्तेऽस्तु नमस्ते भूतभावन ॥ २॥ विष्वक्सेन नमस्तुभ्यं नारायण नमोऽस्तु ते । ध्रुवध्वज नमस्तेऽस्तु सत्यध्वज नमोऽस्तु ते ॥ ३॥ यज्ञध्वज नमस्तुभ्यं धर्मध्वज नमोऽस्तु ते । तालध्वज नमस्तेऽस्तु नमस्ते गरुडध्वज ॥ ४॥ वरेण्य विष्णो वैकुण्ठ नमस्ते पुरुषोत्तम । नमो जयन्त विजय जयानन्तापराजित ॥ ५॥ कृतावर्त महावर्त महादेव नमोऽस्तु ते । अनाद्याद्यन्तमध्यान्त नमस्ते पद्मजाप्रिय ॥ ६॥ पुरञ्जय नमस्तुभ्यं शत्रुञ्जय नमोऽस्तु ते । शुभञ्जय नमस्तेऽस्तु नमस्तेऽस्तु धनञ्जय ॥ ७॥ सृष्टिगर्भ नमस्तुभ्यं शुचिश्रवः पृथुश्रवः । नमो हिरण्यगर्भाय पद्मगर्भाय ते नमः ॥ ८॥ नमः कमलनेत्राय कालनेत्राय ते नमः । कालनाभ नमस्तुभ्यं महानाभ नमो नमः ॥ ९॥ वृष्टिमूल महामूल मूलावास नमोऽस्तु ते । धर्मावास जलावास श्रीनिवास नमोऽस्तु ते ॥ १०॥ धर्माध्यक्ष प्रजाध्यक्ष लोकाध्यक्ष नमो नमः । सेनाध्यक्ष नमस्तुभयं कालाध्यक्ष नमोऽस्तु ते ॥ ११॥ गदाधर श्रुतिधर चक्रधारिन् श्रियोधर । वनमालाधर हरे नमस्ते धरणीधर ॥ १२॥ आर्चिषेण महासेन नमस्तेऽस्तु पुरुष्टुत । बहुकल्प महाकल्प नमस्ते कल्पनामुख ॥ १३॥ सर्वात्मन् सर्वग विभो विरिञ्चे श्वेत केशव । नील रक्त महानील अनिरुद्ध नमोऽस्तु ते ॥ १४॥ द्वादशात्मक कालात्मन् सामात्मन् परमात्मक । व्योमकात्मक सुब्रह्मन् भूतात्मक नमोऽस्तु ते ॥ १५॥ हरिकेश महाकेश गुडाकेश नमोऽस्तु ते । मुञ्जकेश हृषीकेश सर्वनाथ नमोऽस्तु ते ॥ १६॥ सूक्ष्म स्थूल महास्थूल महासूक्ष्म शुभङ्कर । श्वेतपीताम्बरधर नीलवास नमोऽस्तु ते ॥ १७॥ कुशेशय नमस्तेऽस्तु पद्मेशय जलेशय । गोविन्दप्रीतिकर्ता च हंस पीताम्बरप्रिय ॥ १८॥ अधोक्षज नमस्तुभ्यं सीरध्वज जनार्दन । वामनाय नमस्तेऽस्तु नमस्ते मधुसूदन ॥ १९॥ सहस्रशीर्षाय नमो ब्रह्मशीर्षाय ते नमः । नमः सहस्रनेत्राय सोमसूर्यानलेक्षण ॥ २०॥ नमश्चाऽथर्वशिरसे महाशीर्षाय ते नमः । नमस्ते धर्मनेत्राय महानेत्राय ते नमः ॥ २१॥ नमः सहस्रपादाय सहस्रभुजमन्यवे । नमो यज्ञवराहाय महारूपाय ते नमः ॥ २२॥ नमस्ते विश्वदेवाय विश्वात्मन् विश्वसम्भव । विश्वरूप नमस्तेऽस्तु त्वत्तो विश्वमभूदिदम् ॥ २३॥ न्यग्रोधस्त्वं महाशाखस्त्वं मूलकुसुमार्चितः । स्कन्धपत्राङ्कुरलतापल्लवाय नमोऽस्तु ते ॥ २४॥ मूलं ते ब्राह्मणा ब्रह्मन् स्कन्धस्ते क्षत्रियाः प्रभो । वैश्याः शाखा दलं शूद्रा वनस्पते नमोऽस्तु ते ॥ २५॥ ब्राह्मणाः साऽग्नयो वक्त्राः दोर्दण्डाः सायुधा नृपाः । पार्श्वाद्विशश्चोरुयुगाज्जाताः शूद्राश्च पादतः ॥ २६॥ नेत्राद्भानुरभूत्तुभ्यं पद्भ्यां भूः श्रोत्रयोर्दिशः । नाभ्या ह्यभूदन्तरिक्षं शशाङ्को मनसस्तव ॥ २७॥ प्राणाद्वायुः समभवत्कामाद्ब्रह्मा पितामहः । क्रोधात्त्रिनयनो रुद्रः शीर्ष्णोर्द्यौः समवर्तत ॥ २८॥ इन्द्राग्नी वदनात्तुभ्यं पशवो मलसम्भवाः । ओषध्यो रोमसम्भूता विराजस्त्वं नमोऽस्तु ते ॥ २९॥ पुष्पहास नमस्तेऽस्तु महाहास नमोऽस्तु ते । ओङ्कारस्त्वं वषट्कारो वौषट्त्वं च स्वधा सुधा ॥ ३०॥ स्वाहाकार नमस्तुभ्यं हन्तकार नमोऽस्तु ते । सर्वाकार निराकार वेदाकार नमोऽस्तु ते ॥ ३१॥ त्वं हि वेदमयो देवः सर्वदेवमयस्तथा । सर्वतीर्थमयश्चैव सर्वयज्ञमयस्तथा ॥ ३२॥ नमस्ते यज्ञपुरुष यज्ञभागभुजे नमः । नमः सहस्रधाराय शतधाराय ते नमः ॥ ३३॥ भूर्भुवः स्वः स्वरूपाय गोदायामृतदायिने । सुवर्णब्रह्मदात्रे च सर्वदात्रे च ते नमः ॥ ३४॥ ब्रह्मेशाय नमस्तुभ्यं ब्रह्मादे ब्रह्मरूपधृक् । परब्रह्म नमस्तेऽस्तु शब्दब्रह्म नमोऽस्तु ते ॥ ३५॥ विद्यास्त्वं वेद्यरूपस्त्वं वेदनीयस्त्वमेव च । बुद्धिस्त्वमपि बोध्यश्च बोधस्त्वं च नमोऽस्तु ते ॥ ३६॥ होता होमश्च हव्यं च हूयमानश्च हव्यवाट् । पाता पोता च पूतश्च पावनीयश्च ॐ नमः ॥ ३७॥ हन्ता च हन्यमानश्च ह्रियमाणस्त्वमेव च । हर्त्ता नेता च नीतिश्च पूज्योऽग्र्यो विश्वधार्यसि ॥ ३८॥ स्रुक्स्रुवौ परधामासि कपालोलूखलोऽरणिः । यज्ञपात्रारणेयस्त्वं एकधा बहुधा त्रिधा ॥ ३९॥ यज्ञस्त्वं यजमानस्त्वं ईड्यस्त्वमसि याजकः । ज्ञाता ज्ञेयस्तथा ज्ञानं ध्येयो ध्याताऽसि चेश्वरः ॥ ४०॥ ध्यानयोगश्च योगी च गतिर्मोक्षो धृतिः सुखम् । योगाङ्गानि त्वमीशानः सर्वगस्त्वं नमोऽस्तु ते ॥ ४१॥ ब्रह्मा होता तथोद्गाता साम यूपोऽथ दक्षिणा । दीक्षा त्वं त्वं पुरोडाशस्त्वं पशुः पशुवाह्यसि ॥ ४२॥ गुह्यो धाता च परमः शिवो नारायणस्तथा । महाजनो निरयनः सहस्राऽर्केन्दुरूपवान् ॥ ४३॥ द्वादशारोऽथ षण्णाभिस्त्रिव्यूहो द्वियुगस्तथा । कालचक्रो भवानीशो नमस्ते पुरुषोत्तम ॥ ४४॥ पराक्रमो विक्रमस्त्वं हयग्रीवो हरीश्वरः । नरेश्वरोऽथ व्रह्मेशः सूर्येशस्त्वं नमोऽस्तु ते ॥ ४५॥ अश्ववक्त्रो महामेधाः शम्भुः शुक्रः प्रभञ्जनः । मित्रावरुणमूर्तिस्त्वममूर्तिरनघः परः ॥ ४६॥ प्राग्वंशकायो भूतादिर्महाभूतोऽच्युतो द्विजः । त्वमूर्ध्वकर्त्ता ऊर्ध्वश्च ऊर्ध्वरेता नमोऽस्तु ते ॥ ४७॥ महापातकहा त्वं च उपपातकहा तथा । अनीशः सर्वपापेभ्यस्त्वामहं शरणं गतः ॥ ४८॥ फलश्रुतिः । इत्येतत्परमं स्तोत्रं सर्वपापप्रमोचनम् । महेश्वरेण कथितं वाराणस्यां पुरा मुने ॥ ४९॥ केशवस्याग्रतो गत्वा स्नात्वा तीर्थे सितोदके । उपशान्तस्तथा जातो रुद्रः पापवशात्ततः ॥ ५०॥ एतत्पवित्रं त्रिपुरघ्नभाषितं पठन्नरो विष्णुपरो महर्षे । विमुक्तपापो ह्युपशान्तमूर्तिः सम्पूज्यते देववरैः प्रसिद्धैः ॥ ५१॥ ॥ इति श्रीवामनमहापूराणे पापप्रशमनस्तोत्रं सम्पूर्णम् ॥