अक्षर आकार:

श्रीपादुकाष्टकम्

shrIpAdukAShTakam

श्रीपादुकाष्टकम्

गोकुलेशपादपद्ममण्डनैकमण्डिते सुरेशशेषसर्वदेशवासिवृन्दवन्दिते । अनन्यभक्तवाञ्छिताखिलार्थसिद्धिसाधिके नमो नमोऽस्तु वां सदैव गोकुलेशपादुके ॥ १॥ महार्हरत्ननिर्मिते सुहेमपीतसंस्थिते स्वसेवकैकसेविते सुपुष्पवासवासिते । स्वरूपबुद्धिहीनजीवसत्स्वरूपबोधिके नमो नमोऽस्तु वां सदैव गोकुलेशपादुके ॥ २॥ स्वसेवनैकचेतसामनन्यभक्तिदायिके कृपासुघैकसिक्तभक्तकाममोहनाशिके । महान्धकारलीनजीवहृत्प्रकाशचन्द्रिके नमो नमोऽस्तु वां सदैव गोकुलेशपादुके ॥ ३॥ निजाश्रयस्थिताखिलापदां सदा विदारके ह्यनेकतापतप्तजीवगाङ्गवारिवीचिके । समागतस्य सन्निधौ दुरन्तमोहभञ्जिके नमो नमोऽस्तु वां सदैव गोकुलेशपादुके ॥ ४॥ सदुःखदाववह्निदग्धमुग्धजीवसौख्यदे चण्डकालव्यालग्रस्तत्रस्तविश्वमोक्षिचेके । स्वभक्तशुद्धमानसे विराजमानहंसिके नमो नमोऽस्तु वां सदैव गोकुलेशपादुके ॥ ५॥ सुपादुकेतिकीर्तनाद्भवाब्धितोऽपि तारिके स्वसेवनात्सदा नृणां सुखैकवृद्धिकारिके । महेन्द्रचन्द्रब्रह्मभानुमौलिहेममालिके नमो नमोऽस्तु वां सदैव गोकुलेशपादुके ॥ ६॥ महर्षिदेवसिद्धवृन्दचामरप्रवीजिते चतुर्दिगन्तवारिधौ निजप्रतापगर्जिते । भवाब्धिमग्नजीवजातशोकमोहहारिके नमो नमोऽस्तु वां सदैव गोकुलेशपादुके ॥ ७॥ यथोद्धवाय भक्तिभावभाविताय चार्पिते तथैव गोकुलेश्वरेण सेवकाय चार्पिते । निरस्य मायिकं वचः स्वपुष्टिमार्गदर्शिके नमो नमोऽस्तु वां सदैव गोकुलेशपादुके ॥ ८॥ ये पादुकाष्टकमिदं नियतं पतन्ति विप्रोद्धवेन रचितं महतां प्रसादात् । ते यान्ति गोकुलपतेश्चरणारविन्दं सान्निध्यमुक्तिगतिमत्र च तत्प्रसादात् ॥ ९॥ इति उद्धवरचितं श्रीपादुकाष्टकं सम्पूर्णम् ।