अक्षर आकार:

पाण्डुरङ्गस्मरणम्

Pandurangasmaranam

पाण्डुरङ्गस्मरणम्

समचरणसरोजं सान्द्रनीलाम्बुदाभं जघननिहितपाणिं मण्डनं मण्डनानाम् । तरुणतुलसिमालाकन्धरं कञ्जनेत्रं सदयधवलहासं विट्ठलं चिन्तयामि ॥ इति पाण्डुरङ्गस्मरणं समाप्तम् ।