अक्षर आकार:

नृसिंहस्तोत्र

nRisinhastotra

नृसिंहस्तोत्र

श्री गणेशाय नमः । सुरासुरशिरोरत्नकान्तिविच्छुरिताङ्घ्रये । नमस्त्रिभुवनेशाय हरये सिंहरूपिणे ॥ १॥ शत्रोः प्राणानिलास्तत्र वयं दश जयोऽत्र कः । इति कोपादिवाताम्राः पान्तु वो नृहरेर्नखाः ॥ २॥ प्रोज्ज्वलज्वलनज्वालाविकटोरुसटाछटः । श्वासक्षिप्तकुलक्ष्माभृत्पातु वो नरकेसरी ॥ ३॥ व्याधूतकेसरसटाविकरालवक्त्रं हस्ताग्रविस्फुरितशङ्खगदासिचक्रम् । आविष्कृतं सपदि येन नृसिंहरूपं नारायणं तमपि विश्वसृजं नमामि ॥ ४॥ दैत्यास्थिपञ्जरविदारणलब्धरन्ध्र रक्ताम्बुनिर्जरसरिद्धनजातपङ्का । बालेन्दुकोटिकुटिलाः शुकचञ्चुभासो रक्षन्तु सिंहवपुषो नखरा हरेर्वः ॥ ५॥ दिश्यात्सुखं नरहविर्भुवनैकवीरो यस्याहवे दितिसुतोद्दलनोद्यतस्य । क्रोधोद्यतं मुखमवेक्षितुमक्षमत्वं जानेऽभवन्निजनखेष्वपि यन्नतास्ते ॥ ६॥ ॥ इति नृसिंहस्तोत्रम् ॥