अक्षर आकार:

श्रीनृसिंहमङ्गलम्

shrI nRisimhamangalam

श्रीनृसिंहमङ्गलम्

घटिकाचल श‍ृङ्गाग्र विमानोदर वासिने । निखिलामर सेव्याय नरसिंहाय मङ्गलम् ॥ १॥ उदीचीरङ्ग-निवसत्सुमनस्तोम सूक्तिभिः । नित्याभिवृद्ध यशसे नरसिंहाय मङ्गलम् ॥ २॥ सुधावल्ली-परिष्वङ्ग-सुरभीकृत-वक्षसे । घटिकाद्रि-निवासाय श्रीनृसिंहाय मङ्गलम् ॥ ३॥ सर्वारिष्ट-विनाशाय सर्वेष्ट-फलदायिने । घटिकाद्रि-निवासाय श्रीनृसिंहाय मङ्गलम् ॥ ४॥ महागुरु मनःपद्म मध्य नित्य निवासिने । भक्तोचिताय भवतात् मङ्गलं शाश्वती समाः ॥ ५॥ श्रीमत्यै विष्णुचित्तार्यमनोनन्दन हेतवे । नन्दनन्दन-सुन्दर्यै गोदायै नित्यमङ्गलम् ॥ ६॥ श्रीमन्महाभूतपुरे श्रीमत्केशव-यज्वनः । कान्तिमत्यां प्रसूताय यतिराजाय मङ्गलम् ॥ ७॥ पादुके यतिराजस्य कथयन्ति यदाख्यया। तस्य दाशरथेः पादौ शिरसा धारयाम्यहम् ॥ ८॥ श्रीमते रम्यजामातृ-मुनीन्द्राय महात्मने । श्रीरङ्गवासिने भूयात् नित्यश्रीः नित्यमङ्गलम् ॥ ९॥ सौम्यजामातृ-योगीन्द्र चरणाम्बुज-षट्पदम् । देवराजगुरुं वन्दे दिव्यज्ञानप्रदं शुभम् ॥ १०॥ वाधूल-श्रीनिवासार्य-तनयं विनयाधिकम् । प्रज्ञानिधिं प्रपद्येऽहं श्रीनिवासमहागुरुम् ॥ ११॥ चण्डमारुत-वेदान्तविजयादि-स्वसूक्तिभिः । वेदान्त-रक्षकायास्तु महाचार्याय मङ्गलम् ॥ १२॥