अक्षर आकार:

श्रीनृसिंहाष्टकम्

shrI nRisiMhAShTakam

श्रीनृसिंहाष्टकम्

सुन्दरजामातृमुनेः प्रपद्ये चरणाम्बुजम् । संसारार्णवसंमग्नजन्तुसंतारपोतकम् ॥ श्रीमदकलङ्क परिपूर्ण! शशिकोटि- श्रीधर! मनोहर! सटापटल कान्त! । पालय कृपालय! भवाम्बुधि-निमग्नं दैत्यवरकाल! नरसिंह! नरसिंह! ॥ १॥ पादकमलावनत पातकि-जनानां पातकदवानल! पतत्रिवर-केतो! । भावन! परायण! भवार्तिहरया मां पाहि कृपयैव नरसिंह! नरसिंह! ॥ २॥ तुङ्गनख-पङ्क्ति-दलितासुर-वरासृक् पङ्क-नवकुङ्कुम-विपङ्किल-महोरः । पण्डितनिधान-कमलालय नमस्ते पङ्कजनिषण्ण! नरसिंह! नरसिंह! ॥ ३॥ मौलेषु विभूषणमिवामर वराणां योगिहृदयेषु च शिरस्सु निगमानाम् । राजदरविन्द-रुचिरं पदयुगं ते देहि मम मूर्ध्नि नरसिंह! नरसिंह! ॥ ४॥ वारिजविलोचन! मदन्तिम-दशायां क्लेश-विवशीकृत-समस्त-करणायाम् । एहि रमया सह शरण्य! विहगानां नाथमधिरुह्य नरसिंह! नरसिंह! ॥ ५॥ हाटक-किरीट-वरहार-वनमाला धाररशना-मकरकुण्डल-मणीन्द्रैः । भूषितमशेष-निलयं तव वपुर्मे चेतसि चकास्तु नरसिंह! नरसिंह! ॥ ६॥ इन्दु रवि पावक विलोचन! रमायाः मन्दिर! महाभुज!-लसद्वर-रथाङ्ग! । सुन्दर! चिराय रमतां त्वयि मनो मे नन्दित सुरेश! नरसिंह! नरसिंह! ॥ ७॥ माधव! मुकुन्द! मधुसूदन! मुरारे! वामन! नृसिंह! शरणं भव नतानाम् । कामद घृणिन् निखिलकारण नयेयं कालममरेश नरसिंह! नरसिंह! ॥ ८॥ अष्टकमिदं सकल-पातक-भयघ्नं कामदं अशेष-दुरितामय-रिपुघ्नम् । यः पठति सन्ततमशेष-निलयं ते गच्छति पदं स नरसिंह! नरसिंह! ॥ ९॥ ॥ इति श्रीनृसिंहाष्टकं सम्पूर्णम् ॥