अक्षर आकार:

निरोधलक्षणम्

nirodhalakShaNam

निरोधलक्षणम्

यच्च दुःखं यशोदाया नन्दादीनां च गोकुले । गोपिकानां तु यद्दुःखं तद्दुःखं स्यान्मम क्वचित् ॥ १॥ गोकुले गोपिकानां च सर्वेषां व्रजवासिनाम् । यत्सुखं समभूत्तन्मे भगवान् किं विधास्यति ॥ २॥ उद्धवागमने जात उत्सवः सुमहान्यथा । वृन्दावने गोकुले वा तथा मे मनसि क्वचित् ॥ ३॥ महतां कृपया यावद्भगवान् दययिष्यति । तावदानन्दसन्दोहः कीर्त्यमानः सुखाय हि ॥ ४॥ महतां कृपया यद्वत्कीर्तनं सुखदं सदा । न तथा लौकिकानां तु स्निग्धभोजनरूक्षवत् ॥ ५॥ गुणगाने सुखावाप्तिर्गोविन्दस्य प्रजायते । यथा तथा शुकादीनां नैवात्मनि कुतोऽन्यतः ॥ ६॥ क्लिश्यमानाञ्जनान्दृष्ट्वा कृपायुक्तो यदा भवेत् । तदा सर्वसदानन्दहृदिस्थं निर्गतं बहिः ॥ ७॥ सर्वानन्दमयस्यापि कृपानन्दः सुदुर्लभः । हृद्गतः स्वगुणाच्छ्रुत्वा पूर्णः प्लावयते जनान् ॥ ८॥ तस्मात्सर्वं परित्यज्य निरुद्धैः सर्वदा गुणाः । सदानन्दपरैर्गेयाः सच्चिदानन्दता ततः ॥ ९॥ अहं निरुद्धो रोधेन निरोधपदवीं गतः । निरुद्धानां तु रोधाय निरोधं वर्णयामि ते ॥ १० हरिणा ये विनिर्मुक्तास्ते मग्ना भवसागरे । ये निरुद्धास्त एवात्र मोदमायान्त्यहर्निशम् ॥ ११॥ संसारावेशदुष्टानामिन्द्रियाणां हिताय वै । कृष्णस्य सर्ववस्तूनि भूम्न ईशस्य योजयेत् ॥ १२॥ गुणेष्वाविष्टचित्तानां सर्वदा मुरवैरिणः । संसारविरहक्लेशौ न स्यातां हरिवत्सुखम् ॥ १३॥ तदा भवेद्दयालुत्वमन्यथा क्रूरता मता । बाधशङ्कापि नास्त्यत्र तदध्यासोऽपि सिद्‍ध्यति ॥ १४॥ भगवद्धर्मसामर्थ्याद्विरागो विषये स्थिरः । गुणैर्हरेः सुखस्पर्शान्न दुःखं भाति कर्हिचित् ॥ १५॥ एवं ज्ञात्वा ज्ञानमार्गादुत्कर्षो गुणवर्णने । अमत्सरैरलुब्धैश्च वर्णनीयाः सदा गुणाः ॥ १६॥ हरिमूर्तिः सदा ध्येया सङ्कल्पादपि तत्र हि । दर्शनं स्पर्शनं स्पष्टं तथाकृतिगती सदा ॥ १७॥ श्रवणं कीर्तनं स्पष्टं पुत्रे कृष्णप्रिये रतिः । पायोर्मलांशत्यागेन शेषभागं तनौ नयेत् ॥ १८॥ यस्य वा भगवत्कार्यं यदा स्पृष्टं न दृश्यते । तदा विनिग्रहस्तस्य कर्तव्य इति निश्चयः ॥ १९॥ नातः परतरो मन्त्रो नातः परतरः स्तवः । नातः परतरा विद्या तीर्थं नातः परात्परम् ॥ २०॥ इति श्रीवल्लभाचार्यविरचितं निरोधलक्षणं समाप्तम् ।