अक्षर आकार:

नवरत्नस्तोत्रम्

navaratnastotram

नवरत्नस्तोत्रम्

चिन्ता कापि न कार्या निवेदितात्मभिः कदापीति । भगवानपि पुष्टिस्थो न करिष्यति लौकिकीं च गतिम् ॥ १॥ निवेदनं तु स्मर्तव्यं सर्वथा तादृशैर्जनैः । सर्वेश्वरश्च सर्वात्मा निजेच्छातः करिष्यति ॥ २॥ सर्वेषां प्रभुसम्बन्धो न प्रत्येकमिति स्थितिः । अतोऽन्यविनियोगेऽपि चिन्ता का स्वस्य सोऽपि चेत् ॥ ३॥ अज्ञानादथ वा ज्ञानात् कृतमात्मनिवेदनम् । यैः कृष्णसात्कृतप्राणैस्तेषां का परिवेदना ॥ ४॥ तथा निवेदने चिन्ता त्याज्या श्रीपुरुषोत्तमे । विनियोगेऽपि सा त्याज्या समर्थो हि हरिः स्वतः ॥ ५॥ लोके स्वास्थ्यं तथा वेदे हरिस्तु न करिष्यति । पुष्टिमार्गस्थितो यस्मात्साक्षिणो भवताऽखिलाः ॥ ६॥ सेवाकृतिर्गुरोराज्ञाबाधनं वा हरीच्छया । अतः सेवापरं चित्तं विधाय स्थीयतां सुखम् ॥ ७॥ चित्तोद्वेगं विधायापि हरिर्यद्यत्करिष्यति । तथैव तस्य लीलेति मत्वा चिन्तां द्रुतं त्यजेत् ॥ ८॥ तस्मात्सर्वात्मना नित्यं श्रीकृष्णः शरणं मम । वदद्भिरेवं सततं स्थेयमित्येव मे मतिः ॥ ९॥ इति श्रीवल्लभाचार्यविरचितं नवरत्नस्तोत्रं समाप्तम् ।