अक्षर आकार:

नरसिंहस्तुती शुक्राचार्यप्रोक्त नरसिंहपुराणे

Narasimha stuti by Shukracharya

नरसिंहस्तुती शुक्राचार्यप्रोक्त नरसिंहपुराणे

मार्कण्डेय उवाच वामनेन स विद्धाक्षो बहुतीर्थेषु भार्गवः । जाह्नवीसलिले स्थित्वा देवमभ्यर्च्य वामनम् ॥ १॥ ऊर्ध्वबाहुः स देवेशं शंखचक्रगदाधरम् । हृदि संचिन्त्य तुष्टाव नरसिंहं सनातनम् ॥ २॥ शुक्र उवाच नमामि देवं विश्वेशं वामनं विष्णुरूपिणम् । बलिदर्पहरं शान्तं शाश्वतं पुरुषोत्तमम् ॥ ३॥ धीरं शूरं महादेवं शङ्खचक्रगदाधरम् । विशुद्धं ज्ञानसम्पन्नं नमामि हरिमच्युतम् ॥ ४॥ सर्वशक्तिमयं देवं सर्वगं सर्वभावनम् । अनादिमजरं नित्यं नमामि गरुडध्वजम् ॥ ५॥ सुरासुरैर्भक्तिमद्भिः स्तुतो नारायणः सदा । पूजितं च हृषीकेशं तं नमामि जगद्गुरुम् ॥ ६॥ हृदि संकल्प्य यद्रूपं ध्यायन्ति यतयः सदा । ज्योतीरूपमनौपम्यं नरसिंहं नमाम्यहम् ॥ ७॥ न जानन्ति परं रूपं ब्रह्माद्या देवतागणाः । यस्यावताररूपाणि समर्चन्ति नमामि तम् ॥ ८॥ एतत्समस्तं येनादौ सृष्टं दुष्टवधात्पुनः । त्रातं यत्र जगल्लीनं तं नमामि जनार्दनम् ॥ ९॥ भक्तैरभ्यर्चितो यस्तु नित्यं भक्तप्रियो हि यः । तं देवममलं दिव्यं प्रणमामि जगत्पतिम् ॥ १०॥ दुर्लभं चापि भक्तानां यः प्रयच्छति तोषितः । तं सर्वसाक्षिणं विष्णुं प्रणमामि सनातनम् ॥ ११॥ नरसिंहपुराणे अध्याय ५५ श्लोक २-१२, अध्याय श्लोक संख्या २० श्रीनरसिंहपुराणे शुक्रवरप्रदानो नाम पञ्चपञ्चाशोऽध्यायः ॥ ५५॥ From Narasimhapurana adhyAya 55 verses 2-12