अक्षर आकार:

श्रीनरसिंहस्तुतिःप्रह्लाद २

Shri Narasimhastutihprahlada 2

श्रीनरसिंहस्तुतिःप्रह्लाद २

(प्रह्लादकृता ) नमस्ते पुण्डरीकाक्ष नमस्ते पुरुषोत्तम । नमस्ते सर्वकालात्मन् नमस्ते तिग्मचक्रिणे ॥ १॥ ब्रह्मत्वे सृजते विश्वं स्थितौ पालयते पुनः । रुद्ररूपाय कल्पान्ते नमस्तुभ्यं त्रिमूर्तये ॥ २॥ देवा यक्षासुराः सिद्धा नागा गन्धर्वकिन्नराः । पिशाचा राक्षसाश्चैव मनुष्याः पशवस्तथा ॥ ३॥ पक्षिणः स्थावराश्चैव पिपीलिकसरीसृपाः । भूरापोऽग्निर्नभो वायुः शब्दः स्पर्शस्तथा रसः ॥ ४॥ रूपं गन्धो मनो बुद्धिरात्मा कालस्तथा गुणाः । एतेषां परमार्थश्च सर्वमेतत्त्वमच्युत ॥ ५॥ विद्याविद्ये भवान्सत्यं असत्यं त्वं विषामृते । प्रवृत्तं च निवृत्तं च कर्म वेदोदितं भवान् ॥ ६॥ समस्तकर्मभोक्ता च कर्मोपकरणानि च । त्वमेव विष्णो सर्वाणि सर्वकर्मफलं च यत् ॥ ७॥ मय्यन्यत्र तथाऽन्येषु भूतेषु भुवनेषु च । तवैव व्याप्तिरैश्वर्यगुणसंसूचिकी प्रभो ॥ ८॥ त्वां योगिनश्चिन्तयन्ति त्वां यजन्ति च याजकाः । हव्यकव्यभुगेकस्त्वं पितृदेवस्वरूपधृक् ॥ ९॥ रूपं महत्ते स्थितमत्र विश्वं ततश्च सूक्ष्मं जगदेतदीश । रूपाणि सर्वाणि च भूतभेदास्तेष्वन्तरात्माख्यमतीव सूक्ष्मम् ॥ १०॥ तस्माच्च सूक्ष्मादिविशेषणानामगोचरे यत्परमात्मरूपम् । किमप्यचिन्त्यं तव रूपमस्ति तस्मै नमस्ते पुरुषोत्तमाय ॥ ११॥ सर्वभूतेषु सर्वात्मन् या शक्तिरपरा तव । गुणाश्रया नमस्तस्यै शाश्वतायै सुरेश्वर ॥ १२॥ याऽस्तीशागोचरा वाचां मनसां चाविशेषणा । ज्ञानिज्ञानपरिच्छेद्या तां वन्दे स्वेश्वरीं पराम् ॥ १३॥ ओं नमो वासुदेवाय तस्मै भगवते सदा । व्यतिरिक्तं न यस्यास्ति व्यतिरिक्तोऽखिलस्य यः ॥ १४॥ नमस्तस्मै नमस्तस्मै नमस्तस्मै महात्मने । नाम रूपं न यस्यैको योऽस्तित्वेनोपलभ्यते ॥ १५॥ यस्यावताररूपाणि समर्चन्ति दिवौकसः । अपश्यन्तः परं रूपं नमस्तस्मै महात्मने ॥ १६॥ योऽन्तस्तिष्ठन्नशेषस्य पश्यतीशः शुभाशुभम् । तं सर्वसाक्षिणं विश्वं नमस्ये परमेश्वरम् ॥ १७॥ नमोऽस्तु विष्णवे तस्मै यस्याभिन्नमिदं जगत् । ध्येयः स जगतामाद्यः स प्रसीदतु मेऽव्ययः ॥ १८॥ यत्रोतमेतत्प्रोतं च विश्वमक्षरमव्ययम् । आधारभूतः सर्वस्य स प्रसीदतु मे हरिः ॥ १९॥ ओं नमो विष्णवे तस्मै नमस्तस्मै पुनः पुनः । यत्र सर्वं यतः सर्वं यः सर्वं सर्वसंश्रयः ॥ २०॥ श्रीभगवानुवाच - सर्वगत्वादनन्तस्य स एवाहमवस्थितः । मत्तः सर्वमहं सर्वं मयि सर्वं सनातने ॥ २१॥ अहमेवाक्षयो नित्यः परमात्माऽऽत्मसंश्रयः । ब्रह्मसंज्ञोऽहमेवाग्रे तथाऽन्ते च परः पुमान् ॥ २२॥ प्रह्लाद उवाच - देव प्रपन्नार्तिहर प्रसादं कुरु केशव । अवलोकनदानेन भूयो मां पावयाच्युत ॥ २३॥ नाथ योनिसहस्रेषु येषु येषु व्रजाम्यहम् । तेषु तेष्वच्युता भक्तिरच्युतास्तु सदा त्वयि ॥ २४॥ या प्रीतिरविवेकानां विषयेष्वनपायिनी । त्वामनुस्मरतः सा मे हृदयान्माऽपसर्पतु ॥ २५॥ नमस्ते पुण्डरीकाक्ष नमस्ते पुरुषोत्तम । नमस्ते सर्वलोकात्मन् नमस्ते तिग्मचक्रिणे ॥ २६॥ नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च । जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥ २७॥ इति प्रह्लादकृता २ श्रीनरसिंहस्तुतिः समाप्ता ।