अक्षर आकार:

नखस्तुती

nakha stuti

नखस्तुती

॥ श्री नृसिंहनखस्तुतिः ॥ पान्त्वस्मान् पुरुहूत वैरि बलवन् मातङ्ग माद्यद्घटा । कुंभोच्चाद्रिविपाटनाऽधिकपटु प्रत्येक वज्रायिताः । श्रीमत्कण्ठीरवास्यप्रततसुनखरा दारिताराऽतिदूर । प्रद्ध्वस्त ध्वांत शांत प्रवितत मनसा भाविता भूरिभागैः ॥ १॥ लक्ष्मीकांतसमंततोऽपिकलयन् नैवेशितुः ते समम् । पश्याम्युत्तमवस्तु दूरतरतो पास्तं रसो योऽष्टमः । यद्रोशोत्कर दक्षनेत्रकुटिलः प्रांतोत्थिताऽग्नि स्फुरत् । खद्योतोपमविस्फुलिङ्ग भसिता ब्रह्मेशशक्रोत्कराः ॥ २॥ इति श्रीमदानंदतीर्थ भगवत्पादाचार्य विरचितं श्री नृसिंहनखस्तुतिः सम्पूर्णम् ॥ भारतीरमणमुख्यप्राणांतर्गत श्रीकृष्णार्पणमस्तु ॥