अक्षर आकार:

नकारादि श्रीनरसिंहाष्टोत्तरशतनामस्तोत्रम्

nakArAdi shrI narasiMhAShTottarashatanAmastotram

नकारादि श्रीनरसिंहाष्टोत्तरशतनामस्तोत्रम्

श्री हयग्रीवाय नमः । हरिः ॐ नरसिंहो नरो नारस्रष्टा नारायणो नवः । नवेतरो नरपतिर्नरात्मा नरचोदनः ॥ १॥ नखभिन्नस्वर्णशय्यो नखदंष्ट्राविभीषणः । नारभीतदिशानाशो नन्तव्यो नखरायुधः ॥ २॥ नादनिर्भिन्नपाद्माण्डो नयनाग्निहुतासुरः । नटत्केसरसञ्जातवातविक्षिप्तवारिदः ॥ ३॥ नलिनीशसहस्राभो नतब्रह्मादिदेवतः । नभोविश्वम्भराभ्यन्तर्व्यापिदुर्वीक्षविग्रहः ॥ ४॥ निश्श्वासवातसंरम्भ घूर्णमानपयोनिधिः । निर्दयाङ्घ्रियुगन्यासदलितक्ष्माहिमस्तकः ॥ ५॥ निजसंरम्भसन्त्रस्तब्रह्मरुद्रादिदेवतः । निर्दम्भभक्तिमद्रक्षोडिम्भनीतशमोदयः ॥ ६॥ नाकपालादिविनुतो नाकिलोककृतप्रियः । नाकिशत्रूदरान्त्रादिमालाभूषितकन्धरः ॥ ७॥ नाकेशासिकृतत्रासदंष्ट्राभाधूततामसः । नाकमर्त्यातलापूर्णनादनिश्शेषितद्विपः ॥ ८॥ नामविद्राविताशेषभूतरक्षःपिशाचकः । नामनिश्श्रेणिकारूढनिजलोकनिजव्रजः ॥ ९॥ नालीकनाभो नागारिवन्द्यो नागाधिराड्भुजः । नगेन्द्रधीरो नेत्रान्तस्ख्सलदग्निकणच्छटः ॥ १०॥ नारीदुरासदो नानालोकभीकरविग्रहः । निस्तारितात्मीयसन्थो निजैकज्ञेयवैभवः ॥ ११॥ निर्व्याजभक्तप्रह्लादपरिपालनतत्परः । निर्वाणदायी निर्व्याजभक्त्येकप्राप्यतत्पदः ॥ १२॥ निर्ह्रादमयनिर्घातदलितासुरराड्बलः । निजप्रतापमार्ताण्डखद्योतीकृतभास्करः ॥ १३॥ निरीक्षणक्षतज्योतिर्ग्रहतारोडुमण्डलः । निष्प्रपञ्चबृहद्भानुज्वालारुणनिरीक्षणः ॥ १४॥ नखाग्रलग्नारिवक्षस्स्रुतरक्तारुणाम्बरः । निश्शेषरौद्रनीरन्ध्रो नक्षत्राच्छादितक्षमः ॥ १५॥ निर्णिद्ररक्तोत्पलाक्षो निरमित्रो निराहवः । निराकुलीकृतसुरो निर्णिमेयो निरीश्वरः ॥ १६॥ निरुद्धदशदिग्भागो निरस्ताखिलकल्मषः । निगमाद्रिगुहामध्यनिर्णिद्राद्भुतकेसरी ॥ १७॥ निजानन्दाब्धिनिर्मग्नो निराकारो निरामयः । निरहङ्कारविबुधचित्तकानन गोचरः ॥ १८॥ नित्यो निष्कारणो नेता निरवद्यगुणोदधिः । निदानं निस्तमश्शक्तिर्नित्यतृप्तो निराश्रयः ॥ १९॥ निष्प्रपञ्चो निरालोको निखिलप्रीतिभासकः । निरूढज्ञानिसचिवो निजावनकृताकृतिः ॥ २०॥ निखिलायुधनिर्भातभुजानीकशताद्भुतः । निशितासिज्ज्वलज्जिह्वो निबद्धभृकुटीमुखः ॥ २१॥ नगेन्द्रकन्दरव्यात्तवक्त्रो नम्रेतरश्रुतिः । निशाकरकराङ्कूर गौरसारतनूरुहः ॥ २२॥ नाथहीनजनत्राणो नारदादिसमीडितः । नारान्तको नारचित्तिर्नाराज्ञेयो नरोत्तमः ॥ २३॥ नरात्मा नरलोकांशो नरनारायणो नभः । नतलोकपरित्राणनिष्णातो नयकोविदः ॥ २४॥ निगमागमशाखाग्र प्रवालचरणाम्बुजः । नित्यसिद्धो नित्यजयी नित्यपूज्यो निजप्रभः ॥ २५॥ निष्कृष्टवेदतात्पर्यभूमिर्निर्णीततत्त्वकः । नित्यानपायिलक्ष्मीको निश्श्रेयसमयाकृतिः ॥ २६॥ निगमश्रीमहामालो निर्दग्धत्रिपुरप्रियः । निर्मुक्तशेषाहियशा निर्द्वन्द्वो निष्कलो नरी ॥ २७॥ ॥ इति नकारादि श्री नरसिंहाष्टोत्तरशतनामस्तोत्रम् पराभव श्रावण शुद्धैकादश्याम् रामेण लिखिता श्री हयग्रीवाय समर्पित ॥ Source Book: shrI dashAvatArAShTottarashatanAmAvaliH savyAkhyA language: Telugu