अक्षर आकार:

नकारादि श्रीनरसिंहाष्टोत्तरशतनामावलिः

nakArAdi shrI narasiMhAShTottarashatanAmAvaliH

नकारादि श्रीनरसिंहाष्टोत्तरशतनामावलिः

श्री हयग्रीवाय नमः । हरिः ॐ ॐ नरसिंहाय नमः । ॐ नराय नमः । ॐ नारस्रष्ट्रे नमः । ॐ नारायणाय नमः । ॐ नवाय नमः । ॐ नवेतराय नमः । ॐ नरपतये नमः । ॐ नरात्मने नमः । ॐ नरचोदनाय नमः । ॐ नखभिन्नस्वर्णशय्याय नमः । १० ॐ नखदंष्ट्राविभीषणाय नमः । ॐ नादभीतदिशानागाय नमः । ॐ नन्तव्याय नमः । ॐ नखरायुधाय नमः । ॐ नादनिर्भिन्नपाद्माण्डाय नमः । ॐ नयनाग्निहुतासुराय नमः । ॐ नटत्केसरसञ्जातवातविक्षिप्तवारिदाय नमः । ॐ नलिनीशसहस्राभाय नमः । ॐ नतब्रह्मादिदेवताय नमः । ॐ नभोविश्वम्भराभ्यन्तर्व्यापिदुर्वीक्ष्यविग्रहाय नमः । २० ॐ निश्श्वासवातसंरम्भ घूर्णमानपयोनिधये नमः । ॐ निर्द्रयाङ्घ्रियुगन्यासदलितक्ष्माहिमस्तकाय नमः । ॐ निजसंरम्भसन्त्रप्तब्रह्मरुद्रादिदेवताय नमः । ॐ निर्दम्भभक्तिमद्रक्षोडिम्भनीतशमोदयाय नमः । ॐ नाकपालादिविनुताय नमः । ॐ नाकिलोककृतप्रियाय नमः । ॐ नाकिशत्रूदरान्त्रादिमालाभूषितकन्धराय नमः । ॐ नाकेशासिकृतत्रासदंष्ट्राभाधूततामसाय नमः । ॐ नाकमर्त्यातलापूर्णनादनिश्शेषितद्विपाय नमः । ॐ नामविद्राविताशेषभूतरक्षःपिशाचकाय नमः । ३० ॐ नामनिश्श्रेणिकारूढ निजलोकनिजप्रजाय नमः । ॐ नालीकनाभाय नमः । ॐ नागारिमध्याय नमः । ॐ नागाधिराड्भुजाय नमः । ॐ नगेन्द्रधीराय नमः । ॐ नेत्रान्तस्ख्सलदग्निकणच्छटाय नमः । ॐ नारीदुरापदाय नमः । ॐ नानालोकभीकरविग्रहाय नमः । ॐ निस्तारितात्मीय सन्धाय नमः । ॐ निजैकज्ञेय वैभवाय नमः । ४० ॐ निर्व्याजभक्तप्रह्लाद परिपालन तत्पराय नमः । ॐ निर्वाणदायिने नमः । ॐ निर्व्याजभक्तैकप्राप्यतत्पदाय नमः । ॐ निर्ह्रादमयनिर्घातदलितासुरराड्बलाय नमः । ॐ निजप्रतापमार्ताण्डखद्योतीकृतभास्कराय नमः । ॐ निरीक्षणक्षतज्योतिर्ग्रहतारोडुमण्डलाय नमः । ॐ निष्प्रपञ्चबृहद्भानुज्वालारुणनिरीक्षणाय नमः । ॐ नखाग्रलग्नारिवक्ष्ससृतरक्तारुणाम्बराय नमः । ॐ निश्शेषरौद्रनीरन्ध्राय नमः । ॐ नक्षत्राच्छादितक्षमाय नमः । ॐ निर्णिद्र रक्तोत्पलाय नमः । ५० ॐ निरमित्राय नमः । ॐ निराहवाय नमः । ॐ निराकुलीकृतसुराय नमः । ॐ निर्णिमेयाय नमः । ॐ निरीश्वराय नमः । ॐ निरुद्धदशदिग्भागाय नमः । ॐ निरस्ताखिलकल्मषाय नमः । ॐ निगमाद्रि गुहामध्यनिर्णिद्राद्भुत केसरिणे नमः । ॐ निजानन्दाब्धिनिर्मग्नाय नमः । ॐ निराकाशाय नमः । ६० ॐ निरामयाय नमः । ॐ निरहङ्कारविबुधचित्तकानन गोचराय नमः । ॐ नित्याय नमः । ॐ निष्कारणाय नमः । ॐ नेत्रे नमः । ॐ निरवद्यगुणोदधये नमः । ॐ निदानाय नमः । ॐ निस्तमश्शक्तये नमः । ॐ नित्यतृप्ताय नमः । ॐ निराश्रयाय नमः । ७० ॐ निष्प्रपञ्चाय नमः । ॐ निरालोकाय नमः । ॐ निखिलप्रतिभासकाय नमः । ॐ निरूढज्ञानिसचिवाय नमः । ॐ निजावनकृताकृतये नमः । ॐ निखिलायुधनिर्घातभुजानीकशताद्भुताय नमः । ॐ निशितासिज्ज्वलज्जिह्वाय नमः । ॐ निबद्धभृकुटीमुखाय नमः । ॐ नगेन्द्रकन्दरव्यात्त वक्त्राय नमः । ॐ नम्रेतरश्रुतये नमः । ८० ॐ निशाकरकराङ्कूर गौरसारतनूरुहाय नमः । ॐ नाथहीनजनत्राणाय नमः । ॐ नारदादिसमीडिताय नमः । ॐ नारान्तराय नमः । ॐ नारचित्तये नमः । ॐ नाराज्ञेयाय नमः । ॐ नरोत्तमाय नमः । ॐ नरात्मने नमः । ॐ नरलोकांशाय नमः । ॐ नरनारायणाय नमः । ९० ॐ नभसे नमः । ॐ नतलोकपरित्राणनिष्णाताय नमः । ॐ नयकोविदाय नमः । ॐ निगमागमशाखाग्र प्रवालचरणाम्बुजाय नमः । ॐ नित्यसिद्धाय नमः । ॐ नित्यजयिने नमः । ॐ नित्यपूज्याय नमः । ॐ निजप्रभाय नमः । ॐ निष्कृष्टवेदतात्पर्यभूमये नमः । ॐ निर्णीततत्त्वकाय नमः । ॐ नित्यानपायिलक्ष्मीकाय नमः । ॐ निश्श्रेयसमयाकृतये नमः । ॐ निगमश्रीमहामालाय नमः । ॐ निर्दग्धत्रिपुरप्रियाय नमः । ॐ निर्मुक्तशेषाहियशसे नमः । ॐ निर्द्वन्दाय नमः । ॐ निष्कलाय नमः । ॐ नरिणे नमः । ॥ इति नकारादि श्री नरसिंहाष्टोत्तरशतनामावलिः पराभव श्रावणशुद्धैकादश्यां रामेण लिखिता श्री हयग्रीवाय समर्पित ॥ Source Book: shrI dashAvatArAShTottarashatanAmAvaliH savyAkhyA language: Telugu