अक्षर आकार:

नैवेद्यसमर्पणप्रार्थना

naivedyasamarpaNaprArthanA

नैवेद्यसमर्पणप्रार्थना

यशोदायाः स्तन्ये तदनुनवनीते व्रजगवां विहारे दध्यन्ने व्रजयुवतिदत्ते बहुगुणे । तथा मित्रात्प्राप्ते पृथुकवरमुष्टौ मुरहरे यया प्रीतिस्तां मे प्रकटय सुनैवेद्यनिचये ॥ १॥ विदुरस्य गृहे प्रीत्या यथा भुक्तं व्रजेश्वर । तथैव भुङ्क्ष्व नैवेद्यं मयि नाथ कृपां कुरु ॥ २॥ ब्रह्माद्यैर्यः परित उरुभी रूपवेषैः सुवेषो लक्ष्म्या शिञ्जद्वलयकरया सादरं वीज्यमानः । नर्मक्रीडाप्रहसितमुखो भोजयन् भक्तियुक्तान् भुङ्क्ते पात्रे कनकघटितं षड्रसं श्रीरमेशः ॥ ३॥ नायिकाष्टकयुक्तोऽत्र भोजनं कुरु माधव । षड्रसामृतनैवेद्यं स्वर्णपात्रे समर्पितम् ॥ ४॥ यथा त्वं गोपिकादीनां निजानन्दं प्रयच्छसि । तथैव भुक्तान्नशिष्टं भक्तेभ्यो यच्छ पुष्कलम् ॥ ५॥ ब्रह्माद्याः सनकाद्याश्च नारदाद्या महत्तमम् । हरिभुक्तावशिष्टान्नं सर्वे गृह्णन्ति वैष्णवाः ॥ ६॥ इति श्रीनैवेद्यसमर्पणप्रार्थना समाप्ता ।