अक्षर आकार:

श्रीकृष्णस्तोत्रं श्रीनारदरचितम्

nArada rachita kRiShNastotra

श्रीकृष्णस्तोत्रं श्रीनारदरचितम्

श्री गणेशाय नमः । वन्दे नवघनश्यामं पीतकौशेयवाससम् । सानन्दं सुन्दरं शुद्धं श्रीकृष्णं प्रकृतेः परम् ॥ १॥ राधेशं राधिकाप्राणवल्लभं बल्लवीसुतम् । राधासेवितपादाब्जं राधावक्षःस्थलस्थितम् ॥ २॥ राधानुगं राधिकेष्टं राधापहृतमानसम् । राधाधारं भवाधारं सर्वाधारं नमामि तम् ॥ ३॥ राधाहृत्पद्ममध्ये च वसन्तं सन्ततं शुभम् । राधासहचरं शश्वद्राधाज्ञापरिपालकम् ॥ ४॥ ध्यायन्ते योगिनो योगान् सिद्धाः सिद्धेश्वराश्च यम् । तं ध्यायेत् सततं शुद्धं भगवन्तं सनातनम् ॥ ५॥ सेवन्ते सततं सन्तो ब्रह्मेशशेषसज्ञकाः । सेवन्ते निर्गुणं ब्रह्म भगवन्तं सनातनम् ॥ ६॥ निर्लिप्तं च निरीहं च परमात्मानमीश्वरम् । नित्यं सत्यं च परमं भगवन्तं सनातनम् ॥ ७॥ यं सृष्टेरादिभूतं च सर्वबीजं परात्परम् । योगिनस्तं प्रपद्यन्ते भगवन्तं सनातनम् ॥ ८॥ बीजं नानावताराणां सर्वकारणकारणम् । वेदावेद्यं वेदबीजं वेदकारणकारणम् ॥ ९॥ योगिनस्तं प्रपद्यन्ते भगवन्तं सनातनम् । इत्येवमुक्त्वा गन्धर्वः पपात धरणीतले ॥ १०॥ नमाम दण्डवद् भूमौ देवदेवं परात्परम् । इति तेन कृतं स्तोत्रं यः पठेत् प्रयतः शुचिः ॥ ११॥ इहैव जीवन्मुक्तश्च परं याति परां गतिम् । हरिभक्तिं हरेर्दास्यं गोलोके च निरामयः ॥ १२॥ पार्षदप्रवरत्वं च लभते नाऽत्र संशयः ॥ १३॥ ॥ इति नारदपञ्चरात्रे कृष्णस्तोत्रं सम्पूर्णम् ॥