अक्षर आकार:

नारायणवर्म

nArAyaNavarma

नारायणवर्म

श्री गणेशाय नमः । राजोवाच । यया गुप्तः सहस्राक्षः सवाहान् रिपुसैनिकान् । क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम् ॥ १॥ भगवंस्तन्ममाख्याहि वर्म नारायणात्मकम् । यथाततायिनः शत्रून येन गुप्तोऽजयन्मृधे ॥ २॥ श्रीशुक उवाच । वृतः पुरोहितस्त्वाष्ट्रो महेन्द्रायानुपृच्छते । नारायणाख्यं वर्माह तदिहैकमनाः श‍ृणु ॥ ३॥ श्रीविश्वरूप उवाच । धौतांघ्रिपाणिराचम्य सपवित्र उदङ्मुखः । कृतस्वाङ्गकरन्यासो मन्त्राभ्यां वाग्यतः शुचिः ॥ ४॥ नारायणमयं वर्म सन्नह्येद्भय आगते । दैवभूतात्मकर्मभ्यो नारायणमयः पुमान ॥ ५॥ पादयोर्जानुनोरूर्वोरुदरे हृद्यथोरसि । मुखे शिरस्यानुपूर्व्यादोङ्कारादीनि विन्यसेत् ॥ ६॥ ॐ नमो नारायणायेति विपर्ययमथापि वा । करन्यासं ततः कुर्याद्द्वादशाक्षरविद्यया ॥ ७॥ प्रणवादियकारान्तमङ्गुल्यङ्गुष्ठपर्वसु । न्यसेद्धृदय ॐकारं विकारमनुमूर्धनि ॥ ८॥ षकारं तु भ्रुवोर्मध्ये णकारं शिखया न्यसेत् । वेकारं नेत्रयोर्युंज्यान्नकारं सर्वसन्धिषु ॥ ९॥ मकारमस्त्रुमुद्दिश्य मन्त्रमूर्तिर्भवेद्बुधः । सर्विसर्गं फडन्तं तत्सर्वदिक्षु विनिर्दिशेत् ॥ १०॥ ॐ विष्णवे नमः । इत्यात्मानं परं ध्यायेद्ध्येयं षट्शक्तिभिर्युतम् । विद्यातेजस्तपोर्मूतिमिमं मन्त्रमुदाहरेत् ॥ ११॥ ॐ हरिर्विदध्यान्मम सर्वरक्षां न्यस्तांघ्रिपद्मः पतगेन्द्रपृष्ठे । दरारिचर्मासिगदेषुचापपाशान्दधानोऽष्टगुणोऽष्टबाहुः ॥ १२॥ जलेषु मां रक्षतु मत्स्यमूर्तिर्यादोगणेभ्यो वरुणस्य पाशात् । स्थलेषु मायाबटुवामनोऽव्यात् त्रिविक्रमः खेऽवतु विश्वरूपः ॥ १३॥ दुर्गेष्वटव्याजिमुखादिषु प्रभुः पायान्नृसिंहोऽसुरयूथपारिः । विमुञ्चतो यस्य महाट्टहासं दिशो विनेदुर्न्यपतंश्च गर्भाः ॥ १४॥ रक्षत्वसौ माऽध्वनि यज्ञकल्पः स्वदंष्ट्रयोन्नीतधरो वराहः । रामोऽद्रिकूटेष्वथ विप्रवासे सलक्ष्मणोऽव्याद्भरताग्रजो माम् ॥ १५॥ मामुग्रधर्मादखिलात्प्रमादान्नारायणः पातु नरश्च हासात् । दत्तस्त्वयोगादथ योगनाथः पायाद्गुणेशः कपिलः कर्मबन्धात् ॥ १६॥ सनत्कुमारोऽवतु कामदेवाद्धयग्रीवो मां पथि देवहेलनात् । देवर्षिवर्यः पुरुषार्चनान्तरात्कूर्मो हरिर्मां निरयादशेषात् ॥ १७॥ धन्वन्तरिर्भगवान्पात्वपथ्याद्वन्द्वाद्भयादृषभो निर्जितात्मा । यज्ञश्च लोकादवताज्जनान्ताद्बलो गणात्क्रोधवशादहीन्द्रः ॥ १८॥ द्वैपायनो भगवानप्रबोधाद्बुद्धस्तु पाषण्डगणात्प्रमादात् । काल्किः कलेः कालमलात्प्रपातु धर्मावनायोरुकृतावतारः ॥ १९॥ मां केशवो गदया प्रातरव्याद्गोविन्द आसङ्गव आत्तवेणुः । नारायणः प्राह्ण उदात्तशक्तिर्मध्यन्दिने विष्णुररीन्द्रपाणिः ॥ २०॥ देवोऽपराह्णे मधुहोग्रधन्वा सायन्त्रिधामाऽवतु माधवो माम् । दोषे हृषीकेश उतार्धरात्रे निशीथ एकोऽवतु पद्मनाभः ॥ २१॥ श्रीवत्सधामाऽपररात्र ईशः प्रत्युष ईशोऽसिधरो जनार्दनः । दामोदरोऽव्यादनुसन्ध्यं प्रभाते विश्वेश्वरो भगवान्कालमूर्तिः ॥ २२॥ चक्रं युगान्तानलतिग्मनेमि भ्रमत्समन्ताद्भगवत्प्रयुक्तम् । दन्दग्धि दन्दग्ध्यरिसैन्यमाशु कक्षं यथा वातसखो हुताशः ॥ २३॥ गदेऽशनिस्पर्शनविस्फुलिङ्गे निष्पिण्ढि निष्पिण्ढ्यजितप्रियासि । कूष्माण्डवैनायकयक्षरक्षोभूतग्रहांश्चूर्णय चूर्णयारीन् ॥ २४॥ त्वं यातुधानप्रमथप्रेतमातृपिशाचविप्रग्रहघोरदृष्टीन् । नरेन्द्र विद्रावय कृष्णपूरितो भीमस्वनोऽरेर्हृदयानि कम्पयन् ॥ २५॥ त्वं तिग्मधारासिवरारिसैन्यमीशप्रयुक्तो मम छिन्धि छिन्धि । चक्षूंषि चर्मन् शतचन्द्र छादय द्विषामघानां हर पापचक्षुषाम् ॥ २६॥ यन्नो भयं ग्रहेभ्योऽभूत्केतुभ्यो नृभ्य एव च । सरीसृपेभ्यो दंष्ट्रिभ्य भूतेभ्योऽघेभ्य एव च ॥ २७॥ सर्वाण्येतानि भगवन्नामरूपास्रकीर्तनात् । प्रयांतु संक्षयं सद्यो येऽन्ये श्रेयःप्रतीपकाः ॥ २८॥ गरुडो भगवांस्तोत्रस्तोमश्छन्दोमयः प्रभुः । रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेनः स्वनामभिः ॥ २९॥ सर्वापद्भ्यो हरेर्नामरूपयानायुधानि नः । बुद्धीन्द्रियमनःप्राणान् पान्तु पार्षदभूषणाः ॥ ३०॥ यथा हि भगवानेव वस्तुतः सदसच्च यत् । सत्येनानेन नः सर्वे यान्तु नाशमुपद्रवाः ॥ ३१॥ यथैकात्म्यानुभावानां विकल्परहितः स्वयम् । भूषणायुधलिङ्गाख्या धत्ते शक्तीः स्वमायया ॥ ३२॥ तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः । पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः ॥ ३३॥ विदिक्षु दिक्षूर्घ्वमधः समन्तादन्तर्बहिर्भगवान्नारसिंहः । प्रहापयँल्लोकभयं स्वनेन स्वतेजसा ग्रस्तसमस्ततेजाः ॥ ३४॥ मघवन्निदमाख्यातं वर्म नारायणात्मकम् । विजेष्यस्यञ्जसा येन दंशितोऽसुरयूथपान् ॥ ३५॥ एतद्धारयमाणस्तु यं यं पश्यति चक्षुषा । पदा वा संस्पृशेत्सद्यः साध्वसात्स विमुच्यते ॥ ३६॥ न कुतश्चिद्भयं तस्य विद्यां धारयतो भवेत् । राजदस्युग्रहादिभ्यो व्याध्यादिभ्यश्च कर्हिचित् ॥ ३७॥ इमां विद्यां पुरा कश्चित्कौशिको धारयन् द्विजः । योगधारणया स्वाङ्गं जहौ स मरुधन्वनि ॥ ३८॥ तस्योपरि विमानेन गन्धर्वपतिरेकदा । ययौ चित्ररथः स्त्रीभिर्वृतो यत्र द्विजक्षयः ॥ ३९॥ गगनान्न्यपतत्सद्यः सविमानो ह्यवाक्षिराः । स वालखिल्यवचनादस्थीन्यादाय विस्मितः ॥ ४०॥ प्रास्य प्राचीसरस्वत्यां स्नात्वा धाम स्वमन्वगात् । य इदं श‍ृणुयात्काले यो धारयति चादृतः ॥ तं नमस्यन्ति भूतानि मुच्यते सर्वतोभयात् ॥ ४१॥ श्रीशुक उवाच । एतां विद्यामधिगतो विश्वरूपाच्छक्रतुः । त्रैलोक्यलक्ष्मीं बुभुजे विनिर्जित्य मृघेऽसुरान् ॥ ४२॥ । इति श्रीमद्भागवते महापुराणे षष्ठस्कन्धेऽष्टमेऽध्याये नारायणवर्मस्तोत्रं सम्पूर्णम् ।