अक्षर आकार:

श्रीनृसिंहाष्टोत्तरशतनामस्तोत्रम् २

shrInRisinhAShTottarashatanAmastotram 2

श्रीनृसिंहाष्टोत्तरशतनामस्तोत्रम् २

॥ श्रीः ॥ । रुद्राद्या ऊचुः । ॐ नमो नारसिंहाय तीक्ष्ण-दंष्ट्राय ते नमः । नमो वज्र-नखायैव विष्णवे जिष्णवे नमः ॥ १॥ सर्वबीजाय सत्याय सर्वचैतन्य-रूपिणे । सर्वाधाराय सर्वस्मै सर्वगाय नमो नमः ॥ २॥ विश्वस्मै विश्ववन्द्याय विरिञ्चि-जनकाय च । वागीश्वराय वेद्याय वेधसे वेदमौलये ॥ ३॥ नमो रुद्राय भद्राय मङ्गलाय महात्मने । करुणाय तुरीयाय शिवाय परमात्मने ॥ ४॥ हिरण्यकशिपु-प्राण-हरणाय नमो नमः । प्र्ह्लाद-ध्यायमानाय प्रह्लादार्ति-हराय च ॥ ५॥ प्रह्लाद-स्थिरसाम्राज्य-दायकाय नमो नमः । दैत्य-वक्षोविदलन-व्यग्र-वज्रनखाय च ॥ ६॥ आन्त्रमाला-विभूषाय महारौद्राय ते नमः । नम उग्राय वीराय ज्वलते भीषणाय च ॥ ७॥ सर्वतोमुख-दुर्वार-तेजो-विक्रमशालिने । नरसिंहाय रौद्राय नमस्ते मृत्युमृत्यवे ॥ ८॥ मत्स्याद्यनन्त-कल्याण-लीला-वैभवकारिणे । नमो व्यूहचतुष्काय दिव्यार्चा-रूपधारिणे ॥ ९॥ परस्मै पाञ्चजन्यादि-पञ्च-दिव्यायुधाय च । त्रिसाम्ने च त्रिधाम्ने च त्रिगुणातीत-मूर्तये ॥ १०॥ योगारूढाय लक्ष्याय मायातीताय मायिने । मन्त्रराजाय दुर्दोष-शमनायेष्टदाय च ॥ ११॥ नमः किरीट-हारादि-दिव्याभरण-धारिणे । सर्वालङ्कार-युक्ताय लक्ष्मीलोलाय ते नमः ॥ १२॥ आकण्ठ-हरिरूपाय चाकण्ठ-नररूपिणे । चित्राय चित्ररूपाय जगच्चित्रतराय च ॥ १३॥ सर्व-वेदान्त-सिद्धान्त-सारसत्तमयाय च । सर्व-मन्त्राधिदेवाय स्तम्भ-डिम्भाय शंभवे ॥ १४॥ नमोऽस्त्वनन्त-कल्याणगुण-रत्नाकराय च । भगवच्छब्द-वाच्याय वागतीताय ते नमः ॥ १५॥ कालरूपाय कल्याय सर्वज्ञायाघहारिणे । गुरवे सर्वसत्कर्म-फलदाय नमो नमः ॥ १६॥ अशेष-दोषदूराय सुवर्णायात्मदर्शिने । वैकुण्ठपद-नाथाय नमो नारायणाय च ॥ १७॥ केशवादि-चतुर्विंशत्यवतार-स्वरूपिणे । जीवेशाय स्वतन्त्राय मृगेन्द्राय नमो नमः ॥ १८॥ बर्ह्मराक्षस-भूतादि-नानाभय-विनाशिने । अखण्डानन्द-रूपाय नमस्ते मन्त्रमूर्तये ॥ १९॥ सिद्धये सिद्धिबीजाय सर्वदेवात्मकाय च । सर्व-प्रपञ्च-जन्मादि-निमित्ताय नमो नमः ॥ २०॥ शङ्कराय शरण्याय नमस्ते शास्त्रयोनये । ज्योतिषे जीवरूपाय निर्भेदाय नमो नमः ॥ २१॥ नित्यभागवताराध्य सत्यलीला-विभूतये । नरकेसरिताव्यक्त-सदसन्मय-मूर्तये ॥ २२॥ सत्तामात्र-स्वरूपाय स्वाधिष्ठानात्मकाय च । संशयग्रन्थि-भेदाय सम्यग्ज्ञान-स्वरूपिणे ॥ २३॥ सर्वोत्तमोत्तमेशाय पुराण-पुरुषाय च । पुरुषोत्तमरूपाय साष्टाङ्गं प्रणतोऽस्म्यहम् ॥ २४॥ नाम्नामष्टोत्तरशतं श्रीनृसिंहस्य यः पटेत् । सर्वपाप-विनिर्मुक्तः सर्वेष्टार्थानवाप्नुयात् ॥ २५॥ ॥ इति श्रीब्रह्माण्डपुराणे नृसिंहाष्टोत्तर-शतनाम-स्तोत्रं संपूर्णम् ॥