अक्षर आकार:

श्रीनृसिंहाष्टोत्तरशतनामावलिः ४

Shri Nrisimha Ashtottarashata NamavaliH 4

श्रीनृसिंहाष्टोत्तरशतनामावलिः ४

ॐ नारसिंहाय नमः । ॐ महासिंहाय नमः । ॐ दिव्यसिंहाय नमः । ॐ महाबलाय नमः । ॐ उग्रसिंहाय नमः । ॐ महादेवाय नमः । ॐ स्तम्भजाय नमः । ॐ उग्रलोचनाय नमः । ॐ रौद्राय नमः । ॐ सर्वाद्भुताय नमः । १० ॐ श्रीमते नमः । ॐ योगानन्दाय नमः । ॐ त्रिविक्रमाय नमः । ॐ हरिये नमः । ॐ कोलाहलाय नमः । ॐ चक्रिणे नमः । ॐ विजयाय नमः । ॐ जयवर्धनाय नमः । ॐ पञ्चाननाय नमः । ॐ परस्मै ब्रह्मणे नमः । २० ॐ अघोराय नमः । २० ॐ घोरविक्रमाय नमः । ॐ ज्वलन्मुखाय नमः । ॐ ज्वालामालिने नमः । ॐ महाज्वालाय नमः । ॐ महाप्रभवे नमः । ॐ निटिलाक्षाय नमः । ॐ सहस्राक्षाय नमः । ॐ दुर्निरीक्षाय नमः । ॐ प्रतापनाय नमः । ३० ॐ महादंष्ट्रायुधाय नमः । ॐ प्राज्ञाय नमः । ॐ चण्डकोपिने नमः । ॐ सदाशिवाय नमः । ॐ हिरण्यकशिपुध्वंसिने नमः । ॐ दैत्यदानवभञ्जनाय नमः । ॐ गुणभद्राय नमः । ॐ महाभद्राय नमः । ॐ बलभद्राय नमः । ॐ सुभद्रकाय नमः । ४० ॐ करालाय नमः । ॐ विकरालाय नमः । ॐ विकर्त्रे नमः । ॐ सर्वकर्तृकाय नमः । ॐ शिंशुमाराय नमः । ॐ त्रिलोकात्मने नमः । ॐ ईशाय नमः । ॐ सर्वेश्वराय नमः । ॐ विभवे नमः । ॐ भैरवाडम्बराय नमः । ५० ॐ दिव्याय नमः । ॐ अच्युताय नमः । ॐ कविमाधवाय नमः । ॐ अधोक्षजाय नमः । ॐ अक्षराय नमः । ॐ शर्वाय नमः । ॐ वनमालिने नमः । ॐ वरप्रदाय नमः । ॐ विश्वम्भराय नमः । ॐ अद्भुताय नमः । ६० ॐ भव्याय नमः । ॐ श्रीविष्णवे नमः । ॐ पुरुषोत्तमाय नमः । ॐ अनघास्त्राय नमः । ॐ नखास्त्राय नमः । ॐ सूर्यज्योतिषे नमः । ॐ सुरेश्वराय नमः । ॐ सहस्रबाहवे नमः । ॐ सर्वज्ञाय नमः । ॐ सर्वसिद्धिप्रदायकाय नमः । ७० ॐ वज्रदंष्ट्राय नमः । ॐ वज्रनखाय नमः । ॐ महानन्दाय नमः । ॐ परन्तपाय नमः । ॐ सर्वमन्त्रैकरूपाय नमः । ॐ सर्वयन्त्रविधारणाय नमः । ॐ सर्वतन्त्रात्मकाय नमः । ॐ अव्यक्ताय नमः । ॐ सुव्यक्ताय नमः । ॐ भक्तवत्सलाय नमः । ८० ॐ वैशाखशुक्लभूतोत्थाय नमः । ॐ शरणागतवत्सलाय नमः । ॐ उदारकीर्तये नमः । ॐ पुण्यात्मने नमः । ॐ महात्मने नमः । ॐ चण्डविक्रमाय नमः । ॐ वेदत्रयप्रपूज्याय नमः । ॐ भगवते नमः । ॐ परमेश्वराय नमः । ॐ श्रीवत्साङ्काय नमः । ९० ॐ श्रीनिवासाय नमः । ॐ जगद्व्यापिने नमः । ॐ जगन्मयाय नमः । ॐ जगत्वालाय नमः । ॐ जगन्नाथाय नमः । ॐ महाकायाय नमः । ॐ द्विरूपभृते नमः । ॐ परमात्मने नमः । ॐ परस्मै ज्योतिषे नमः । ॐ निर्गुणाय नमः । १०० ॐ नृकेसरीणे नमः । ॐ परतत्त्वाय नमः । ॐ परन्धाम्ने नमः । ॐ सच्चिदानन्दविग्रहाय नमः । ॐ लक्ष्मीनृसिंहाय नमः । ॐ सर्वात्मने नमः । ॐ धीराय नमः । ॐ प्रह्लादपालकाय नमः । १०८ इति श्रीनृसिंहाष्टोत्तरशतनामावलिः (४) समाप्ता ॥