अक्षर आकार:

श्रीशनैश्चरकृता श्रीनृसिंहस्तुतिः

Shri Shanaishcharakrita Shri Nrisimhastuti

श्रीशनैश्चरकृता श्रीनृसिंहस्तुतिः

सुलभो भक्तियुक्तानां दुर्दर्शो दुष्टचेतसाम् । अनन्यगतिकानां च प्रभुर्भक्तैक वत्सलः ॥ १॥ शनैश्चरस्तत्र नृसिंहदेवस्तुतिं चकारामल चित्तवृत्तिः । प्रणम्य साष्टाङ्गमशेषलोक किरीट नीराजित पादपद्मम् ॥ २॥ श्रीशनिरुवाच - यत्पादपङ्कजरजः परमादरेण संसेवितं सकलकल्मष राशिनाशम् । कल्याणकारकमशेशनिजानुगानां स त्वं नृसिंह मयि देहि कृपावलोकम् ॥ ३॥ सर्वत्र चञ्चलतया स्थितया हि लक्ष्म्या ब्रह्मादिवन्द्यपदया स्थिरयान्य सेवि । पादारविन्दयुगलं परमादरेण स त्वं नृसिंह मयि देहि कृपावलोकम् ॥ ४॥ यद्रूपमागमशिरः प्रतिपाद्यमाद्यं आध्यात्मिकादि परितापहरं विचिन्त्यम् । योगीश्वरैरपगताखिल दोष सङ्घैः स त्वं नृसिंह मयि देहि कृपावलोकम् ॥ ५॥ प्रह्लाद भक्तवचसा हरिराविरास स्तम्भे हिरण्यकशिपुं य उदारभावः । उर्वो निधाय उदरं नखरैर्ददार स त्वं नृसिंह मयि देहि कृपावलोकम् ॥ ६॥ यो नैजभक्तमनलां बुधि भूधरोग्र- श‍ृङ्गप्रपात विषदन्ति सरीसृपेभ्यः । सर्वात्मकः परमकारुणिको ररक्ष स त्वं नृसिंह मयि देहि कृपावलोकम् ॥ ७॥ यन्निर्विकार पररूप विचिन्तनेन योगीश्वरा विषयवीत समस्तरागाः । विश्रान्तिमापुर विनाशवतीं पराख्यां स त्वं नृसिंह मयि देहि कृपावलोकम् ॥ ८॥ यद्रूपमुग्र परिमर्दन भावशालि सञ्चिन्तनेन सकलाघ विनाशकारी । भूतज्वरग्रहसमुद्भवभीतिनाशं स त्वं नृसिंह मयि देहि कृपावलोकम् ॥ ९॥ यस्योत्तमं यश उमापति पद्मजन्म शक्रादि दैवत सभासु समस्तगीतम् । शक्त्यैव सर्वशमल प्रशमैक दक्षं स त्वं नृसिंह मयि देहि कृपावलोकम् ॥ १०॥ इत्थं श्रुत्वा स्तुतिं देवः शनिना कल्पितां हरिः । उवाच ब्रह्मवृन्दस्थं शनिं तं भक्तवत्सलः ॥ ११॥ श्रीनृसिंह उवाच - प्रसन्नोऽहं शने तुभ्यं वरं वरय शोभनम् । यं वाञ्छसि तमेव त्वं सर्वलोकहितावहम् ॥ १२॥ श्रीशनिरुवाच - नृसिंह त्वं मयि कृपां कुरु देव दयानिधे । मद्वासरस्तव प्रीतिकरः स्याद्देवतापते ॥ १३॥ मत्कृतं त्वत्परं स्तोत्रं श‍ृण्वन्ति च पठन्ति च । सर्वान्कामान्पूरयेथाः तेषां त्वं लोकभावन ॥ १४॥ श्रीनृसिंह उवाच - तथैवास्तु शनेऽहं वै रक्षोभुवनसंस्थितः । भक्त कामान्पूरयिष्ये त्वं ममैकं वचः श‍ृणु ॥ १५॥ त्वत्कृतं मत्परं स्तोत्रं यः पठेच्छृणुयाच्च यः । द्वादशाष्टम जन्मस्थात् त्वद्भयं मास्तु तस्य वै ॥ १६॥ शनिर्नरहरिं देवं तथेति प्रत्युवाच ह । ततः परमसन्तुष्टाः जयेति मुनयोवदन् ॥ १७॥ श्रीकृष्ण उवाच - इदं शनैश्चरस्याथ नृसिंहदेव संवादमेतत् स्तवनं च मानवः । श‍ृणोति यः श्रावयते च भक्त्या सर्वाण्यभीष्टानि च विन्दते ध्रुवम् ॥ १८॥ इति श्रीशनैश्चरविरचिता श्रीनृसिंहस्तुतिः समाप्ता ।