अक्षर आकार:

श्रीनृसिंहस्तुतिः

Shri Nrisimhastutih

श्रीनृसिंहस्तुतिः

ॐ श्री नृसिंहः केशवः सौरी गोविन्दो गरुडध्वजः । माधवश्चक्रपाणिश्च विष्वक्सेनो हलायुधः ॥ १॥ शाश्वतः शङ्करः शूली हयग्रीवोच्युताग्रजः । डमरुशूलहस्त्यैश्च नागाभरणभूषितः ॥ २॥ कृपयानन्दसम्पूर्णौ वृषाख्यो वृषभध्वजः । नारायणः परं ज्योतिः सुज्योतिर्ज्योतिषां पतिः ॥ ३॥ स्वाहाकारः स्वधाकारो वषट्कारः कृपाकरः । नररूपोऽथ सिंहश्च षोडषायुधधारिणः ॥ ४॥ शुक्तिकर्णौ विरूपाक्षो नखायुधविभूषणः । दंष्ट्राकरालमत्युग्रः श्रीशः श्रीधरशाश्वतः ॥ ५॥ नीलो नीलस्युरागिनश्च शुन्यमाकशभूध्रुतः । त्वं ज्योतिर्ब्रह्मैन्द्रश्च विष्णुरीशं परं गुरुः ॥ ६॥ इति श्रीनृसिंहस्तुतिः समाप्ता ।