अक्षर आकार:

श्रीनृसिंहसप्तकम्

Shri Nrisimhasaptakam

श्रीनृसिंहसप्तकम्

अद्वैतवास्तवमतेः प्रणमज्जनानां सम्पादनाय धृतमानवसिंहरूपम् । प्रह्लादपोषणरतं प्रणतैकवश्यं देवं मुदा कमपि नौमि कृपासमुद्रम् ॥ १॥ नतजनवचनऋतत्वप्रकाशकालस्य दैर्घ्यमसहिष्णुः । आविर्बभूव तरसा यः स्तम्भान्नौमि तं महाविष्णुम् ॥ २॥ वक्षोविदारणं यश्चक्रे हार्दं तमो हन्तुम् । शत्रोरपि करुणाब्धिं नरहरिवपुषं नमामि तं विष्णुम् ॥ ३॥ रिपुहृदयस्थितराजसगुणमेवासृङ्मिषेण करजाग्रैः । धत्ते यस्तं वन्दे प्रह्लादपूर्वभाग्यनिचयमहम् ॥ ४॥ प्रह्लादं प्रणमज्जनपङ्क्तेः कुर्वन्ति दिविषदो ह्यन्ये । प्रह्लादप्रह्लादं चित्रं कुरुते नमामि यस्तमहम् ॥ ५॥ शरदिन्दुकुन्दधवलं करजप्रविदारितासुराधीशम् । चरणाम्बुजरतवाक्यं तरसैव ऋतं प्रकुर्वदहमीडे ॥ ६॥ मुखेन रौद्रो वपुषा च सौम्यः सन्कञ्चनार्थं प्रकटीकरोषि । भयस्य कर्ता भयहृत्त्वमेवेत्याख्याप्रसिद्धिर्यदसंशयाऽभूत् ॥ ७॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितं श्रीनृसिंहसप्तकं सम्पूर्णम् ।