श्रीनृसिंहप्रपत्ति
माता नृसिंहः पिता नृसिंहः ।
भ्राता नृसिंहः सखा नृसिंहः ॥
विद्या नृसिंहः द्रविणं नृसिंहः ।
स्वामी नृसिंहः सकलं नृसिंहः ॥
इतो नृसिंहः परतो नृसिंहः ।
यतो नृसिंहस्ततो नृसिंहः ॥
नृसिंहदेवात्परो न कश्चित् ।
तस्मान्नृसिंहं शरणं प्रपद्ये ॥
इति श्रीनृसिंहप्रपत्तिः समाप्ता ।
ahobila maTha prArthanA
सोशल मीडिया पर शेयर करें:
सहेजें एवं डाउनलोड करें (Save & Export):