अक्षर आकार:

अपमृत्युहरं श्रीनृसिंहकवचम्

Shri Nrisimha Kavacham

अपमृत्युहरं श्रीनृसिंहकवचम्

श्रीगणेशायनमः । अथापरं प्रवक्ष्यामि ह्यल्पमृत्यु हरंपरम् । उपायं यत्कृतेनाङ्ग शीघ्रं मृत्युर्निवर्तते ॥ १॥ नृसिंहकवचं नाम स्तोत्रं परमदुर्लभम् । यस्य धारणया क्षिप्रमल्पमृत्युर्विनश्यति ॥ २॥ अरुण उवाच - भगवन्देवदेवेश कृपया परयाऽधुना । नृसिंहकवचं दिव्यं गुह्यं भक्ताय मे वद ॥ ३॥ सूर्य उवाच - श‍ृणु पुत्र प्रवक्ष्यामि नृसिंहकवचं शुभम् । यस्य विज्ञानमात्रेण नश्यन्ति सकलापदः ॥ ४॥ ग्रहबाधा प्रेतबाधा बाधा या कुलदोषजा । कृत्यया जनिता बाधा शत्रुबाधा स्वकर्मजा ॥ ५॥ शीघ्रं नश्यन्ति ताः सर्वाः कवचस्य प्रभावतः । असाध्या ये च दुस्साध्या महारोगा भयङ्कराः ॥ ६॥ सद्यो नश्यन्ति पठनात्कवचस्यास्य सारथे । जलभीतिश्चाग्निभीतिर्भीतिः शत्रुगणादपि ॥ ७॥ सिंहव्याघ्रादिजा भीतिः शीघ्रं सर्वा विनश्यति । सङ्ग्रामे दुर्गमेऽरण्ये सङ्कटे प्राणसंशये ॥ ८॥ पठतो विजयो रक्षा सुखं सौभाग्यसम्पदः । पुत्रसौख्यं राजसौख्यं धनसौख्यमृणक्षयः ॥ ९॥ कुटुम्बवृद्धिः कल्याणमारोग्यं विजयः सदा । अल्पमृत्युभयं घोरं पाठादस्य विनश्यति ॥ १०॥ अल्पमृत्युहरश्चात उपायो न परः स्मृतः । अल्पमृत्युहरं नाम कवचं चेदमुत्तमम् ॥ ११॥ सिंहप्रणादान्मत्तोऽपि गजेन्द्रस्तु पलायते । अल्पमृत्युस्तथा चास्य पाठात्सद्यो निरस्यते ॥ १२॥ सहस्रपञ्चकावृतिं पठेद्यः सुसमाहितः । अल्पमृत्युभयं तस्य प्रभवेन्नैव कर्हिचित् ॥ १३॥ अथ पाठः - नृसिंहो मे शिरः पातु पातु भालं नृकेसरी । भ्रुवौ नृसिंहो मे पातु नृसिंहो नयनद्वयम् ॥ १४॥ नृसिंहो नासिके पातु कर्णौ पातु नृकेसरी । नृसिंहो मे मुखं पातु कपोलौ रक्षताद्धरिः ॥ १५॥ नृसिंहश्चिबुकं रक्षेत्कण्ठं पातु नृकेसरी । स्कन्धौ पातु नृसिंहो मे भुजौ पातु नृकेसरी ॥ १६॥ करद्वयं नृसिंहोऽव्यान्नृसिंहो रक्षतादुरः । नृसिंहो हृदयं पातु नृसिंहोऽव्यात्तथोदरम् ॥ १७॥ कुक्षिं नरहरिः पातु नाभिं पातु नृकेसरी । बस्तिं च गुह्यदेशं च नृसिंहोऽव्यात्सदा मम ॥ १८॥ नृसिंहो जानुनी पातु जङ्घे पातु नृकेसरी । पादौ गुल्फौ सदा पातु नृसिंहो मम रक्षकः ॥ १९॥ अग्रतः पृष्ठतो मेऽव्यात्तथा पार्श्वद्वयं सदा । नृसिंहः सर्वगात्राणि मम रक्षतु सर्वदा ॥ २०॥ नृसिंहो रक्षतात्पूर्वे वह्निकोणे नृकेसरी । नैरृत्यां नरसिंहोऽव्यानृसिंहः पातु पश्चिमे ॥ २१॥ नृसिंहो वायुकोणेऽव्यादुत्तरेऽव्यान्नृकेसरी । नृसिंहोऽव्यात्तथेशाने ह्यध ऊर्ध्वं समन्ततः ॥ २२॥ जले सदा रक्षतु मां नृसिंहः स्थलेषु मां पातु सदा नृसिंहः । नभस्तले भूमितले समन्तानृकेसरी रक्षतु सर्वदा माम् ॥ २३॥ दुर्गाध्वदुर्गभवनेषु च सङ्कटेषु प्राणप्रयाणभयविघ्नसमुच्चयेषु । शीतोष्णवातरिपुरोगभयेषु युद्धे सङ्कष्टनाशनपरोऽवतु मां नृसिंहः ॥ २४॥ छिनत्तु चक्रेण सदाऽरिवर्गान्सर्वान्नृसिंहो मम मृत्युरूपान् । असाध्यदुस्साध्यसमस्तरोगान्भिन्द्यान्नृसिंहः स्वगदाभिघातैः ॥ २५॥ प्रेतान्पिशाचान्सगणान्स्वनेन शङ्खस्य विद्रावयतान्नृसिंहः । कूष्माण्डबालग्रहयक्षरक्षः स डाकिनीः शाकिनिकाः समस्ताः ॥ २६॥ खड्गेन मे मृत्युनिसर्गपाशं सञ्छिद्य मां पातु सदा नृसिंहः । सदाऽपमृत्योश्च तथाऽल्पमृत्योर्विमोच्य मां रक्षतुनारसिंहः ॥ २७॥ भक्तसंरक्षणार्थाय विदार्यस्तम्भमुद्गतः । नृसिंहो रक्षकः सोऽस्तु मृत्युः किं में करिष्यति ॥ २८॥ अट्टाट्टहासतो यस्य सर्वे देवाश्चकम्पिरे । नृसिंहो रक्षकः सोऽस्तु मृत्युः किं मे करिष्यति ॥ २९॥ हिरण्यकशिपोर्वक्षो ददारनिशितैर्नखैः । नृसिंहो रक्षकः सोऽस्तु मृत्युः किं मे करिष्यति ॥ ३०॥ यस्य भ्रूभङ्गमात्रेण त्रस्तमासीज्जगत्त्रयम् । नृसिंहो रक्षकः सोऽस्तु मृत्युः किं मे करिष्यति ॥ ३१॥ उत्क्षिप्तसटया व्यग्रा देवा दैत्या विदुद्रुवुः । नृसिंहो रक्षकः सोऽस्तु मृत्युः किं मे करिष्यति ॥ ३२॥ यन्नामस्मरणादेव दह्यन्ते विघ्नराशयः । नृसिंहो रक्षकः सोऽस्तु मृत्युः किं मे करिष्यति ॥ ३३॥ यदङ्घ्रिघ्यानतःसद्यो विलीयन्तेऽघराशयः । नृसिंहो रक्षकः सोऽस्तु मृत्युः किं मे करिष्यति ॥ ३४॥ माता नृसिंहश्च पिता नृसिंहो भ्राता नृसिंहश्च सखा नृसिंहः । बलं नृसिंहो द्रविणं नृसिंहः सर्वं नृसिंहो मम देवदेवः ॥ ३५॥ इति ते कथितं पुत्र नृसिंहकवचं शुभम् । अस्य धारणतः पाठादल्पमृत्युः प्रशाम्यति ॥ ३६॥ शतं वाऽथ तदर्धं वा तदर्धं वा सदक्षिणम् । विप्रेभ्यः पुस्तकं दद्यादल्पमृत्युप्रशान्तये ॥ ३७॥ इति श्रीसूर्यारुणसंवादे अपमृत्युहरं नृसिंहकवचं समाप्तम् ॥ ॥ ॐ तत्सत्परमात्मनेनमः ॥