नृसिंहकवचं ब्रह्मसंहितायाम्
नारद उवाच इन्द्रादिदेव वृन्देश तातेश्वर जगत्पते । महाविष्णोर्नृसिंहस्य कवचं ब्रुहि मे प्रभो यस्य प्रपठनाद् विद्वान् त्रैलोक्यविजयी भवेत् ॥ १॥ ब्रह्मोवाच शृणु नारद वक्ष्यामि पुत्रश्रेष्ठ तपोघन(तपोधन) । कवचं नरसिंहस्य त्रैलोक्यविजयाभिधम् ॥ २॥ यस्य प्रपठनाद् वाग्मी त्रैलोक्यविजयी भवेत् । स्रष्ठाऽहं जगतां वत्स पठनाद्धारणाद् यतः ॥ ३॥ लक्ष्मीर्जगत्त्रयम् पाति संहर्ता च महेश्वरः । पठनाद्धारणाद्देवा बभुवुश्च दिगीश्वराः ॥ ४॥ ब्रह्म मन्त्रमयं वक्ष्ये भूतादिविनिवारकम् । यस्य प्रसादाद्दुर्वासास्त्रैलोक्यविजयी मुनिः । पठनाद् धारणाद् यस्य शास्ता च क्रोधभैरवः ॥ ५॥ त्रैलोक्यविजयस्यास्य कवचस्य प्रजापतिः । ऋषिश्छन्दश्च गायत्री नृसिंह देवता विभुः । चतुर्वर्गे च शान्तौ च विनियोगः प्रकीर्त्तितः ॥ ६॥ क्ष्रौं बिजं मे शिरः पातु चन्द्रवर्णो महामनुः । उग्रवीरं महाविष्णुं ज्वलन्तः सर्वतोमुखम् । नृसिंहं भीषणं भद्रं मृत्योर्मृत्युं नमाम्यहम् ॥ ७॥ द्वात्रिंशादक्षरो मन्त्रः मन्त्रराजः सुरद्रुमः । कण्ठं पातु ध्रुवम् क्ष्रौं हृद्भगवते चक्षुषी मम ॥ ८॥ नरसिंहाय च ज्वालामालिने पातु मस्तकम् । दीप्तदंष्ट्राय च तथाग्निनेत्राय च नासिकाम् ॥ ९॥ सर्वरक्षोघ्नाय देवाय सर्वभूतविनाशाय च । सर्वज्वरविनाशाय दह दह पच द्वयम् ॥ १०॥ रक्ष रक्ष सर्वमन्त्रम् स्वाहा पातु मुखं मम । तारादि रामचन्द्राय नमः पायाद्गूह्यं मम ॥ ११॥ क्लीं पायात्पाणियुग्मंश्च तक्रम् नमः पदम् ततः । नरायणाऽप्रसवम् च आं ह्रीं क्रौं क्ष्रौं चं हुं फट् ॥ १२॥ षडक्षरः कटिं पातु ॐ नमो भगवते पदम् । वासुदेवाय च पृष्ठं क्लीं कृष्णाय उरुद्वयम् ॥ १३॥ क्लीं कृष्णाय सदा पातु जानुनी च मनूत्तमः । क्लीं ग्लौं क्लीं श्यामलाङ्गाय नमः पायात्पदद्वयम् ॥ १४॥ क्ष्रौं नरसिंहाय क्ष्रौंश्च सर्वाङ्गं मे सदाऽवतु ॥ १५॥ One line verse for demarkation with iti te kathitam इति ते कथितं वत्स सर्वमन्त्रौघ विग्रहम् । तवस्नेहान्मया ख्यातं प्रवक्तव्यं न कस्यचित् ॥ १६॥ गुरुपूजा विधायाथ गृहणीयात् कवचं ततः । सर्वपुण्ययुतो भूत्वा सर्वसिद्धियुतो भवेत् ॥ १७॥ शतमष्टोत्तरं चैव पुरश्चर्याविधि स्मृतः । हवनादीन् दशांशेन कृत्वा साधकसत्तमः ॥ १८॥ ततस्तु सिद्ध कवचः पुण्यात्मा मदनोपमः । स्पर्द्धामुद्धय भवने लक्ष्मीर्वाणी वसेत् ततः ॥ १९॥ पुष्पाञ्जल्याष्टकम् दत्वामूले नैव पठेत् सकृत् । अपि वर्षसहस्राणाम् पूजायाः फलमाप्नुयात् ॥ २०॥ भूर्जे विलिख्य गुटिकाम् स्वर्णस्थाम् धारयेत् यदि । कण्ठे वा दक्षिणे बाहौ नरसिंहो भवेत् स्वयम् ॥ २१॥ योषिद्वामभुजे चैव पुरुषो दक्षिणे करे । विभृयात् कवचं पुण्यम् सर्वसिद्धियुतो भवेत् ॥ २२॥ काकबन्ध्या च या नारी मृतवत्सा च या भवेत् । जन्मबन्ध्या नष्टपुत्रा बहुपुत्रवती भवेत् ॥ २३॥ कवचस्य प्रसादेन जीवन्मुक्तो भवेन्नरः । त्रैलोक्य क्षोभयत्येव त्रैलोक्यं विजयी भवेत् ॥ २४॥ भूतप्रेतपिशाचाश्च राक्षसा दानवश्च ये । तं दृष्ट्वा प्रपलायन्ते देशाद्देशान्तरं ध्रुवम् ॥ २५॥ यस्मिन् गेहे च कवचं ग्रामे वा यदि तिष्ठति । तं देशन्तु परित्यज प्रयान्ति चाति दूरतः ॥ २६॥ ॥ इतिश्रीब्रह्मसंहितायां सप्तदशाध्याये त्रैलोक्यविजयं नाम श्रीश्रीनृसिंहकवचं सम्पूर्णम् ॥Dinesh Agarwal dinesh.garghouse at gmail.com