अक्षर आकार:

श्रीनृसिंहहयग्रीवस्तवः

Shri Nrisimhahayagrivastavah

श्रीनृसिंहहयग्रीवस्तवः

आकण्ठमर्त्यरूपौ तत्पश्चात्सिंहतुरगरूपधरौ । देवौ कौचित्प्रज्ञामन्यालभ्यां प्रयच्छतां मह्यम् ॥ १॥ अद्वैतवास्तवमतिं कलयितुमेवाङ्घ्रिनम्रलोकततेः । स्वीकृतनृसिंहनरहयरूपौ देवौ हृदम्बुजे जयताम् ॥ २॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितः श्रीनृसिंहहयग्रीवस्तवः सम्पूर्णः ।