अक्षर आकार:

श्रीनृसिंहद्वादशनामस्तोत्रम्

Shri Nrisimha Dvadashanama Stotram

श्रीनृसिंहद्वादशनामस्तोत्रम्

हरिः ॐ । प्रणम्य शिरसा देवं नृसिंहं भक्तवत्सलम् । सच्चिदानंदरूपोऽयं परिपूर्ण जगद्गुरूम् ॥ अस्य श्रीलक्ष्मीनृसिंहद्वादशनामस्तोत्रमंत्रस्य पुरंदर ऋषिः । (वेदव्यासो भगवान् ऋषिः ।) श्रीलक्ष्मीनृसिंहो देवता । अनुष्टुप् छन्दः । क्ष्रौम्बीजं । ॐ श्री शक्तिः । ॐ श्रीलक्ष्मीनृसिंहप्रीत्यर्थेजपे विनियोगः ॥ अथ न्यासः - ॐ क्ष्रां अंगुष्ठाभ्यां नमः । ॐ क्ष्रीं तर्जनीभ्यां नमः । ॐ क्ष्रूं मध्यमाभ्यां नमः । ॐ क्ष्रैं अनामिकाभ्यां नमः । ॐ क्ष्रौं कनिष्ठिकाभ्यां नमः । ॐ क्ष्रः करतलकरपृष्ठाभ्यां नमः ॥ ॐ क्ष्रां हृदयाय नमः । ॐ क्ष्रीं शिरसे स्वाहा । ॐ क्ष्रूं शिखायै वषट् । ॐ क्ष्रैं कवचाय हुं । ॐ क्ष्रौं नेत्रत्रयाय वौषट् । ॐ क्ष्रः अस्त्राय फट् । अथ ध्यानम् । लक्ष्मीशोभितवामभागममलं सिंहासने सुंदरं सव्ये चक्रधरं च निर्भयकरं वामेन चापं वरम् । सर्वाधीशकृतान्तपत्रममलं श्रीवत्सवक्षःस्थलं वन्दे देवमुनीन्द्रवन्दितपदं लक्ष्मीनृसिंहं विभुम् ॥ प्रथमं तु महाज्वालो द्वितीयं तूग्रकेसरी । तृतीयं वज्रदंष्ट्रश्च चतुर्थं तु विशारदः ॥ १॥ पञ्चमं नारसिंहश्च षष्ठः कश्यपमर्दनः । सप्तमो यातुहन्ता च अष्टमो देववल्लभः ॥ २॥ नव प्रह्लादवरदो दशमोऽनन्तहस्तकः । एकादशो महारुद्रो द्वादशो दारुणस्तथा ॥ ३॥ द्वादशैतानि नामानि नृसिंहस्य महात्मनः । मन्त्रराजेति विख्यातं सर्वपापविनाशनम् ॥ ४॥ क्षयापस्मारकुष्ठादितापज्वरनिवारणम् । राजद्वारे महाघोरे सङ्ग्रामे च जलान्तरे ॥ ५॥ गिरिगह्वार आरण्ये व्याघ्रचोरामयादिषु । रणे च मरणे चैव शमदं परमं शुभम् ॥ ६॥ शतमावर्तयेद्यस्तु मुच्यते व्याधिबन्धनात् । आवर्तयेत्सहस्रं तु लभते वाञ्छितं फलम् ॥ ७॥ इति श्रीब्रह्मपुराणे ब्रह्मनारदसंवादे श्रीलक्ष्मीनृसिंहद्वादशनामस्तोत्रं सम्पूर्णम् । variations वज्रनखस्तृतीयं तु चतुर्थन्तु विदारणः । सप्तमं रिपुहन्ता च द्वादशं करुणानिधिः