अक्षर आकार:

नृसिंहभुजङ्गप्रयातस्तोत्रम्

Nrisimhabhujangaprayatastotram

नृसिंहभुजङ्गप्रयातस्तोत्रम्

वेदशैलगत अजोमेशदेवं रजोत्कर्षवद्भूद्रजोत्कर्षवद्भूद्रजोद्धूतभेदम् । द्विजाधीशभेदं रजोपालहेतिं भजे वेदशैलस्फुरन्नारसिंहम् ॥ १॥ हिरण्याक्षरक्षोवरेण्याग्रजन्मस्थिरक्रूरवक्षोहरप्रौढदक्षम् । भृतश्रीनखाग्रं परश्रीसुखोग्रं भजे वेदशैलस्फुरन्नारसिंहम् ॥ २॥ निजारम्भशुम्भद्भुजास्तम्भडम्भद्दृढाङ्गस्रवद्रक्तसंयुक्तभूतम् । निजाघावनोद्वेललीलानुभूतं भजे वेदशैलस्फुरन्नारसिंहम् ॥ ३॥ वटुर्जन्यजास्यं स्फुटालोलघाटीसटाझूटमृत्युर्बहिर्गानशौर्यम् । घटोद्भूतपद्भूद्धटस्तूयमानं भजे वेदशैलस्फुरन्नारसिंहम् ॥ ४॥ पिनाक्युत्तमाङ्गं स्वनद्भङ्गरङ्गं ध्रुवाकाशरङ्गं जनश्रीपदाङ्गम् । पिनाकिन्यराजप्रशस्तस्तरस्तं भजे वेदशैलस्फुरन्नारसिंहम् ॥ ५॥ इति वेदशैलगतं नृसिंहभुजङ्गप्रयातस्तोत्रं सम्पूर्णम् ।