अक्षर आकार:

श्रीनृसिंह ऋणमुक्तिस्तोत्रम्

Shri Nrisimha Rinamukti Stotram

श्रीनृसिंह ऋणमुक्तिस्तोत्रम्

देवता कार्यसिद्ध्यर्थं सभास्तम्भसमुद्धितम् । श्रीनृसिंह महावीरं नमामि ऋणमुक्तये ॥ १॥ लक्ष्म्यालिङ्गित वामाङ्गं भक्तानामभयप्रदम् । श्रीनृसिंह महावीरं नमामि ऋणमुक्तये ॥ २॥ सिंहनादेन महता दिगदन्तिविदारणम् । श्रीनृसिंह महावीरं नमामि ऋणमुक्तये ॥ ३॥ प्रल्हादवरदं श्रीशं दैत्यैश्वरविदारणम् । श्रीनृसिंह महावीरं नमामि ऋणमुक्तये ॥ ४॥ आङ्गमालाधरं शङ्खचक्रायुधधारिणम् । श्रीनृसिंह महावीरं नमामि ऋणमुक्तये ॥ ५॥ स्मरणात् सर्वपापघ्नं कद्रुजविषशोधनम् । श्रीनृसिंह महावीरं नमामि ऋणमुक्तये ॥ ६॥ कोटीसूर्यप्रतिकाशमभिचारविनायनम् । श्रीनृसिंह महावीरं नमामि ऋणमुक्तये ॥ ७॥ वेदवेदान्तयज्ञेशं ब्रह्मरुद्रादि शंसितम् । श्रीनृसिंह महावीरं नमामि ऋणमुक्तये ॥ ८॥ इति श्रीनृसिंह ऋणमुक्तिस्तोत्रं सम्पूर्णम् ।