अक्षर आकार:

श्री शनैश्चरकृत नृसिंहाष्टकम्

Shri Shanaishcharakrita Nrisimha Ashtakam

श्री शनैश्चरकृत नृसिंहाष्टकम्

श्री गणेशाय नमः । श्री शनैश्चराय नमः ॥ श्रीलक्ष्मीनृसिंहाय नमः । श्रीशनैश्चरकृत नृसिंहाष्टक प्रारम्भः ॥ ॐ यत्पादपङ्कजरजः परमादरेण संसेवितं सकलकल्मषराशिनाशम् । कल्याणकारणमशेषनिजानुगानां सत्त्वं नृसिंह मयि देहि कृपावलोकम् ॥ १॥ सर्वत्र चञ्चलतया स्थितयापि लक्ष्म्या ब्रह्मादिवन्द्यपदया स्थिरयान्यसेवी । पादारविन्दयुगुलं परमादरेण सत्त्वं नृसिंह मयि देहिकृपावलोकम् ॥ २॥ यद्ररूपमागमशिरः प्रतिपाद्यमाद्य- माध्यात्मिकादि परितापहरं विचिन्त्यम् । योगीश्वरैरपगताखिलदोषसङ्घैः सत्त्वं नृसिंह मयि देहिकृपावलोकम् ॥ ३॥ प्रल्हादभक्तवचसा हरिराविरासीत् स्तम्भेहिरण्यकशिपुंय उदारभावः । ऊर्वोनिधाय तदुदरो नखरैर्ददार सत्त्वं नृसिंह मयि देहिकृपावलोकम् ॥ ४॥ योनैजभक्त मनलाम्बुधिभूधरोग्र श्रूङ्गप्रपात विषदन्तसरीसृपेभ्यः । सर्वात्मकः परमकारूणिकोरक्ष सत्त्वं नृसिंह मयि देहिकृपावलोकम् ॥ ५॥ यन्निर्विकार पररूपविचिन्तनेन योगीश्वरा विषयावीत समस्तरागाः । विश्रान्तिमापुर विनाशक्ती पराख्यां सत्त्वं नृसिंह मयि देहिकृपावलोकम् ॥ ६॥ यद्रूपमुग्रमरिमर्दनभावशाली सञ्चिन्तनेन सकलाभवभीतिहारी । भूतज्वरग्रहसमुद्भवभीतिनाशम् सत्त्वं नृसिंह मयि देहिकृपावलोकम् ॥ ७॥ यस्योत्तमं यश उमापतिमग्रजन्म शक्रादिदैवतसभासुसमस्तगीतम् । श्रूत्वैक सर्व शमलप्रशमेकदक्षं सत्त्वं नृसिंह मयि देहिकृपावलोकम् ॥ ८॥ श्रीकृष्ण उवाच एवं श्रुत्वा स्तुतिन्देवः शनिना कल्पिता हरिः । उवाच्यथं ब्रह्मवृन्दस्य शनि सद्भक्तवत्सलः ॥ श्रीनृसिंह उवाच प्रसन्नोहं शने तुभ्यं वरं वरय शोभनम् ॥ शनिरुवाच नृसिंह त्वं मयि कृपां कुरु देवदयानिधे । मद्वासरस्तवप्रीतिकरस्याद्देवतापते ॥ मत्कृतं त्वत्स्तवं येवै श्रुण्वति च पठति च । सर्वान् कामान् पूरयेथां तेषां त्वं लोकभावना ॥ श्रीनृसिंह उवाच तथैवास्तु शनेऽहं वै रक्षोभुवनमास्थितः । भक्तकामान् पूरयिष्ये त्व ममैक वचश्रुणु ॥ त्वत्कृतं मत्परं स्तोत्रं यः पठेत्त श्रुणोतियः ॥ द्वादशाष्टमजन्मस्थं त्वद्भयं नास्ति तस्यवै ॥ इति श्री शनैश्चरकृत नृसिंहाष्टकं सम्पूर्णम् । श्रीमद्गङ्गामाहात्मे रक्षोभुवनप्रस्तावे श्रीमद्दिव्यलक्ष्मीनृसिंहस्तुतिः नवमोऽध्यायः ॥ श्रीमद्दिव्यलक्ष्मीनृसिंहार्पणमस्तु ॥ श्रीकृष्णार्पणमस्तु ।