अक्षर आकार:

श्रीनृसिंहाष्टकम् ३

Shri NrisimhAshtakam 3

श्रीनृसिंहाष्टकम् ३

ध्यायामि नारसिंहाख्यं ब्रह्मवेदान्तगोचरम् । भवाब्धितरणोपायं शङ्खचक्रधरं पदम् ॥ नीलां रमां च परिभूय कृपारसेन स्तम्भं स्वशक्तिमनघां विनिधाय देवीम् । प्रह्लादरक्षणविधायवती कृपा ते श्रीनारसिंह परिपालय मां च भक्तम् ॥ १॥ इन्द्रादिदेवनिकरस्य किरीटकोटि प्रत्युप्तरत्नप्रतिबिम्बितपादपद्म । कल्पान्तकालघनगर्जनतुल्यनाद श्रीनारसिंह परिपालय मां च भक्तम् ॥ २॥ प्रह्लाद ईड्य प्रलयार्कसमानवक्त्र हुङ्कारनिर्जितनिशाचरवृन्दनाथ । श्रीनारदादिमुनिसङ्घसुगीयमान श्रीनारसिंह परिपालय मां च भक्तम् ॥ ३॥ रात्रिञ्चराद्रिजठरात्परिस्रंस्यमानं रक्तं निपीय परिकल्पितसान्त्रमाल । विद्राविताखिलासुरोग्रनृसिंहरूप श्रीनारसिंह परिपालय मां च भक्तम् ॥ ४॥ योगीन्द्र योगपरीरक्षक देवदेव दीनार्तिहरि विभवागमगीयमान । मां वीक्ष्य दीनमशरण्यमगण्यशील श्रीनारसिंह परिपालय मां च भक्तम् ॥ ५॥ प्रह्लादशोकविनिवारण भद्रसिंह नक्तञ्चरेन्द्र मदखण्डन वीरसिंह । इन्द्रादिदेवजनसन्नुतपादपद्म श्रीनारसिंह परिपालय मां च भक्तम् ॥ ६॥ तापत्रयाब्धिपरिशोषणबाडवाग्ने ताराधिपप्रतिनिभानन दानवारे । श्रीराजराजवरदाखिललोकनाथ श्रीनारसिंह परिपालय मां च भक्तम् ॥ ७॥ ज्ञानेन केचिदवलम्ब्य पदांबुजं ते केचित्सुकर्मनिकरेण परे च भक्त्या । मुक्तिं गताः खलु जना कृपया मुरारे श्रीनारसिंह परिपालय मां च भक्तम् ॥ ८॥ नमस्ते नारसिंहाय नमस्ते मधुवैरिणे । नमस्ते पद्मनेत्राय नमस्ते दुःखहारिणे ॥ इति श्रीनृसिंहाष्टकं सम्पूर्णम् ।