अक्षर आकार:

नारकिकृतश्रीनृसिंहस्तोत्रम्

nArakikRRitashrInRRisiMhastotram

नारकिकृतश्रीनृसिंहस्तोत्रम्

श्रीगणेशाय नमः ॥ ओन्नमो भगवते तस्मै केशवाय महात्मने । यन्नामकीर्तनात्सद्यो नरकाग्निः प्रशाम्यति ॥ १॥ भक्तप्रियाय देवाय परस्मै हरये नमः । लोकनाथाय शान्ताय यज्ञेशायादिमूर्तये ॥ २॥ अनन्तायाप्रमेयाय नरसिंहाय ते नमः । नारायणाय गुरवे शङ्खचक्रगदाभृते ॥ ३॥ वेदप्रियाय महते विक्रमाय नमो नमः । वराहायाप्रतर्क्याय वेदाङ्गाय महीभृते ॥ ४॥ नमो द्युतिमते नित्यं ब्राह्मणाय नमो नमः । वामनाय बहुज्ञाय वेदवेदाङ्गधारिणे ॥ ५॥ बलिबन्धनदत्ताय वेदपालाय ते नमः । विष्णवे सुरनाथाय व्यापिने परमात्मने ॥ ६॥ चतुर्भुजाय शुद्धाय शुद्धद्रव्याय ते नमः । जामदग्न्याय रामाय दुष्टक्षत्रान्तकारणे ॥ ७॥ रामाय रावणान्तकाय नमस्तुभ्यं महात्मने । अस्मानुद्धर गोविन्द पूतिगन्धिन्नमोऽस्तु ते ॥ ८॥ स्तोत्रमेतत्पठेद्यस्तु निरयान्मुच्यते च सः । नास्त्यत्र संशयः स्वल्पः प्रत्यहं पाठमाचरेत् ॥ ९॥ इति श्रीनृसिंहपुराणे नारकिकृतं श्रीनृसिंहस्तोत्रं सम्पूर्णम् ।