अक्षर आकार:

नारायणस्तुती ब्रह्मोक्त नरसिंहपुराणे

Narayanastuti by Brahma in Narasinhapurana

नारायणस्तुती ब्रह्मोक्त नरसिंहपुराणे

नारद उवाच किं तञ्ज्ञानं परं देव कश्च योगः परस्तथा । एतन्मे तत्त्वतः सर्वं त्वमाचक्ष्व पितामह ॥ ५९॥ ब्रह्मोवाच यः परः प्रक्ऱृतेः प्रोक्तः पुरुषः पञ्चविंशकः । स एव सर्वभूतानां नर इत्यभिधीयते ॥ ६०॥ नराज्जातानि तत्त्वानि नाराणीति ततो विदुः । तान्येव चायनं तस्य तेन नारायणः स्म्ऱृतः ॥ ६१॥ नारायणाज्जगत्सर्वं सर्गकाले प्रजायते । तस्मिन्नेव पुनस्तच्च प्रलये सम्प्रलीयते ॥ ६२॥ नारायणः परं ब्रह्म तत्त्वं नारायणः परम् । नारायणः परं ज्योतिरात्मा नारायणः परः ॥ ६३॥ परादपि परश्चासौ तस्मान्नातिपरं मुने । यच्च किञ्चिज्जगत्यस्मिन् द्ऱृश्यते श्रूयतेऽपि वा ॥ ६४॥ अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः । एवं विदित्वा तं देवाः साकारं व्याहरन्मुहुः ॥ ६५॥ नमो नारायणायेति ध्यात्वा चानन्यमानसाः । किं तस्य दानैः किं तीर्थैः किं तपोभिः किमध्वरैः ॥ ६६॥ यो नित्यं ध्यायते देवं नारायणमनन्यधीः । एतञ्ज्ञानं वरं नातो योगश्चैव परस्तथा ॥ ६७॥ परस्परविरुद्धार्थैः किमन्यैः शास्त्रविस्तरैः । बहवोऽपि यथा मार्गा विशन्त्येकं महत्पुरम् ॥ ६८॥ तथा ज्ञानानि सर्वाणि प्रविशन्ति तमीश्वरम् । स हि सर्वगतो देवः सूक्ष्मोऽव्यक्तः सनातनः ॥ ६९॥ जगदादिरनाद्यन्तः स्वयम्भूर्भूतभावनः । विष्णुर्विभुरचित्न्यात्मा नित्यः सदसदात्मकः ॥ ७०॥ वासुदेवो जगद्वासः पुराणः कविरव्ययः । यस्मात्प्राप्तं स्थितिं क्ऱृत्स्नं त्रैलोक्यं सचराचरम् ॥ ७१॥ तस्मात् स भगवान्देवो विष्णुरित्यभिधीयते । यस्माद्वा सर्वभूतानां तत्त्वाद्यानां युगक्षये ॥ ७२॥ तस्मिन्निवासः संसर्गे वासुदेवस्ततस्तु सः । तमाहुः पुरुषं केचित्केचिदीश्वरमव्ययम् ॥ ७३॥ विज्ञानमात्रं केचिच्च केचिद्ब्रह्म परं तथा । केचित्कालमनाद्यन्तं केचिज्जीवं सनातनम् ॥ ७४॥ केचिच्च परमात्मानं केचिच्चैवमनामयम् । केचित्क्षेत्रज्ञमित्याहुः केचित्षड्विंशकं तथा ॥ ७५॥ अङ्गुष्ठमात्रं केचिच्च केचित्पद्मरजोपमम् । एते चान्ये च मुनिभिः संज्ञाभेदाः प्ऱृथग्विधाः ॥ ७६॥ शास्त्रेषु कथिता विष्णोर्लोकव्यामोहकारकाः। एकं यदि भवेच्छास्त्रं ज्ञानं निस्संशयं भवेत् ॥ ७७॥ बहुत्वादिह शास्त्राणां ज्ञानतत्त्वं सुदुर्लभम् । आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः ॥ ७८॥ इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा । त्यक्त्वा व्यामोहकान् सर्वान् तस्माच्छास्त्रार्थविस्तरान् ॥ ७९॥ अनन्यचेता ध्यायस्व नारायणमतन्द्रितः । एवं ज्ञात्वा तु सततं देवदेवं तमव्ययम् ॥ ८०॥ क्षिप्रं यास्यसि तत्रैव सायुज्यं नात्र संशयः । श्रुत्वेदं ब्रह्मणा प्रोक्तं ज्ञानयोगं सुदुर्लभम् ॥ ८१॥ ततोऽहमासं विप्रेन्द्र नारायणपरायणः । नमो नारायणायेति ये विदुर्ब्रह्म शाश्वतम् ॥ ८२॥ अन्तकाले जपन्तस्ते यान्ति विष्णोः परं पदम् । तस्मान्नारायणस्तात परमात्मा सनातनः ॥ ८३॥ अनन्यमनसा नित्यं ध्येयस्तत्त्वविचिन्तकैः । नारायणो जगद्व्यापी परमात्मा सनातनः ॥ ८४॥ जगतां स्ऱृष्टिसंहारपरिपालनतत्परः । श्रवणात्पठनाच्चैव निदिध्यासनतत्परैः ॥ ८५॥ आराध्यः सर्वथा ब्रह्मन् पुरुषेण हितैषिणा । निः स्प्ऱृहा नित्यसंतुष्टा ज्ञानिनः संयतेन्द्रियाः ॥ ८६॥ निर्ममा निरहंकारा रागद्वेषविवर्जिताः । अपक्षपतिताः शान्ताः सर्वसंकल्पवर्जिताः ॥ ८७॥ ध्यानयोगपरा ब्रह्मन् ते पश्यन्ति जगत्पतिम् । त्यक्तत्रया महात्मानो वासुदेवं हरिं गुरुम् ॥ ८८॥ कीर्तयन्ति जगन्नाथं ते पश्यन्ति जगत्पतिम् । तस्मात्त्वमपि विप्रेन्द्र नारायणपरो भव ॥ ८९॥ तदन्यः को महोदारः प्रार्थितं दातुमीश्वरः । हेलया कीर्तितो यो वै स्वं पदं दिशति द्विज ॥ ९०॥ अपि कार्यस्त्वया चैव जपः स्वाध्याय एव च । तमेवोद्दिश्य देवेशं कुरु नित्यमतन्द्रितः ॥ ९१॥ किं तत्र बहुभिर्मन्त्रैः किं तत्र बहुभिर्व्रतैः । नमो नारायणायेति मन्त्रः सर्वार्थसाधकः ॥ ९२॥ चीरवासा जटाधारी त्रिदण्डी मुण्ड एव वा । भूषितो वा द्विजश्रेष्ठ न लिङ्गं धर्मकारणम् ॥ ९३॥ ये न्ऱृशंसा दुरात्मानः पापाचाररताः सदा । तेऽपि यान्ति परं स्थानं नरा नारायणाश्रयाः ॥ ९४॥ जन्मान्तरसहस्रेषु यस्य स्यद्बुद्धिरीद्ऱृशी । दासोऽहं वासुदेवस्य देवदेवस्य शार्ङ्गिनः ॥ ९५॥ प्रयाति विष्णुसालोक्यं पुरुषो नात्र संशयः । किं पुनस्तद्गतपुराणः पुरुषः संयतेन्द्रियः ॥ ९६॥ इति । नरसिंहपुराणे अध्याय ६४ श्लोक ५९-९६, अध्याय श्लोक संख्या १२४ From Narasimhapurana adhyAya 64. Selected verses. https://archive.org/details/NarsimhaPuranGitapress