अक्षर आकार:

नारायणसहस्रनामस्तोत्रं श्रीलक्ष्मीनारायणीयसंहितायाम्

Narayanasahasranamastotra from LakShminarayaniyasamhita

नारायणसहस्रनामस्तोत्रं श्रीलक्ष्मीनारायणीयसंहितायाम्

ॐ श्री गणेशाय नमः श्रीकृष्ण उवाच श‍ृणु त्वं राधिके चान्यं चमत्कारं श्रियःपतेः । कुंकुमवापिकाक्षेत्रे जातं योगेश्वरं प्रति ॥ १॥ वीतिहोत्रो महोयोगी वने योगेश्वरोऽभवत् । हिमाचले बदर्यां स तपस्तेपेऽतिदारुणम् ॥ २॥ सर्वयोगकलाः प्राप यथा शंभुस्तथाऽभवत् । तेन योगप्रतापेन दृष्टा वै दिव्यचक्षुषा ॥ ३॥ केतुमाले कृता यज्ञाः केनाटेऽपि कृता मखाः । अमरीणां प्रदेशेषु कृतं यद्धरिणा तु तत् ॥ ४॥ ऊर्जाकृष्णाष्टमीजन्ममहोत्सवश्च यः कृतः । शारदापूजनाद्यं च ह्यन्नकूटमहोत्सवः ॥ ५॥ एतत्सर्वं दिव्यदृष्ट्या विज्ञाय परमेश्वरम् । कांभरेयं बालकृष्णं द्रष्टुं साक्षादुपाययौ ॥ ६॥ आययौ कुंकुमवापीक्षेत्रे कृष्णनारायणम् । सहस्ररूपधर्ताऽसौ वीतिहोत्रः समाधिमान् ॥ ७॥ मार्गशीर्षतृतीयायामश्वपट्टसरस्तटे । सेतुमाश्रित्य च न्यग्रोधस्याऽधोऽधान्निजासनम् ॥ ८॥ सहस्ररूपधर्ताऽसौ संकल्प्य निषसाद ह । मम मूलस्वरूपं चागत्याऽऽश्लिष्येत् रमापतिः ॥ ९॥ ततः सहस्ररूपैश्चाऽऽश्लिष्येन्मां स प्रभुः पुनः । ऋषभस्य कारयेन्ये सद्रुरोर्दर्शनं यदि ॥ १०॥ तदाऽहं श्रीहरेरग्रे निवत्स्येऽत्र सदाऽनुगः । मोक्षं प्रसाधयिष्येऽत्र बदर्या न प्रयोजनम् ॥ ११॥ न गुरोरपरस्यापि मोक्षदो हि गुरुर्यतः । यत्रात्मनो भवेत्पुष्टिर्येन तरति सागरम् ॥ १२॥ यस्माच्चात्ममहाशान्तिस्तं गुरुं त्वाश्रयेज्जनः । यस्मात्पापविनाशश्च यस्मादज्ञाननाशनम् ॥ १३॥ यस्माद् वृत्तिनिरोधश्च वासनाक्षपणं यतः । यस्मादात्मप्रकाशश्च तं गुरुं त्वाश्रयेज्जनः ॥ १४॥ यस्माच्छिक्षामवाप्येतैश्वर्यं चमत्कृतिं तथा । दिव्यभावमधितिष्ठेत्तं गुरुं त्वाश्रयेज्जनः ॥ १५॥ गुरवो बहवः सन्ति लौकिकाश्चाप्यलौकिकाः । लौकिकेन हि लोकस्थाः कार्या वै गुरवो यथा ॥ १६॥ अलौकिकेन शिष्येणाऽलौकिका गुरवो धृताः । मयाऽप्यलौकिकः सोऽयं कर्तव्यो भगवान् गुरुः ॥ १७॥ यत्र सर्वं हि कर्तव्यं हरौ परिसमाप्यते । माता गुरुर्हि जनुदा पिता गुरुर्हि बीजदः ॥ १८॥ अन्ये रक्षाकराः सन्ति देहस्य गुरवो हि ते । भाषाज्ञानकराश्चान्ये बान्धवाद्याश्च योषितः ॥ १९॥ तथा शिक्षाकराश्चान्ये विद्यादानकरा अपि । कलाकौशल्यशिक्षाया दातारो गुरवोऽपि च ॥ २०॥ त एते देहयात्राया भवन्ति गुरवः खलु । आत्मज्ञानप्रदो यस्तु विष्णुमन्त्रप्रदश्च यः ॥ २१॥ धर्मवृत्तिप्रदो यश्च गुरुः श्रेष्ठो हि सम्मतः । ब्रह्मस्थितिप्रदो यश्च योगसिद्धिप्रदश्च यः ॥ २२॥ वैशारद्यप्रदो बुद्धौ गुरुः श्रेष्ठतरो हि सः । निर्मूलां वासनां कृत्वा परमेशप्रदर्शकः ॥ २३॥ आत्मना परमात्मानं प्रापको दिव्यमोक्षदः । ब्रह्मलोकप्रेषकश्च गुरुः श्रेष्ठतमो हि सः ॥ २४॥ गकारस्त्वन्धमज्ञानं रकारो ज्ञानमुज्ज्वलम् । अज्ञानहा ज्ञानदश्च गुरुर्गौरववान्मतः ॥ २५॥ गमयत्यक्षरं धाम रमयत्यपि धामिना । गुरुः सोऽयं मोक्षदाता नान्यः श्रेष्ठस्ततो गुरुः ॥ २६॥ गुरुर्योगी ब्रह्मचारी धर्मी ज्ञानी विरागवान् । साधुशीलो गुरुश्चापि नारायणः परो गुरुः ॥ २७॥ भुक्त्तिदाता मोक्षदाता सर्वस्वदो हरिर्गुरुः । गुरोः साक्षात्कारयिता गुरोर्गुरुर्यतोऽत्र सः ॥ २८॥ स एव श्रीहरिश्चाऽयं मुक्त्तानां परमो गुरुः । गुरुः सर्वावताराणां सतीनां च सतां गुरुः ॥ २९॥ ईश्वराणां तथा धाम्नां योगिनां सर्गसंविदाम् । पूर्वेषां सृष्टिकर्तॄणां महर्षीणां द्युवासिनाम् ॥ ३०॥ प्रजेशानां कर्मठानां भक्तानां च परो गुरुः । गुरूणां यावतामग्र्यो नारायणगुरोर्गुरुः ॥ ३१॥ अनादि श्रीकृष्णनारायणः श्रीकृष्णवल्लभः । श्रीकृष्णवल्लभः स्वापी कांभरेयः परात्परः ॥ ३२॥ श्रीमद्गोपालबालोऽयं स्वामी वै सर्वदेहिनाम् । मया लब्धः स मे पूर्णं करिष्यत्येव मानसम् ॥ ३३॥ निवत्स्यामि चरणेऽस्य प्राप्स्यामि धाम चाक्षरम् । सञ्चिन्त्येति वीतिहोत्रो ध्यानमग्नः सहस्रधा ॥ ३४॥ सहस्ररूपवान् जातो दृष्ट्वा तं मानवास्तटे । स्नातारोऽगुः परश्चर्यं कस्येमानि समानि वै ॥ ३५॥ रूपाणि, के चागता वै योगिनोऽत्र सहस्रशः । समवेषाः समदेहाः समांगाः सन्ति सदृशाः ॥ ३६॥ समकेशाः समध्यानाः समानपरिमाणकाः । भ्रातरो वा भवन्त्येते धाममुक्ता भवन्ति वा ॥ ३७॥ बदरीवासिनो वाऽपि श्वेतमुक्ताः किमागताः । शंकरस्य गणाः किंवा देवास्तापसरूपिणः ॥ ३८॥ साध्या वा देवता यद्वा मेरुवासा हि तापसाः । क एते तु भवेयुर्वै चन्द्रास्या भास्करप्रभाः ॥ ३९॥ ध्यानयोगा योगिनो वा योगीश्वराः सहस्रशः । न वदन्ति न पश्यन्ति न प्राणान् चालयन्त्यपि ॥ ४०॥ स्थिरमौनाः स्थिरचिता ईश्वराः स्युश्च केन्विमे । इत्येवं तर्कयन्तो वै कुंकुमवापिकाजनाः ॥ ४१॥ संघशो वै समायान्ति द्रष्टुं कुतूहलान्विताः । केचिन्नमन्ति दृष्ट्वैव प्रशंसन्ति वदन्ति च ॥ ४२॥ प्रतापोऽयं बालकृष्णकृपानाथस्य वर्तते । अस्य दर्शनलाभार्थं नित्यमायान्ति योगिनः ॥ ४३॥ अदृश्या ईदृशाः सर्वेऽधुना ते दृश्यतां गताः । रुद्राः सहस्रशश्चापि विष्णवश्च सहस्रशः ॥ ४४॥ सहस्रसोऽपि ब्रह्माणो द्रष्टुमायान्ति सद्वरम् । तथा महर्षयो नित्यं पितरो देवतास्तथा ॥ ४५॥ साध्या विश्वे च मरुतो द्रष्टुमायान्ति नित्यशः । तीर्थान्यपि समायान्ति दिक्पालाः सृष्टिपालकाः ॥ ४६॥ अथवा पार्षदा दिव्या गोलोकादिनिवासिनः । समायान्ति च वैकुण्ठपार्षदा अपि नित्यशः ॥ ४७॥ ग्रहनक्षत्रताराश्च सूर्याश्चन्द्राः सहस्रशः । वैमानिकाः समायान्ति लोकान्तरेभ्य आदृताः ॥ ४८॥ वालखिल्याः समायान्ति यद्वा ब्रह्मसभाद्विजाः । किं वा भवेयुर्गान्धर्वा यक्षा वा धनदाश्च वा ॥ ४९॥ चारणाः पर्वतवासा मुनयो वा वनस्थिताः । परं सादृश्यमेवैषामपूर्वत्वं विगाहते ॥ ५०॥ ललाटे वैष्णवं पुण्ड्रं मस्तके तापसी जटा । नेत्रमुद्रा योगपुष्टाः ख्यापयन्त्यंशमाच्युतम् ॥ ५१॥ ये वा के वा भवेयुस्ते साक्षात्कृता यदत्र ते । अस्माभिर्दैवयोगेन पुण्यवद्भिः सुभाग्यकैः ॥ ५२॥ अवश्यमेषां विज्ञानं क्षणेऽत्रैव भविष्यति । इत्येवं ते वदन्तश्च प्रजाः संघश एव ह ॥ ५३॥ प्रपश्यन्ति सरस्तीरे सहस्रयोगिनस्तदा । अथ श्रीमद्बालकृष्णो नारायणगुरोर्गुरू ॥ ५४॥ समाययो सरस्तीरे सन्निधौ योगिनां तदा । हार्दं जानँस्तदा तूर्णं प्रवीक्ष्य मूलरूपिणम् ॥ ५५॥ समुत्तोल्य समाहूय नाम्ना तं वीतिहोत्रक ! । उत्तिष्ठेति करौ धृत्वा कृत्वा वक्षसि योगिनम् ॥ ५६॥ समाश्लिष्यद्धसँस्तूर्णं स्वयं सहस्रधाऽभवत् । समुत्थितैः सहस्रस्वरूपैराश्लिष्यदच्युतः ॥ ५७॥ ततस्तूर्णं हरिश्चैकस्वरूपः सम्बभूव ह । वीतीहोत्रोऽपि सहसा त्वेकरूपो व्यजायत ॥ ५८॥ आश्चर्यचकिता लोका जयशब्दान् प्रचक्रिरे । तावच्छ्रीबालकृष्णोऽपि बभूव ऋषभो गुरुः ॥ ५९॥ वृद्धः श्वेतजटायुक्तो विवस्त्रो धूलिधूसरः । विचित्त इव चोन्मत्तो जितसर्वेन्द्रियो यतिः ॥ ६०॥ स्वभावतेजसा व्याप्तो ब्रह्मनिष्ठापरः पुमान् । अप्राकृत इव त्वास्ते विमना इव देहिषु ॥ ६१॥ वीतिहोत्रोऽपि च गुरुमृषभं वीक्ष्य दण्डवत् । चकार बहुधा तत्र तुष्टाव परमेश्वरम् ॥ ६२॥ त्वं गुरुस्त्वं चान्तरात्मा ऋषभस्त्वं च योगिराट् । योगेश्वरो भवानेव त्वं चेशस्त्वं परेश्वरः ॥ ६३॥ त्वं मुक्तस्त्वं महामुक्तो मुक्तेश्वरो भवानपि । अक्षरं त्वं भवान् ब्रह्म परब्रह्म भवानपि ॥ ६४॥ भगवान् कृष्ण एवासि कृष्णनारायणोऽसि च । अनादिश्रीकृष्णनारायणस्त्वं परमेश्वरः ॥ ६५॥ अवताराः ऋषभाद्यास्तवैव श्रीपते विभो । राधापतिस्त्वमेवाऽसि लक्ष्मीपतिस्त्वमेव च ॥ ६६॥ वासुदेवीपतिस्त्वं च नारायणीपतिस्तथा । मुक्तपतिर्ब्रह्मपतिर्धामपतिस्त्वमेव च ॥ ६७॥ महाकालस्य हेतुस्त्वं महाविष्णोश्च कारणम् । सदाशिवस्य हेतुस्त्वं वैराजस्य च कारणम् ॥ ६८॥ भूमा त्वं पूरुषसंज्ञः पुरुषोत्तम इत्यपि । ब्रह्मविष्णुमहेशानां रुद्राणां सर्जको भवान् ॥ ६९॥ देवानां लोकपालानां पितॄणां सर्जको भवान् । महर्षीणां यतीनां च साधूनां सर्जकः सताम् ॥ ७०॥ सतीनां कमलाद्यानां पतिः पाता च वै भवान् । सुराणां मानवानां च पशूनां पक्षिणां तथा ॥ ७१॥ वल्लीनां च द्रुमाणां च सर्जकस्त्वं रसप्रदः । कामधेनुकामवल्लीचिन्तामण्यादिसर्जकः ॥ ७२॥ यक्षरक्षःपिशाचानां सर्जकस्त्वं खचारिणाम् । वारिजानां वनस्थानां भूगर्भाणां प्रसर्जकः ॥ ७३॥ दैत्यानां दानवानां च सर्जकस्त्वं जनार्दनः । दीनानाथदरिद्रानां रक्षकः पोषको भवान् ॥ ७४॥ आश्रितानामन्नदाता शरण्यश्चार्तिदेहिनाम् । कामुकानां कामदाता सकामानां प्रपूरकः ॥ ७५॥ त्वं नारी त्वं नरश्चास्से त्वं गर्भस्त्वं कुमारकः त्वं बीजं त्वं सस्यरूपस्त्वं पुष्पं फलमित्यपि ॥ ७६॥ त्वमिन्द्रस्त्वमिन्द्रियस्त्वं निद्रा त्वं जागरो भवान् । त्वं सुषुप्तिर्महानन्दस्त्वं प्रीतिस्त्वं रतिस्तथा ॥ ७७॥ मन्मथस्त्वं मनोजन्यो मनःसंस्थो भवानपि । ज्ञानं ज्ञाता ज्ञेयमेव त्वमेवाऽसि परेश्वर ॥ ७८॥ त्वम् ऋतुस्त्वं दिनं रात्रिस्त्वमुद्योगो विरामकः । त्वं विश्वासश्चाश्रयश्च त्वं माता च पिता गुरूः ॥ ७९॥ धनं धान्यं त्वमेवाऽसिं शक्तिर्बलं त्वमेव च । नीतिर्भक्तिर्वृषो रागो वैराग्यं च त्वमेव ह ॥ ८०॥ त्वं प्राणस्त्वं जीवनं च नैकधा चैकधा भवान् । प्रकाशस्त्वं प्रवृत्तिस्त्वं निरोधस्त्वं गुणात्मकः ॥ ८१॥ गुणातीतस्त्वमेवाऽसि सर्वसिद्धिगुणाश्रयः । आश्चर्यं त्वं चमत्कारस्त्वमैश्वर्यं प्रभुत्वकम् ॥ ८२॥ त्वं भूर्जलं भवाँस्तेजोऽनिलस्त्वं त्वं तथाऽनलः । त्वं खं त्वं मात्रकं त्वं च बुद्धिस्त्वं चैषणात्रयम् ॥ ८३॥ त्वं परीक्षा तितिक्षा त्वं त्वं बुभुक्षा मुमुक्षता । त्वं स्नेहस्त्वं ध्यानवृत्तिस्त्वं समाधिः परात्परः ॥ ८४॥ उपास्तिस्त्वं चित्तचैत्यं त्वं जाडयं त्वं तथाऽणुता । त्वं साम्यं त्वं च वैषम्यं त्वमेव सर्वमेव ह ॥ ८५॥ अहं त्वं वीतिहोत्रस्त्वं त्वं गुरूः ऋषभस्तथा । तवैवांऽशकलाऽऽवेशविभूतिसृष्टिजं त्विदम् ॥ ८६॥ यत् किंचिद् दृश्यते चापि भुज्यते लीयतेऽपि च । यस्माद् यत्र च येनापि यदर्थं च त्वमेव सः ॥ ८७॥ तस्मै कृष्णाय नाथाय ब्रह्मणे परब्रह्मणे । समर्पयामि चात्मानं वीतिहोत्राभिधं सदा ॥ ८८॥ दानमेव न तु न्यासं नापि कुसीदकं तथा । यथेष्टविनियोगार्हं समर्पयामि मां त्वहम् ॥ ८९॥ इति स्तुत्वा राधिके सम्पपात पादयोर्हरेः । वीतिहोत्रश्चाऽथ कृष्णस्तमुत्थापयदूर्ध्वकम् ॥ ९०॥ समाश्र्लिष्य पुनर्हस्तौ दत्वा तस्य च मूर्धनि । न्ययुंक्त वरलाभार्थं वीतिहोत्रं हरिर्यदा ॥ ९१॥ वीतिहोत्रस्तदा प्राह स्थास्येऽत्र तवपादयोः । अन्ते मोक्षं गमिष्यस्यक्षरं धाम तव प्रभो ॥ ९२॥ देहि वासं सदा चात्र तथास्तूवाच वै हरिः । राधिके तन्महत्तीर्थम् ऋषभाख्यं सरोवरे ॥ ९३॥ वीतिहोत्राभिधं तीर्थं सहस्रयोगितीर्थकम् । एवं नाम्ना तदेवासीत् प्रसिद्धं मोक्षदं शुभम् ॥ ९४॥ हरिर्बभूव सहसा बालकृष्णस्वरूपधृक् । प्रययौ च निजावासं वीतिहोत्रस्तटे स्थितः ॥ ९५॥ वटवृक्षं समाश्लिष्य तापसो जनदर्शनः । तत्र तीर्थे कृतस्नानाः प्राप्स्यन्ति परमां गतिम् ॥ ९६॥ योगसिद्धिमवाप्स्यन्ति योगाभ्यासं विनाऽपि च । राधिके तत्र संस्नान्नाशमेष्यन्ति पातकम् ॥ ९७॥ आर्द्रं शुष्कं महत्स्वल्पं परपीडाकरं च यत् । सर्वं नश्यति पापं तज्जलपानादपि द्रुतम् ॥ ९८॥ तत्राऽन्नदानतः स्यात्तु वाजिमेधसमं फलम् । ऋषभस्याऽऽलयकर्तुर्मम धामाऽक्षरं भवेत् ॥ ९९॥ इत्येवं भगवानाह राधिके तीर्थवैभवम् । पठनाच्छ्रवणाच्चास्य भवेत्तत्तीर्थजं फलम् ॥ १००॥ ॥ इतिश्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने वीतिहोत्रयोगेश्वराय ऋषभरूपेण सहस्ररूपेण च हरेर्दर्शनम्, ऋषभतीर्थीकरणम्, स्तुतिश्चेत्यादिनिरूपणनामा चत्वारिंशदधिकद्विशततमोऽध्यायः ॥ From Laxminarayaniyasamhita khaNDa 2 adhyAya 240 This does not really have 1000 names but perhaps with the mention of ``sahasrarUpeNa harerdarshanam'' in the end it is considered /referenced in Purana Index for sahasranAmastotra.