अक्षर आकार:

नामयुगलाष्टकम्

Namayugalashtakam

नामयुगलाष्टकम्

अथ श्रीराधामाधवयोर्नामयुगलाष्टकम् । श्रीश्रीराधाकृष्णाभ्यां नमः । राधामाधवयोरेतद् वक्ष्ये नामयुगाष्ट्कम् । राधादामोदरौ पूर्वं राधिकामाधवौ ततः ॥ १॥ वृषभानुकुमारी च तथा गोपेन्द्रनन्दनः । गोविन्दस्य प्रियसखी गान्धर्वाबान्धवस्तथा ॥ २॥ निकुञ्जनागरौ गोष्ठकिशोरजनशेखरौ । वृन्दावनाधिपौ कृष्णवल्लभाराधिकाप्रियौ ॥ ३॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीराधामाधवयोर्नामयुगाष्टकं सम्पूर्णम् ।