अक्षर आकार:

नामरत्नमालावलिस्तोत्रम्

nAmaratnamAlAvalistotram

नामरत्नमालावलिस्तोत्रम्

नत्वा श्रीवल्लभाचार्यान्नौमि श्रीविठ्ठलं प्रभुम् । ततः श्रीवल्लभं स्तौमि तन्नामाष्टशतोदितैः ॥ १॥ ऋषिर्निरूपितश्चात्र विठ्ठलेशात्मजासुतः । छन्दोऽपि च तथाऽनुष्टुब्देवता गोकुलेश्वरः ॥ २॥ महाकारुणिकाधीशो बीजं चात्र निरूप्यते । विनियोगो भक्तियोगे सिद्धिः स्वप्रभुसङ्गमः ॥ ३॥ श्रीवल्लभार्यरूपः श्रीमद्विठ्ठलनन्दनः । श्रीवल्लभः सदानन्दः सच्चिदानन्दविग्रहः ॥ ४॥ रुक्यिणीनन्दनः श्रीमान् पार्वतीप्राणवल्लभः । सर्वसद्गुणसम्पन्नः पुत्रविठ्ठलराययुक् ॥ ५॥ पौत्रगोवर्द्धनेशाढ्यस्तदतिप्रीतिकारकः । संलालितव्रजपतिर्व्रजाधीशेक्षणोत्सुकः ॥ ६॥ पुत्रपौत्रप्रपौत्रदिसमस्तकुलमोदकः । भूयो निजकुलाधारः सर्वस्वकुलपोषकः ॥ ७॥ निजाश्रिताखिलज्ञातिप्रीतिपूर्वकपालकः । याचनोचितसम्प्राप्तप्राणिमात्रप्रपोषकः ॥ ८॥ सर्वाधारो महोदारः सदानन्दप्रवाहवान् । सम्प्राप्तपण्डितव्रातमानपूर्वकदानकृत् ॥ ९॥ गोकुलावासकर्ता च भूयो गोवर्द्धने स्थितः । गोस्वामी गोकुलाधीशो गोप्रियो गोकुलेश्वरः ॥ १०॥ गोकुलानन्दकर्ता च गोकुलाधिकभूषणम् । गोवल्लभो गोकुलेशो गोकुलप्रीतिकारकः ॥ ११॥ आचार्यकृतसिद्धान्तग्रन्धव्याख्यानकारकः । पितामहपदासक्तः पितृपादाब्जभक्तिमान् ॥ १२॥ पितामहस्वरूपत्वज्ञापकैकस्वनामधृक् । पितृपूर्णकरूपत्वख्यापकात्मस्थषड्गुणः ॥ १३॥ अतिमानुषकर्मादिकृतिः श्रीकृष्णरूपधृक् । धर्मग्लानिकृताधर्मनाशनार्थावतारवान् ॥ १४॥ पाषण्डिदण्डिसम्प्रोक्तप्रचण्डाधर्मखण्डनः । स्वधर्मस्थापकोऽखण्डधरामण्डलमण्डनम् ॥ १५॥ योऽतिकोपितपृध्वीशाकारितस्तत्समीपगः । उल्लङ्घिततदीयाज्ञः सत्यसन्धो व्रजे स्थितः ॥ १६॥ आबालवृद्धतुलसीमालातिलकधारकः । कालिन्दीपतिरीशस्तद्विरहानुभवप्रदः ॥ १७॥ क्ष्मेशोक्तिव्याजवाराहक्षेत्रगङ्गासमीपगः । पुनस्तदाहुतिव्याजत्वरितप्राप्तगोकुलः ॥ १८॥ कालिन्दीसङ्गमोत्सुक्यतदीयविरहाक्षमः । नित्यं श्रीगोकुलस्थानयमुनारसभोगकृत् ॥ १९॥ आनन्दकन्दसन्दोहश‍ृङ्गाररसमूर्त्तिमान् । सर्वेन्द्रियसुखासाद्यरसरूपफलात्मकः ॥ २०॥ मुखनिक्षिप्तताम्बूलचर्वितारुणसद्द्विजः । पक्वबिम्बाधरोऽनन्यभक्तदत्ताधरामृतः ॥ २१॥ सुमुखः सुन्दरग्रीवः सुकपोलः सुनासिकः । सुकर्णयुगविन्यस्तसुवर्णमणिकुण्डलः ॥ २२॥ तिलकातिलसद्भाली राजीवदललोचनः । स्निग्धनीलालकवृतः सुन्दरभ्रूयुगान्वितः ॥ २३॥ शुभलक्षणसर्वाङ्गसर्वावयवसौष्ठवः । सम्फुल्लपद्मवक्त्रश्रीदर्शनाकृष्टभक्तहृत् ॥ २४॥ सुस्निग्धमधुरालापो वचनामृतपोषकः । महाकारुणिकाधीशः कटाक्षाकृष्टमानसः ॥ २५॥ चरणप्रणताशेषलोकशरणदाग्रणीः । त्रैलौक्याभरणीभूतः संसारतरणाश्रयः ॥ २६॥ लक्ष्मीविलासनिलयस्तातपादाब्जसेवकः । गिरिधारिपदाम्भोजसञ्चारिभ्रमरायितः ॥ २७॥ हरिगानप्रियो दानशीलः सन्मानकारकः । नित्योत्सवमनाः प्रीतो वनितानयनोत्सवः ॥ २८॥ निजजन्मोत्सवकरः स्वजनाहृतमङ्गलः । द्विजभोजनसुप्रीतो व्रजमङ्गलदायकः ॥ २९॥ ऋषिपूजादिपूर्वोक्तमङ्गलाचारकारकः । सुवासिनीसुमुक्ताक्तपात्रनीराजनाञ्चितः ॥ ३०॥ नारायणकलोत्पन्नरत्नाभरणभूषितः । तत्कुलस्त्र्यञ्जलिक्षिप्तहेमपुष्पप्रपूजितः ॥ ३१॥ निजालयकृतानेकगीतवाद्यमहोत्सवः । सुगन्धिकुङ्कमालेपकारिताशेषमङ्गलः ॥ ३२॥ महानुभावः परमो भव्यमूर्तिर्महाद्युतिः । शुभस्मृतिः शुभध्यानः शुभकृन्नामकीर्तनः ॥ ३३॥ अष्टोत्तरशतश्रीमन्नाममालेयमद्भुता । श्रीवल्लभगणेष्वेवं कृष्णरायेण गुम्फिता ॥ ३४॥ धार्या कण्ठगता नित्यं प्रभुसङ्गरसप्रदा । विशेषतस्तु जप्येयं तदीयानन्यसेवकैः ॥ ३५॥ इति श्रीकृष्णरायेण विरचितं श्रीनामरत्नमालावलिस्तोत्रं सम्पूर्णम् ।