अक्षर आकार:

नामरत्नाख्यस्तोत्रम्

nAmaratnAkhyastotram

नामरत्नाख्यस्तोत्रम्

यन्नामार्कोदयात्पापध्वान्तराशिः प्रशाम्यति । विकसन्ति हृदञ्जानि तन्नामानि सदाऽऽश्रये ॥ १॥ आनुष्टुभमिह च्छन्द ऋषिरग्निकुमारजः । सर्वशक्तिसमायुक्तो देवः श्रीवल्लभात्मजः ॥ २॥ विनियोगः समस्तेष्टसिद्ध्यर्थे विनिरूपितः । श्रीविठ्ठलः कृपासिन्धुर्भक्तवश्योऽतिसुन्दरः ॥ ३॥ कृष्णलीलारसाविष्टः श्रीमान्वल्लभनन्दनः । दुर्दृश्यो भक्तसन्दृश्यो भक्तिगम्यो भयापहः ॥ ४॥ अनन्यभक्तहृदयो दीनानाथैकसंश्रयः । राजीवलोचनो रासलीलारसमहोदधिः ॥ ५॥ धर्मसेतुर्भक्तिसेतुः सुखसेव्यो व्रजेश्वरः । भक्तशोकापहः शान्तः सर्वज्ञः सर्वकामदः ॥ ६॥ रुक्यिणीरमणः श्रीशो भक्तरत्नपरीक्षकः । भक्तरक्षैकदक्षः श्रीकृष्णभक्तिप्रवर्तकः ॥ ७॥ महासुरतिरस्कर्ता सर्वशास्त्रविदग्रणीः । कर्मजाड्यभिदुष्णांशुर्भक्तनेत्रसुधाकरः ॥ ८॥ महालक्ष्मीगर्भरत्नं कृष्णवर्त्मसमुद्भवः । भक्तचिन्तामणिर्भक्तिकल्पद्रुमनवाङ्कुरः ॥ ९॥ श्रीगोकुलकृतावासः कालिन्दीपुलिनप्रियः । गोवर्धनागमरतः प्रियवृन्दावनाचलः ॥ १०॥ गोवर्धनाद्रिमखकृन्महेन्द्रमदभित्प्रियः । कृष्णलीलैकसर्वस्वः श्रीभागवतभाववित् ॥ ११॥ पितृप्रवर्तितपथप्रचारसुविचारकः । व्रजेश्वरप्रीतिकर्ता तन्निमन्त्रणभोजनः ॥ १२॥ बाललीलादिसुप्रीतो गोपीसम्बन्धिसत्कथः । अतिगम्भीरतात्पर्यः कथनीयगुणाकरः ॥ १३॥ पितृवंशोदधिविभुः स्वानुरूपसुतप्रसूः । दिक्चक्रवर्ती सत्कीर्तिर्महोज्ज्वलचरित्रवान् ॥ १४॥ अनेकक्षितिपश्रेणीमूर्धाऽऽसिक्तपदाम्बुजः । विप्रदारिद्र्यदावाग्निर्भूदेवाग्निप्रपूजकः ॥ १५॥ गोब्राह्यणप्राणरक्षापरः सत्यपरायणः । प्रियश्रुतिपथः शश्वन्महामखकरः प्रभुः ॥ १६॥ कृष्णानुग्रहसंलभ्यो महापतितपावनः । अनेकमार्गसङ्क्लिष्टजीवस्वास्थ्यप्रदो महान् ॥ १७॥ नानाभ्रमनिराकर्ता भक्ताज्ञानभिदुत्तमः । महापुरुषसत्ख्यातिर्महापुरुषविग्रहः ॥ १८॥ दर्शनीयतमो वाग्मी मायावादनिरासकृत् । सदा प्रसन्नवदनो मुग्धस्थितमुखाम्बुजः ॥ १९॥ प्रेमार्द्रदृग्विशालाक्षः क्षितिमण्डलमण्डनः । त्रिजगद्व्यापिसत्कीर्तिर्धवलीकृतमेचकः ॥ २०॥ वाक्सुधाऽऽकृष्टभक्तान्तःकरणः शत्रुतापनः । भक्तसम्प्रार्थितकरो दासदासीप्सितप्रदः ॥ २१॥ अचिन्त्यमहिमाऽमेयो विस्मयास्पदविग्रहः । भक्तक्लेशासहः सर्वसहो भक्तकृते वशः ॥ २२॥ आचार्यरत्नं सर्वानुग्रहकृन्मन्त्रवित्तमः । सर्वस्वदानकुशलो गीतसङ्गीतसागरः ॥ २३॥ गोवर्धनाचलसखो गोपगोगोपिकाप्रियः । चिन्तितज्ञो महाबुद्धिर्जगद्वन्द्यपदाम्बुजः ॥ २४॥ जगदाश्चर्यरसकृत् सदा कृष्णकथाप्रियः । सुखोदर्ककृतिः सर्वसन्देहच्छेददक्षिणः ॥ २५॥ स्वपक्षरक्षणे दक्षः प्रतिपक्षभयङ्करः । गोपिकाविरहाविष्टः कृष्णात्मा स्वसमर्पकः ॥ २६॥ निवेदिभक्तसर्वस्वशरणाध्वप्रदर्शकः । श्रीकृष्णानुगृहीतैकप्रार्थनीयपदाम्बुजः ॥ २७॥ इमानि नामरत्नानि श्रीविठ्ठलपदाम्बुजम् । ध्यात्वा तदेकशरणो यः पठेत्स हरिं लभेत् ॥ २८॥ यद्यन्मनस्यभिध्यायेत्तत्तदाप्नोत्यसंशयम् । नानारत्नाभिधभिदं स्तोत्रं यः प्रपठेत्सुधीः ॥ २९॥ तदीयत्वं गृहाणाशु प्रार्थ्यमेतन्मम प्रभो । श्रीविठ्ठलपदाम्भोजमकरन्दजुषोऽनिशम् ॥ ३०॥ इति श्रीरघुनाथजीविरचितनामरत्नाख्यं स्तोत्रं समाप्तम् ।