अक्षर आकार:

मुरलीनादधारास्तोत्रम्

Murali Nadadhara Stotram

मुरलीनादधारास्तोत्रम्

सान्द्राम्भोधरनीलबालवपुषा गोगोपगोपीमनः- कान्तः कान्तकरारविन्दविलसद्वंशीविनोदप्रियः । गोविन्दः कमनीयपीतवसनः गोपालबालावृतः कालिन्दीतटचारिदिव्यचरणः पायाद्यशोदाशिशुः ॥ १॥ देयाच्छ्रेयांसि भूयांस्यखिलजनमनोमोहनानन्दनादः मुग्धस्मेरास्यपद्मारुणशुभकलिकोपात्तमैत्रीविनोदः । नानारत्नप्रदीप्तो मणिमयवलयावीतहस्ताब्जमध्ये भ्राजन्नालोलताम्राङ्गुलिमिलितवपुर्वेणुखण्डो मुरारेः ॥ २॥ पीतं वासो वसानः मणिमयमकुटाबद्धपिञ्छावचूडः वृन्दारण्ये कदम्बद्रुमगहनगतस्सान्द्रनीलाम्बुदाभः । नानारत्नांशुचित्रीकृतधृततपनीयाङ्गभूषासहस्रः स्मेरास्ये संयुयुक्षुर्मधुरसमुरलीं पातु देवो मुकुन्दः ॥ ३॥ आलोलारुणपल्लवाङ्गुलिमिलद्रन्ध्रो मणिप्रोज्ज्वलो मर्त्यामर्त्यसमाजकर्षणकरस्सम्मोहनो देहिनाम् । मन्दं मन्दममन्दमोदसरसप्रेक्षाक्षणोद्भावितो/त्थावितो भूयादस्मदभीष्टपूरणविधौ वेणुर्यदूनां पतेः ॥ ४॥ सम्मूर्छद्वेणुनादामृतसरसि सुखं मज्जता देवदैत्य- मर्त्यानां वा तिरशचां त्वमहमिति भिदा लेशलेशोऽपि कामम् । नासीद्देहत्रयादप्युपरतमनसस्सच्चिदानन्दरूपे भूम्नः पारे महिम्नि स्वनिगमशिखरोत्थार्थबोधान्निमग्नाः ॥ ५॥ श्लाघाचञ्चलमौलिना करलसत्सौवर्णवंशीभृता गोविन्देन सुधानिधानमधुराताम्राधरापूरितः । वेदान्ताम्बुधितीरचारिसुजनव्रातामितानन्दकृ- न्नादो गानसुधाभिवर्षिमुरलीखण्डोद्गतः पातु वः ॥ ६॥ रम्यालोलारुणाङ्गुल्यपिहितविवृतद्वारवेणुप्रगीर्णो मूर्च्छत्सप्तस्वरश्रीमिलितसुमधुरो नादवेदप्रघोषः । श्रोतॄणां भाग्ययोगात्-/पाकात्परमगुरुमुखान्निर्गतो लीलयैव श्रुत्वैवापाकरोति प्रतिभयभवदुर्गाटवीचारखेदम् ॥ ७॥ आचार्यान्नेतिनेतिश्रुतनिगमशिखावाक्यसारानभिज्ञः भो मर्त्या मर्त्यवर्गाः श‍ृणुत सुमधुरं वेणुगानं मुरारेः । स्थूलं ह्रस्वं च दीर्घं महदणु यदुत प्रेक्ष्यते यच्च याव- न्नैवैतत्सर्वमीक्षां कुरुत च मुरलीनादपीयूषमग्नान् ॥ ८॥ मायामर्त्यस्य मायामधुमयमुरलीगानलीनाशयानां मायापाशोपशान्त्या जगदिदमखिलं भाति सान्द्रप्रमोदम् । न त्वं मेने न वाहं न मम न च तवेत्यस्तसर्वप्रपञ्चाः श्रुत्वैवाखण्डसच्चित्सुखपरमहसि प्रापुरैक्यापरोक्ष्यम् ॥ ९॥ जाग्रत्स्वप्नसुषुप्तिभेदकलना बाल्याद्यवस्थास्तथा वर्णाद्याश्रमभेदबोधविषयाः पुंस्त्रीविवेकोऽपि वा । अन्ये चापि भिदास्तदा न हि बभुर्वंशीमुखानर्गला मन्दानन्दनिधाननादजलधौ मग्ना यदा मानवाः ॥ १०॥ ग्रावाणोऽपि द्रवन्ति प्रवहति न नदी नैव वायुश्च वाति सिंहो नैवाभिहन्ति द्विपवरमिभराड्योगचर्यां तनोति । मातापत्यं न वेत्ति प्रियमिति गृहिणी नन्दनश्चापि तातं बिम्बोष्ठाश्लिष्टवंशीस्रवदमृतरवे मायिना गीयमाने ॥ ११॥ नादान्तान्तर्गतं यत्परममहदिति प्रोच्यते योगिवृन्दैः वेदान्तान्तर्गतैश्च स्वमहातवचनैः स्फोरितं यद्ध्यणीयः । वादान्ताविष्कृतं तत्सदिति चिदिति चानन्द इत्यभ्युपेतं नादं ते नन्दसूनो मुरलिनिगदितं किं कदाऽऽकर्णयामि ॥ १२॥ दैत्यास्सन्त्रस्तचित्तास्सुरमुनिनिकराः कौतुकार्द्रान्तरङ्गाः सेन्द्रा देवाः प्रमोदामृतजलनिलये मग्नभावाः प्रकामम् । सिद्धास्साध्याश्च सिद्धिं परममिव गता मानुषा मर्त्यभावा- पेताः कृष्णस्य वंशीनिनदसमाकर्णनादेव चासन् ॥ १३॥ ध्यायेत्कल्पद्रुमूले नवघनसुभगं भानुकोटिप्रकाशं अम्भोजाक्षं रतीशायुतललिततमं बर्हिबर्हावतंसम् । व्यत्यस्ताङ्घ्रिंविनोदात्करधृतमुरलीं न्यस्य बिम्बाधरोष्ठे लीलाबालं त्रिभङ्ग्या विलसितवपुषं नादधाराभिवर्षम् ॥ १४॥ वामांसालम्बिरत्नोज्ज्वलमकरलसत्कुण्डलः कुञ्चितोष्ठ- प्रोद्यन्मन्दानिलेन स्वनिगममुरलीं पूरयन् मन्दमन्दम् । उन्नद्धभ्रूविलासस्फुरदुरुकरुणापाङ्गधाराभिवर्षी नादालापानुखेलच्चलमकुटतटः पातु पीताम्बरो नः ॥ १५॥ गोविन्दो मित्रवृन्दैः परिवृत उषसि प्रस्थितस्सुन्दरेण वेषेणाभूषितस्सन्कुतुकितमनसा घोषयन् श‍ृङ्गमुच्चैः । गोवृन्दं कालयन् श्रीयदुकुलतिलकः कानने गोपगोभि- रावीतो गीतवेणुर्वितरतु सकलं चिन्तितार्थं मुकुन्दः ॥ १६॥ रूपे यस्य त्वनन्ते नदजलधिनदीकूपवापीगिरीन्द्र- ग्रामग्रामीणपुर्याद्यचरचरगणा वृन्दशः प्रादुरासन् । तत्सर्वं संहृतं च प्रियतमवपुषा मोदबोधं प्रयच्छ- न्नेवं वंशीनिनादेऽप्यभवदिह भिदा शान्तविश्वस्वरूपम् ॥ १७॥ विश्वेशे विश्वरूपं कलयति विजये पश्यति स्वाभिपक्षं विश्वाधीशस्य वक्त्रं विशदथ सभयं प्राप्तबोधो व्यरंसत् । तस्माज्जातानि जीवन्त्यपि परमहसा यत्प्रयन्तीति भूम- गीतो बोधो य आसीत्स हि मुरलिकया गीत एवाभवत्प्राक् ॥ १८॥ सारथ्यं पाण्डवस्य स्वचरणशरणस्याचरन्नाजिभूमौ सारं स्वं शात्रवं चाकलयति नितरां फल्गुने स्यन्दनस्थे । सारम्भान् बन्धुमित्रप्रियगुरुनिवहान् वीक्ष्य चापे निरस्ते सारं बोधाय योऽदात्स गुरुरिह मुदे गीतवान् वेणुनादम् ॥ १९॥ पार्थस्यापार्थभावप्रशमनमिषतस्सात्वतानां शरण्यः पार्थक्यं पार्थिवश्रीमदकृतमिति यद्बोधयामास गीताम् । पार्थ त्वं कर्ममात्रं कुरु फलविषये मुञ्च चिन्तां दुरन्तां पार्थप्रेष्ठो यदूचे तदनु च गदितं वेणुगानेन पूर्वम् ॥ २०॥ नित्यो मुक्तोऽमृतोऽयं परशिवसुखचिच्छाश्वतो वा पुराणः आत्मा तस्माच्छरीरे हतिमुपलभते नैव चाहन्यमाने । तद्धित्वा जीर्णवस्त्रं नवमिवपुरुषो देहमन्यद्बिभर्ति को मोहस्तत्र शोकः विजय इतीवाह वेणुप्रणादः ॥ २१॥ गोपीमण्डलमण्डनो मुरलिकां पाणिद्वयेनोन्नमन् आताम्राधरबिम्बमन्दमरुता मन्दं मुदा पूरयन् । गोपीचन्दनकल्पितोर्ध्वतिलकं वक्त्रं समुद्योतयन् पायाल्लोकममन्दमोदजलधावामज्जयन् केशवः ॥ २२॥ वंशीनादे मुरारेर्वनभुवि मधुरे मूर्च्छति श्रोत्रयुग्मं कर्तुं पद्मोद्भवस्य श्रममतिवितथं मन्यते सर्वलोकः । स्वं स्वं कर्तव्यमर्थं झटिति च विगणय्यैव तत्रैव लीनो लग्नश्चित्रे यदासीदिव च निगमवाग्भातयोगप्रतिष्ठः ॥ २३॥ नादारोहावरोहैर्मधुरिपुमुरलीप्रोत्थितैः कालचक्रे भ्राम्यज्जीवव्रजस्य प्रतरणविधये योग एवोपदिष्टः । गानारूढस्य नस्तो जनिमृतिदुरिते पश्यताशेषजीवाः ब्रह्मप्राप्तो विमृत्युः किल भवति यथा तत्त्वमस्यादि वाक्यात् ॥ २४॥ आलापारोहवीचीचलदुरुशिखरान्मन्दमन्दावरोह- भङ्ग्या निष्यन्दमाने यदुपतिवदनाद्वेणुनादामृतोदे । तापात्तीरे पयोधेर्विहरणशरणास्तत्तरङ्गार्द्रवात- सिक्ता हृष्टा यथात्राप्यपरिमितसुखास्तापमुक्ता भवन्ति ॥ २५॥ पीयूषास्वादलोले दिवि सुरनिकरे मोदमग्ने मुनीन्द्रे वीणागानैकलीले सुरवरगणिकामण्डले नृत्यति द्राक् । उद्युक्ते स्वस्वकर्मण्यचरचरगणे गीयमानो मनोज्ञ- नादोऽतानीत्समेषाम्मधुरिपुमुरलीक्वाणघोषान्तरायम् ॥ २६॥ विक्षिप्याशेषहैमामृतभृतचषकान्यम्बरस्थास्सुरौघा निश्चेष्टाध्वस्तवीणस्स खलु सुरमुनिः श्लाघया मौलिकम्पी । चित्रारब्धा इवासन् कुतुकितहृदयादेववध्वो मुरारि- कान्ताताम्राधरोष्ठार्पितमधुमुरलीमोहनालापमग्नाः ॥ २७॥ केलीलोले कदाचिन्मरकतमणिसच्छायकाये निशीथे निद्राऽऽक्रान्ते जनौघे शशिसुभगतमे यामुने सैकते च । देवे पद्मासनस्थे करयुगलसमुन्नीतवेणुप्रकाण्ड- गानस्वानप्रबुद्धास्सुरनरनिकराः पादमापुः परस्य ॥ २८॥ वेदैर्वेद्योऽहमेविप्यखिलजनमनस्सन्निविष्टः श्रुतीना- मूर्ध्नां कर्तावबोद्धा प्रकृतिगुणगणासङ्गशुद्धोऽथ नित्यः । तन्मां वेदान्तवीथ्यविचिनुतहृदये साधवस्साधनाय स्वान्ते शान्त्येति बोधं दिशति हि भगवान् वेणुवेदोपदेशात् ॥ २९॥ सर्वे वेदाः पदं यत्परममभिवदन्त्याप्तुकामाः फलं य- दासेवन्ते तपांसि प्रियमिति किमु वा ब्रह्मचर्यं चरन्ति । तत्सत्यं धाममात्रात्रितयसुविवृतब्रह्मनादाख्यवेद- बीजोद्गीथो मुरारेर्मुरलिनिगदितस्सिद्धिमृद्धां विधत्ताम् ॥ ३०॥ भूषादिप्रेन्द्रचापो यदुकुलगिरिभूर्भक्तिपौरस्त्यवात- नुन्नो हैमाम्बरश्रीक्षणलसितवृतश्चारुपिञ्छावचूडः । श्रीकृष्णाख्या प्रसिद्धः करधृतमुरलीनादपीयूषवर्षी स्निग्धश्यामाम्बुवाहः कलयतु कुशलं योगिकेकिप्रकर्षः ॥ ३१॥ कान्तं तातं सुतं वा दुहितरमथवा मातरं वान्यबन्धून् एत्यानन्देन युक्ता रुषमथ च गता वेश्मधर्मे निरूढाः । श्रुत्वा कस्मात्तु लीलामनुजमधुरिपोर्वेणुनादामृतं तत् पायं पायं न तृप्ताश्चरणमुपगता गोपिकाश्चक्रपाणेः ॥ ३२॥ वृन्दारण्ये विहारी सुरनरशरणो गोपिकाजीवधातु- र्गोविन्दाख्याप्रसिद्धो व्रजभुवि विलसन् सुन्दरो नीलमेघः । भक्तानं कामवर्षी कनकमयलसच्चेलविद्युत्परीतः श्रेयो दद्यात्कराब्जोद्धृतमुरलिकया नादधाराभिवर्षी ॥ ३३॥ मन्दं मन्दमुपेत्य सुस्मितशरत्पूर्णेन्दुबिम्बोल्लस- द्वक्त्रं प्रोज्ज्वलचारुरत्नविरणन्मञ्जीरपादाम्बुजम् । स्निग्धश्यामलकोमलाभ्रतुलितानङ्गायुतश्रीधरं देवं हस्तगृहीतवेणुशकलं बालं कदाऽऽलोकये ॥ ३४॥ मा मा मर्त्य विषीद मामकमिदं रूपं समालोकय वीक्षस्वामलशारदाखिलशशिप्रस्पर्धि वक्त्रं मम । मज्जापाङ्गकृपोदके श‍ृणु रवं मञ्जीरजं पीयतां वंशीनादसुधा च माधव कदा मामित्यहो वक्ष्यसि ॥ ३५॥ आविर्भूय ममाग्रतश्शतसहस्रार्काधिकप्रोज्ज्वलः नीलाम्भोधरचारुताहरवपुः पीताम्बरालङ्कृतः । नानारत्नविचित्रभूषणधरो वेणुं रसात्कूजयन् गोपीमण्डलमध्यगो मम कदा कुर्यान्मुदं चक्षुषोः ॥ ३६॥ आदौ भाण्डीरवृक्षं तदनु च परितो गोसहस्रं सखींश्च गोपान् गोपीश्च मध्ये यदुकुलतिलकं वृक्षमूले निषण्णम् । मेघश्यामं शुभाङ्गं करधृतमुरलीगानलोलं कृपालुं दीनं मां सान्त्वयन्तं जनुषि मम कदा नेत्रपात्रीकरोमि ॥ ३७॥ वामांसाञ्चितवामकुण्डलभरो दभ्रोन्नतभ्रूलता- रम्योद्भ्रान्तसुदीर्घपद्मनयनसुस्मेरवक्त्राम्बुजः । बर्हापीडचलच्छिराः करसमुन्नीतार्यवेणुं मुदा कुञ्जत्ताम्रशुभाधरार्पितपदं गायन् स पायाच्छिशुः ॥ ३८॥ तेजःपुञ्जं पुरस्तान्नवघनवपुषं सर्वभूषादिरम्यं विद्युद्विद्योतिचेलं भुजधृतमुरलीं नादयन्तं स्मरामि । देवो दीनार्तिहन्ता मम कलुषभरं भञ्जयन्नब्जनाभः आविर्भूयात्कदा नु प्रणवमयसुधानादमोदं वितन्वन् ॥ ३९॥ श‍ृण्वन् वंशीनिनादं निमिषमिव नयन् वासरान् वत्सरान् वा गानानन्दामृताब्धावनुपमसुखदे गाढजातावगाहः । विस्मृत्याशेषलोकान् भवविपिनगतिं तापवर्गं च हित्वा पादं दामोदरस्य ध्रुवशिशुविषयं प्राप्नुयां भाग्यतः किम् ॥ ४०॥ (कारुण्याब्धे कथं वा तव चरणरतिं प्राप्नुयां नाथ दीनः ॥ ४०॥) अज्ञे मे निगमादिकर्तुरनघे वेदस्मृतीशाश्वते यस्तूल्लङ्घ्य यथेच्छमत्र विहरत्याप्नोति घोरां गतिम् । इत्युद्घुष्य जगत्परीक्षणविधौ वेणुं क्वणन्नादरा- न्नादामग्नचराचरं स भगवान् पश्यन्ननृत्यन्मुदा ॥ ४१॥ तात्पर्यं परमं हि पाण्डवसखे सर्वश्रुतीनां मतं पाराशर्यवचस्सु तत्प्रतिपदं विद्योतते सुस्फुटम् । तत्साक्षादिह कर्तुमाश्रितजनत्राता स्ववंशीवरं गायन्नादवशीकृताखिलजनं पादाश्रितं प्रैक्षत ॥ ४२॥ गायन्तं वेणुमुच्चैर्वनभुवि दयितं वल्लवीसुन्दरीणा- मावीतं नारदाद्यैरसुरसुरगणैस्सिद्धसाद्ध्यैश्च नाके । गोपीगोगोपवृन्दैर्वलयितमतसीगुच्छसच्छायकायं मायाबालं कदा वा नयनयुगमुदालप्स्यसे नन्दसूनुम् ॥ ४३॥ रासेशं रासगोष्ठ्यां व्रजकुलयुवतीमन्तरेणान्तरेण नृत्यन्तं नर्तयन्तं करधृतमुरलीं कूजयन्तं जयन्तम् । पश्येयं भागधेयाद्भवजलधिमहादुर्गपोतं वरेण्यं मायागोपालबालं कलरवकलितानन्दसान्द्रं मुकुन्दम् ॥ ४४॥ जारं मत्वापि गोप्यो यदुपतिमुरलीनादमोदातिभार- स्तब्धाङ्ग्यो नन्दसूनुं नवघनसुभगे बर्हिबर्हावतंसे । सम्मग्नाश्चारुरूपे शुचमपि विजहुः प्रापुरैक्यं पदाब्जे तत्सद्बुद्ध्या प्रपन्नाः किमु चरणतरिं नाप्नुयुः केशवस्य ॥ ४५॥ भक्त्या त्वय्यादिदेव व्रजकुलवनितास्त्वामबध्नन् महेश त्वद्भक्ताग्रेसरत्वं जगति हि सकले लेभिरे राधिकेश । तादृक्कारुण्यसिन्धो निरुपमकृपया देवकीभगधेय दीनं मां पाहि पाहि स्वकरधृतनदद्वेणुमन्त्रोपदेशात् ॥ ४६॥ कन्दर्पायुतकोटिकोटिसुभगं पीताम्बरालङ्कृतं ग्रैवेयाङ्गदकङ्कणादिलसितं चारुक्वणन्नूपुरम् । विस्मृत्यापि भवन्तमीश भवतस्ताम्राधरारोपित- श्रीवेणूच्चरदार्द्रनादलहरीं नो विस्मरेयं विभो ॥ ४७॥ मा गा मा गा विषादं त्यज मनसि भयं शान्तिमन्तर्भजस्व मत्पादाब्जं प्रपन्नो न हि भजति जनो दुर्गतिं तात सत्यम् । तत्त्वं तत्त्वं मदीयं श‍ृणु परसुखदं मा रुदो मा रुदेति नादालापेन वेणोर्मम मनसि कदा मोदमीशो विदद्ध्यात् ॥ ४८॥ श्रोतव्यो मन्तुमर्हस्तदुपरि नितरां ध्यानगम्यश्च वेदे- ष्वात्मावारेति मर्त्यं विपदि निपतितं प्रेक्ष्य सूत्रं दयार्द्रम् । तत्र श्रोतव्यमेव प्रवरमिति यतस्तत्त्वबोधो विभाती- त्येवं श्रीवेणुनादश्रुतिधृतमनसां कृष्णभक्त्या स्फुटं हि ॥ ४९॥ श्रुत्या श्रुत्यन्तगीर्भिर्भवभयदलने ब्रह्मविद्यैव गम्ये- त्येवं तात्पर्यधृत्या स्फुटतरमपि या बोधिता माधवेन । लब्धा चेत्सद्गुरोस्सा विदधिकशुभदास्यादितीर्त्थं जनाना- मन्तर्बोधाय मोदात्परमगुरुरसौ वेणुनादं जुघोष ॥ ५०॥ आत्मारामा मुनीन्द्रास्सततमननतश्छिन्नपाशाः प्रशान्ताः निर्द्वन्द्वा अप्यनन्ते रतिमधिकमुदा तन्वते चित्रमेतत् । तन्मूलं वन्यमालाललितजलदनीलाभमायाकिशोर- कूजद्वेणुप्रमूर्च्छन्मधुरनिनदितामग्नतां मन्महे च ॥ ५१॥ योगेनान्तर्निरुध्यानिलमथ यमिनो मोदनादानुबन्धं प्रेष्ठं लब्ध्वा विरक्ताः परमहसि युता इत्ययं सुप्रसिद्धः । तादृङ्नादानुभावं स्थिरचरनिकरप्रीतये दातुकामः कामाकल्पाभिरामः कलरवमुरलीनादमोदं वितेने ॥ ५२॥ दासीपुत्रोऽतिबालो द्विजवरकृपया प्राप्तसेवानुभावो ध्यायन् देवं मुकुन्दं सकृदिह सरसं प्रैक्षताक्षेण साक्षात् । भूयो द्रष्टुं स यत्तो न हि पुनरिह मां द्रक्ष्यसीतीरितोऽथ भूत्वा वीणामुनीन्द्रो मुररिपुमुरलीगानलोलोऽजनिष्ठ ॥ ५३॥ नादास्वादानुभावं विबुधमुनिवरः प्राप्तुकामे यशोदा- सूनोश्छात्रत्वमादावभजत मुरलीगानमाकर्णयच्च । तत्तत्त्वानिश्चयेनाकलुषितहृदयः वीणया साधयन् यः कालेनानन्तलीलारसकथनमहागायकत्वं प्रपेदे ॥ ५४॥ अन्तर्णादप्रणालीपरिचयविधये प्राग्यशोदासुतस्य वंशीनादानुसन्धामकुरुत सुचिरं नारदश्छात्रभावे । आचार्यस्येति वेणुं करपरिकलने नास्म्यहं शक्नुयामि- त्याचारेणादरेण स्वनिगमदमतं वीणयैवाजुघोष ॥ ५५॥ देवस्यैव प्रसादादखिलजनिमतां देशिकेन्द्रस्य कामं त्रैलोक्यान्तर्यथेच्छं विहरणपरमो वीणयाबोधयच्च । वेणोर्नादप्रभावं मुररिपुगदितं मर्त्यवर्गस्य शान्त्यै नादान्ते बोधदं चाकलयत मुरलीहस्तमित्यभ्रनीलम् ॥ ५६॥ सामोदं हस्तपद्मोन्नमितशुभलसत्पक्वबिम्बाधरोष्ठं न्यस्तश्रीनादधानीमणिमयमुरलीगानलीलाविलोलः । धाम स्वं नादधारापतितपरवशप्रेष्ठपादाश्रितानां जीवानां सन्ददानः करिवरवरदः पातु देवो मुकुन्दः ॥ ५७॥ यद्वेणुप्राणनादश्रवणहृतधियां स्थावराणां चराणां नासीद्भेदो न चाभूज्जनिकृतविषमप्रत्ययो वा तदात्वे । सद्यस्ते धूतपापास्सकुतुककरुणापाङ्गधाराभिषिक्ताः कामं नादामृतादास्सततमपि तथा भावमावव्रिरे च ॥ ५८॥ यद्यद्वा मधुसूदनस्य चरितम्माधुर्यधुर्यम्मतं तत्रापि प्रियमेकमेव बहुशः प्रेश्क्ष्यापि वीक्षामहे । यन्मायाशिशुभावमेत्य सदयं गोगोपगोपाङ्गनाः सद्यः श्रीमुरलीनिनादविजितत्रैलोक्यबोधं व्यधात् ॥ ५९॥ वृन्दारण्यस्थलेषु प्रकटितकपटश्यामडिम्भं कदाचित् गोवत्सांश्चारयन्तं मधुमथनविभुं गोपबालैर्ललन्तम् । प्रेक्ष्याजोऽजावशं तं निखिलमपि हरन्नप्यसौ स्वेशशक्त्या सृष्ट्वा सर्वं पुरेव स्वरितमधुझरीं वेणुनेशो ववर्ष ॥ ६०॥ अब्दान्ते मायि मायां सुनिपुणमवलोक्येशितुस्तां विभूतिं धाताभूच्छान्तदर्पःस्वकलितदुरितं क्षन्तुमीशं ययाचे । अस्तौद्वंशीनिनादामृतभणितिसमाकर्णनानन्दमग्नो भूम्नस्तत्पादपङ्केरुहविरहभियानिन्ददाद्यस्स्वधाम ॥ ६१॥ कर्मज्ञानेशभक्तिप्रकरणगहनापारवेदाम्बुराशिं स्वेच्छामन्थानदण्डावलितगुणविदा यत्नहस्ताञ्चलेन । मथ्नन् मायाकिशोराकृतिरिह जगतीबालकस्यार्तिशान्त्यै वंश्यादान्नादवेदामृतमतिमधुरम्म्मोदयन्नादिदेवः ॥ ६२॥ प्राणानायम्य सम्यङ्नियमितमनसा येगिभिः स्वाद्यमानो नादश्चानाहताख्यः किमु सुखद इति प्राप्तशङ्काकुलानाम् । वैशद्यायान्तरं तं निनदितममृतास्वादवेणुप्रगीर्णं सम्मोदायाजुघोष व्रजभुवि विहरन् कोऽपि गोपीमनोज्ञः ॥ ६३॥ वेदो धर्मार्थकामामृतपदगमकस्तत्तदिच्छानुरूप- सारस्सेव्यज्जनानामिति तु सुविदितस्तद्वदत्रापि मर्त्याः । वेदप्रोक्तुर्मुरारेर्मुरलिनिनदितानन्दनादाख्यवेद- सेवालोला भजन्ते फलमपरिमितं पादभक्तिं च भूम्नः ॥ ६४॥ ओमित्येवं प्रणादस्त्रिविधनिगमवाक्सारभूतोजविष्णु- रुद्रात्मा लोकरूपी श्रुतिमय उभयब्रह्मरूपी प्रसिद्धः । तं नादं वेणुनासौ सरसमनुनदन् नादवेदार्थरूपी तुर्यं स्वं धाम भक्तान् प्रतिनिगमयति श्रीहरिः पादभक्त्या ॥ ६५॥ गानाकृष्टास्तदन्ते मधुरसविरहात्पादमूलं प्रपन्नाः त्वं वै सर्वं त्वदन्यं न हि निखिलगुरो वेद्मि मां पाहि दीनम् । इत्थं नादान्तदीप्तं परमपि पुरुषं बोधयित्वाञ्जसैव नादस्योङ्कारतत्त्वं स्फुटमपि कलयन् वासुदेवो बभासे ॥ ६६॥ शिञ्जद्रत्नप्रदीप्तप्रणिपतितजनाभीतिदानैकदक्षं मञ्जीरं मञ्जुपादाम्बुजलसिततमं तालदाने नियुज्य । देवो दीनार्तिहन्ता मम मनसि मुदं स्यन्दयन् वेणुगानं लीलालापप्रकारं किमु मम पुरतः स्वीकरिष्यत्यनन्तम् ॥ ६७॥ आत्मा सच्चित्सुखात्मा व्यपगतकलुषद्वन्द्वमोहः स्वदीप्त्या सर्वं व्याप्यावतिष्ठन्नकृतकवचनैर्वेद्यरूपो विभाति । तं चात्मानं रसो वै स इति रसघनं यं समाश्रित्य याति चानन्दं चेति वेदं निगमयितुमसौ वेणुनादं जुघोष ॥ ६८॥ राकाचन्द्राभिरम्यैर्निशि विपिनतटे वेणुमुच्चैर्विनाद्य सद्यस्संप्राप्तगोपीजननिवहवृतस्ताभिरीशस्तु रेमे । तास्त्यक्त्वान्तर्धिमाप प्रभुरिति महता शोकभारेण गोप्य- स्ताम्यन्त्यस्तत्तु नादं मणिमुरलिभवं शुश्रुवुः श्रीधरस्य ॥ ६९॥ श्रुत्वा नादं मुरल्याः क्वनु किल मुरलीगानलोलो भवेदि- त्येवं नादाख्यतन्त्या नियमितमतयस्तत्समीपं ययुस्ताः । यातार्याः मात्रवासं कुरुत कुलवधूदूषणं चेति गोप- बालोक्ताश्शोकतान्ताः कलमुरलिरवैस्तोषयामास तन्वीः ॥ ७०॥ चन्द्र त्वं पूर्णचन्द्रप्रतिभटवदनं हेत(??)मालामलाभं कुन्द त्वं कुन्ददन्तं नलिनि तु नलिनीपत्रनेत्रं त्वपश्यः । एवं गोप्यस्सकामा यदुजलधिशशिं देवमन्विष्य याताः कान्त्या कन्दर्पतुल्यं मणिमयमुरलीगानलोलं स्वपश्यन् ॥ ७१॥ शर्वब्रह्मेन्द्रमुख्या गगनभुवितता व्योमयानैर्निलिम्पा- श्चित्रन्यस्ता इवासन् स्थिरधृतकरणाः कौतुकाकम्पिशीर्षाः । राधाकान्तस्य कान्तस्वनितमुरलिकानादमाधुर्यसक्त- चित्ताश्शक्ता न तत्त्वं सुनिपुणमनुचिन्त्यापि वक्तुं च वेत्तुम् ॥ ७२॥ आनन्दोद्रेकरूपान्मधुरसमधुराद्यन्मनोज्ञान्मनोज्ञ- मानन्दं स्वादु हृद्यं मधुरिपुमुरलीनादमाधुर्यधाम । नित्यं सत्यं विधत्तां मम हृदि कुतुकं मत्तमत्तेभहन्ता स्वान्तं मे गानशैलीपरिचयविशदं चास्तु शान्तं नितान्तम् ॥ ७३॥ गाने पीयूषधाराधिकमधुरतमे स्यन्दमाने मुकुन्द- सेवाहेवाकिदेवप्रकरमुनिजनानन्दसन्दहरूपे । को देवः को मनुष्यः किमु जडमितरच्चेति विभ्रष्टभेद- भावाल्लीनं यथाभूदुपरतसकलं यत्पुराभासत द्राक् ॥ ७४॥ मत्स्ये दृष्टं न चैतत्सकरुणचरिते कच्छपे नैव दृष्टं एवं कोले नृसिंहे सुरमुनिविनुते वामने नापि जातम् । रामे रामे न रामेऽप्यभवदिह यदुष्वेष कृष्णेति नाम्ना यच्चक्रे चक्रपाणिर्मणिमयमुरलीगानलीलाविनोदात् ॥ ७५॥ त्रातुं देवान् कमलनयन त्वं पुरा कल्पसिन्धौ धृत्वा मात्स्यं वपुरपि विभो चित्रचर्यां कृतोऽसि । किं चापास्त्वं रविसुतमनुं चाक्षुषे सम्प्लवे च सर्वं भूमन् तव मुरलिकानादधारासमं किम् ॥ ७६॥ उद्धृत्य क्ष्मां दितसुतबलप्रापितां श्रीवराह- मूर्तिं धृत्वा जलनिधितटं प्राप्य दैत्यं च हत्वा । धात्रीं यज्ञः पुनरपि पुरेवाब्धिमध्ये निवेश्य यत्कृत्यं ते ननु मुरलिकानादधारासमानम् ॥ ७७॥ पीयूषं प्राप्तुकामे दितिजसुरगणे क्षीरपाथोनिधानं मथ्नत्या मग्नमन्थक्षितिधरमधरः पृष्ठतः कूर्ममूर्तिः । चित्रं यत्तत्कृपाब्धे तव शुभचरितं श्याममूर्ते तथापि कृष्णस्सन् वेणुनादामृतरसकलनाचित्र तुल्यं नु भाति ॥ ७८॥ दैतेयानामघं द्राक् शमयितुमखिलत्रास्ति देवो मुकुन्द- इत्युक्तिं भक्तवश्यः पदकमलभृतस्सत्यमेवाथ कर्तुम् । भित्वा स्तम्भं सभायां नरहरिवपुषाभ्येत्य दैत्यं विदीर्यन् देवांश्चापादितीदं चरितमपि विभो वेणुनादेऽधमर्णम् ॥ ७९॥ उपेन्द्रः प्राग्भूमिं दिवमथ च शीर्षं स्वकपदै- स्त्रिभिः क्रान्त्वा दैत्यं बलिमथ रुरोधातलभुवि । पुरा खर्वः पश्चादुरुधृतशरीरस्सुरपतिः व्यधाच्चित्रं वृत्तं तदनु मुरलीनादतुलितम् ॥ ८०॥ अयोध्यायां श्रीमान् दशरथसुतो राम इति च स्वयं जातस्तातप्रकथितमृतं कर्तुमटवीम् । अटन्नब्धिं बद्ध्वा दशवदनमाजौ च हतवान् चरन् देवाभीष्टं तदपि न तुला वेणुविहृतेः ॥ ८१॥ कृष्टे दुश्शासनेन द्रुपदतनुभुवः कौरवाणां सभायां केशे कौशेयके च व्रजपतिशरणां केशव द्वारकेश । हा कृष्णेत्यारुदन्तीं सकरुणहृदयस्तामनाथामरक्षः किं मां दीनं न पासि प्रियमधुमुरलीनादधारामृतेन ॥ ८२॥ यूथैर्मोदात्तटाकं द्विरदकुलपतौ गाहमाने महोग्र- ग्राहाक्रान्तेति दीने बहुतरमभियुज्यापि वैफल्यभाजि । त्रायस्वानाथबन्धो वरद इति नदत्यात्तचक्रोऽथ नक्रं भित्वा रक्षां व्यतानीः किमु मम शरणं वेणुगानं न रासि ॥ ८३॥ कंसप्रेक्ष्यां कदाचित्तव सदनगतामिन्दिरासुन्दराङ्गीं डोलायां राजमानं मरकतवपुषं छद्मगोपालबालम् । धृत्वा स्तन्यं दिशन्तीमहनदपि ददौ यो गतिं योगिगम्यां दीने किं वा कृपाब्धे न किरसि मुरलीनादधारामृतोदम् ॥ ८४॥ आर्तानामार्तिशान्त्यै जगति सुविदिताभीष्टदा नादधारा तत्ते हृद्यं पदाब्जं भवकलुषहरं हे मुरारे भजेऽहम् । तन्मह्यं क्षुत्पिपासापरवशितहृदे देहि ते बालकाय क्षिप्रं त्वद्वेणुनादामृतमधुरपयःपूरमानन्दरूपम् ॥ ८५॥ कैशोरे वेणुगीतं सरसमुपनिशम्यापि कालातिपातात् पार्थो नष्टस्मृतिस्त्वां सुहृदमथ रणे स्यन्दनस्थं ह्यपृच्छत् । सर्वं तद्गीतिकार्थं यदुकुलतिलको बोधयस्त्वं हि साक्षात् तन्मूसं वेणुनादं क्वनु किल सुकृती माधवाकर्णयेयम् ॥ ८६॥ मायामर्त्यस्य मायामयचरितशतेष्वप्यसङ्घ्येषु जाग्र- त्स्वत्र श्रीगोपनारीजनरमणकृतं चित्रमेतच्चरित्रम् । तत्रापि श्रीयशोदासुतवदनमरुत्पूरितानन्दनाद- धारासारेण वेणोः कलिमलमथनं यच्चरित्रं पवित्रम् ॥ ८७॥ मात्रा कालकलाकलापविवृतेषूच्चावचत्वं गते- षूच्चैस्ताललयादिजातिविलसद्रागेषु नैकेषु च । मूर्च्छत्सूत्सुकदेवकीसुतमुखाम्भोजोच्चरद्वंशिका- नादानन्दसुधाझरीषु विहरन् धन्यो भवेयं किमु ॥ ८८॥ पारावारात्प्रगद्भत्तरलतरतरङ्गालिमालेव रम्यो भूयो भूयोऽनुगच्छद्गतिलयललितोद्गीतरागप्रकाण्डः । लीलागोपालबालस्मितसुभगतमारक्तबिम्बाधरोष्ठ- न्यस्तश्रीवेणुनादः श्रवणपुटगतः स्याद्यदि स्यां हि धन्यः ॥ ८९॥ नादानन्दामृतोदा नवरसभरिता रागकल्लोलमाला मात्रातालप्रपञ्चप्रकटितविविधावर्तगर्ता मनोज्ञा । नादारोहावरोहक्रमसमविषमा गीतिकाबुद्बुदा च वेणुद्वारेण दिव्या निपतति तटिनी भूतये नः कृपार्द्रेः ॥ ९०॥ नादे वंशीसमुत्थे श्रवणपुटगते देवतिर्यङ्नराणां सिद्धानां चारणानां स्थिरचरजगतां स्वान्तपद्मानि जग्मुः । सर्वं ब्रह्मेति तत्त्वं भवसि च मनसो यन्मनश्चेति तत्त्वं मोदादालग्नभावाः परमहसि रता वासुदेवाभिधाने ॥ ९१॥ यच्छ्रेयः श्रेयसोऽपि प्रियतमविषयं प्रेयसोऽपीष्टमिष्टात् कान्तं कान्तान्मृदिम्नो मृदुगुरुगुरुणो यद्ध्यणोरप्यणीयः । मूर्च्छन्नाभीरयोषित्प्रियशिशुमुरलीमोहनालापनादो भूयाः कामाय नः स्यादभिमतसकलाभीष्टदस्सर्वदापि ॥ ९२॥ राकाचन्द्रसमुज्ज्वलाच्छयमुनातीरे स गोपैर्वृतः मूले नीपतरोर्नवीनजलदश्यामो मुरारिर्मुदा । मन्द्रं मञ्जुकराङ्गुलीर्विवरकेष्वालोलयन् यादव- प्राणो मोहनवेणुगानरसिकः पायाद्यशोदाशिशुः ॥ ९३॥ वृन्दारण्ये तृणचरगणानुद्रुतश्शक्रनील- च्छायादीप्यन्मदनमदनो नन्दगगोपालसूनुः । वेणुं कूजन् वनभुवि चरन्मुग्धगोपालबाल- मित्रैर्वीतः प्रहसितमुखः पातु वंशीविनोदः ॥ ९४॥ गोपीकामावतारस्सुललितविचलन्मूर्धनेत्राभिरामः बिम्बोष्ठन्यस्तवंशीमधुमधुरगिरा मोदयन् योगिवृन्दम् । व्यत्यस्ताङ्घ्रिर्मुरारिर्व्रजकुलवनितामण्डलान्तर्विलासा- न्नृत्यन्नत्यन्तमीशः प्रदिशतु सकलं मङ्गलं गानलोलः ॥ ९५॥ नीपस्कन्धं किसलयसुमव्रातसंवीतचारु- कश्चित्स्थित्वा सुरपतिमणिश्यामकामाभिरामः । हस्ताब्जेन स्वरदसुषिरान् छादयन्नन्यहस्ते- नोष्ठप्रान्ते परिचयवता वेणुना सञ्चुकूज ॥ ९६॥ पर्यायेण स्वयमभिमृशन् हस्तशाखाभिरेव द्वाराण्यारादुपरि मधुरे न्यस्य बिम्बाधरोष्ठे । वेणुं गायन् कमलनयनः कोऽपि तापिञ्छवर्णः कामान् दुग्धे कलरवसुधानादमग्नाशयानाम् ॥ ९७॥ वंशीरत्नं नलिनसुभगेनाग्रहस्तेन चारु बिम्बस्तम्भाहरणमसृणारज्यदोष्ठे निधाय । दन्तानीषच्छशिकरनिभान् भासयन्नन्तरेण वक्त्रेन्दुस्ते जयति जगताम्मोहकस्ते प्रगातुः ॥ ९८॥ (गानारम्भे तव मुखशशी राजते मे हृदब्जे) लोकान् सप्ताप्यमितनिजसन्नादभूम्नामृतेन सिञ्चन् रन्ध्राकलितरुचिराग्राङ्गुलीन्यासमित्रः । वक्त्राब्जे ते भ्रमरसुषमं नृत्यरङ्गे सुनृत्य- न्नेत्रद्वन्द्वं बहु विजयते लोकतापापहारी ॥ ९९॥ नादाक्रान्ते जगति हि जनस्सद्य एवातिमोहा- दाविष्टान्तास्सममनुपतन्त्यर्भकैर्दारवर्गैः । भुक्त्वा दुक्त्वा निरवधिसुखं भूय एवातितृप्ताः सङ्कल्पेनाप्यविदितभिदस्त्वां हि नाथं भजन्ते ॥ १००॥ आरुह्यामन्दमोदात्प्रसवभरलसन्नीपवृक्षं समन्ता- च्छीतांशोरंशुजालैर्धवलितविषये हन्त दिक्चक्रवाले । जाते कस्मान्निशीथे जनरवरहिते श्यामगम्भीरवेषो विश्वेषाम्मोहनाय श्रितकपटनयो वेणुना सञ्चुकूज ॥ १०१॥ राकाखण्डेन्दुबिम्बद्युतिहरवदनोल्लासि बिम्बाधरोष्ठे मन्दं मन्दं करेण प्रखचितमणिमद्वेणुखण्डं निवेश्य । सान्द्रानन्दामृताब्धिर्मुखलवमरुतापूर्य सम्मोहनाख्यं रागं रागेद्धरन्ध्रार्पितकरकलिको मोहयन् सन्ननाद ॥ १०२॥ गत्वा वृन्दावनान्तं तरुवरनिबिडं गोपयोषाविभूषाः नीपस्कन्धाधिरूढं मणिमुरलिधरं बालगोपालवेषम् । नीलापाङ्गैस्तरुण्यस्सुरपतिमणिसच्छायकायं किरन्त्यः प्रेम्णा कन्दर्पदर्पप्रमथनवपुषः पादपद्मं प्रपन्नाः ॥ १०३॥ वेणुद्वारेषु सप्तस्ववहितमनसा चारयन्नङ्गुलीनां वृन्दं गानामृतेनत्रभुवनमपि सम्मोहयन् श्यामधाम । गोपानां कामपूरं झटिति च कलयन् कम्प्रमूर्धेक्षणश्च जीयाद्गोपालबालः स्मितरुचिरमुखो गोपिकावृन्दमध्ये ॥ १०४॥ आकर्ण्याकालगीतं मुरलिनिगलितं छद्मगोपालबाल- जल्पं मुग्धाः प्रमुग्धा व्रजकुलवनिताः सम्भ्रमात्त्यक्तनिद्राः । मुक्त्वा कालेऽपि गेहं पतिसुतनिकरं सर्वमेवावशास्ता- स्सञ्चेलुर्यत्रवंशीविलसितनिपुणश्यामकामाभिरामः ॥ १०५॥ प्रेम्णा बालं स्वकीयं स्तनकलशयुगस्यन्दि दुग्धं सुहृद्यं नर्मोक्त्या पाययन्ती परिचितमश‍ृणोद्दिव्यगानं समन्तात् । जीमूतध्वाननृत्यच्छिविगण इव चात्यन्तमोदातिभारात् प्रायाद्वंशीधरस्यान्तिकमतिकुतुकात्त्यक्तबाला तु कापि ॥ १०६॥ आर्तं कान्तं हि काचित्परिचरणपरा भोजनाद्यैः प्रसाद्य शय्यायां स्वास्तृतायां शयनविधिमुखे वेणुगानं निशम्य । सन्त्यज्य द्रागुपेता यदुकुलतिलकस्यान्तिकं गोपकान्ता मन्त्रेणेवावकृष्टा फणिकुलवनिता जातरागावतस्थे ॥ १०७॥ काचिद्व्यत्यस्तवस्त्राभरणसमुदया वेणुगानश्रवेण क्षिप्रं गोपालबालाननशशिसुषमां द्रष्टुकामा हि वामा । स्वैरं यान्ती ललज्जे न हि पथि दयिते श्यामले बद्धभावा दृष्ट्वा कामाभिरामं कलिमलहरणं मोदपूरे ममज्ज ॥ १०८॥ पीठं पीठेऽधिरोप्य प्रभुरुपरि समारुह्य हैयङ्गवीनं कृत्स्नं मृष्ट्वाथ दृष्टां त्वरितमुपगतां काञ्चिदाभीरनारीम् । मातः किं श्रोतुकामा मधुरमुरलिकानादसौभाग्यधामे- त्युक्त्वा कोपं तरुण्यास्सरसमपनयन् पातु देवो हि गायन् ॥ १०९॥ गोविन्दो गोपनारीभवनमनुविशन् मित्रगोपालबालै- रावीतः कामवेषः कपटशतपटुश्चौरनाट्यं वितन्वन् । शिक्यस्थाद्गव्यभाण्डाद्दधिघृतनवनीतादिसर्वं मुषित्वा सन्तृप्तस्तर्पयंश्च स्वरमयमुरलीमूर्च्छनामाललाप ॥ ११०॥ श्यामाङ्गः क्वापि भाण्डं नवनलिनदलस्पर्धिनेत्रस्समीक्ष्य प्रांशुप्रालम्बियन्त्रस्थितमथ कुतुकाद्दण्डपातैः प्रभिद्य । तद्द्वारोपान्तधारानिपतितमखिलं मित्रवृन्दैः पिबन्तं गव्यं दृष्ट्वा गतान्या सरभसमुरलीगानलीना विमूढा ॥ १११॥ अन्यत्रानन्दरूपी दधिघृतनवनीतादिकालाभरोष- दोषाविष्टो बभञ्चान्तिकनिहितमसौ भाजनानां सहस्रम् । क्रोशन्तीं चोरचोरेत्यभिमुखपतितां वीक्ष्य कोणे निलीनः मुग्धां सद्यः स वेणुक्वणितमधुवशां राधिकेशो वितेने ॥ ११२॥ धृत्वा गोवर्धनाद्रिं नवघनसुभगः पद्मपत्रायताक्षः स्वाङ्गुल्या लीलयैव प्रियपदशरणान् त्रातुमेवानुकम्पी । बालोऽयं पारयेद्वा गिरिमिति तमसा दैन्यभाजां विषाद- शान्त्यै कान्ताननेन्दुः कलरवमुरलीमुच्चकैराजुघोष ॥ ११३॥ (कृत्स्नं भाण्डात्प्रमुष्णन् त्वरितमुपगतां काञ्चिदालोक्य गोपीं) मुष्णन्तं कृष्णमारात्त्वरितमतिरुषा बद्ध्य मातुर्नयन्ती सान्निद्ध्यं मार्गमध्ये सुमहति सदसि प्रेष्ठवंशीनिनादम् । कूजन्तं मोदयन्तं स्थिरचरनिकरं मज्जयन्तं सुधाब्धौ गानाख्ये नन्दभाग्यं सकुतुकनयना प्रेक्ष्य तस्थौ शिलेव ॥ ११४॥ गोपिमण्डलमध्यगोऽतिललितस्तिष्ठंस्त्रिभङ्ग्या कर- प्रान्तोन्नीतशुभारुणाधरपुटन्यस्ता मुदा वंशिका । नादानन्दसुधामयीं श्रुतिसुखां वृष्टिं सुपुण्यात्मनां संसारानलतप्तचित्तजनतामोदाय वर्षन् बभौ ॥ ११५॥ गोप्यः क्षीरादिगव्याभृतकलशचयं शीर्ष्णि कामं वहन्त्यः विक्रेतुं वीथिकासु प्रियवचनशतैरालिभिस्संव्रजन्त्यः । दृष्टाः कृष्णेन मन्दं तरुवरमधिरुह्याहृते गव्यकुम्भ- स्तोमे सन्त्रस्तगोपीश्रवणपुटयुगे वेणुनादं जुघोष ॥ ११६॥ श्रुत्वा कस्मान्निशीथे मुरलिमधुरवं गाढनिन्द्राप्रबुद्धा गन्तुं सज्जाथ रुद्धा निजजननिवहैर्वेश्मनोऽभ्यन्तराले । इच्छाभङ्गान्निरीहा हृदि घनसुभगं चन्द्रकोटिप्रकाशं ध्यायं ध्यायं प्रशान्ता मधुपतिचरणाम्भोजसायुज्यमाप ॥ ११७॥ ग्रीष्मे मार्ताण्डबिम्बे तपतिवनभुवि स्वोग्ररश्मिप्रतानैः गावो ग्लानिं प्रयाता मृदुतृणकबलभ्रान्तभास्वन्मरीच्यः । ताम्यन्तीस्ताःकृपार्द्रस्तरुवरनिबिडच्छायमभ्येत्य रम्य- माह्वातुं वेणुमुच्चैररणयदनघो गोपकन्याभुजङ्गः ॥ ११८॥ नादे मोदप्रपूरे श्रुतिपथपतिते प्रेष्ठगोपालबाल- धेन्वः कृष्टान्तरङ्गा यदुपतिनिकटं प्रत्यधावन् प्रहर्षात् । उत्पुच्छास्सत्वरास्ता मुरलिमधुरवानन्दमग्नाः प्रकामं ध्यानामीलदृ(द्दृ?)शस्तत्पदकमलपुटं योगिचर्याः समीयुः ॥ ११९॥ गानानन्दे निमग्ना वनचरनिवहा स्थावरा जङ्गमा वा जीवास्साफल्यमीयुर्जनिकृतमखिलं कश्मलं तत्यजुश्च । क्षुत्तृट्कामानुपेताः परमसुखसुधाम्भोधिमग्नाः परस्य पुंसः श्रीवेणुनादामृतजलदभवे वल्लवीभागधेये ॥ १२०॥ सिद्धास्साध्यास्सुरौघा मुनिजननिवहाः श्रीमदाभीरनारी- जारोद्गीतातिधीरश्रुतिमधुरमधुस्यन्दिवेणुप्रणादे । मग्ना लग्नाश्च लीना वनभुवि यमुनातीरपुण्यप्रदेशे- ष्वेको वा स्यां तृणोऽपीत्यथ हृदि नितरां मेनिरे भाग्यमेतत् ॥ १२१॥ स्पृष्टे भाण्डे परेण स्वनमुखरचलच्छिक्यसंसक्तखण्डा- सन्नादोद्बुद्धगोप्यास्सचकितनयनप्रेक्षणीयोरुभीतिम् । बद्ध्वा पाशैर्नयन्त्या पथि तमनुययुर्वेश्म नन्दस्य याताः दृष्ट्वा वेणुं क्वणन्तं चिरमथ निभृतास्तस्थुरत्यद्भुतेन ॥ १२२॥ देव श्रीघोषनारीरमण मधुपते मामकाभ्यर्थनां त्वं कारुण्याच्छ्रोतुमर्हस्यखिलगुणनिधे कर्तुमप्यर्हसीश । पापिष्ठोऽहं तथापि प्रणतजनकृपासागरानाथबन्धो दीनं मां वेणुनादामृतसरसि सुखं स्नापय श्रीमुकुन्द ॥ १२३॥ आपद्बन्धो प्रणष्टं निरवधिदुरितध्वान्तदुर्द्दान्तभूमिं त्रायस्वाकर्णयेश प्ररुदितगदितं प्रार्थये पार्थबन्धो । छिन्दीमं भिन्दिचेति प्रकटकटुगिरा भर्त्स्यमाने कृतान्त- दूतापातेऽन्तकाले मणिमुरलिरवानन्दनेनाशु पाहि ॥ १२४॥ नादं वाऽऽकर्णयेयं मधुमुरलिगलद्गानमाधुर्यधाम सान्द्रानन्दामृतोदं सकृदपि कलनाच्छ्रोत्रमात्रेण भव्यम् । पश्येयं भाग्ययोगात्किमु परमहसो वासुदेवस्य लीला- रङ्गं वृन्दावनं वा हरिमणिमहसं चापि वेणुं क्वणन्तम् ॥ १२५॥ श्यामाङ्गान्मारकोटिज्वलदतुललसत्सारलावण्यपूरात् शिञ्जाना मञ्जुरत्नप्रकरविलसितश्रीपदाम्भोजयुग्मात् । देवान्मोदात्कराब्जोद्धृतललितसुताम्रोष्ठविन्यस्तवेणु- गानादाभीरनारीसुकृतसमुदयाद्देवमन्यं न जाने ॥ १२६॥ आर्तत्राणपरायणाखिलगुरो त्वामर्थयेऽहं पुनः पापैकावसतिर्मुहुः कलिलतां प्राप्तो निराशोऽवशः । कण्ठास्कन्दिकफादिदोषनिचयो प्रोच्चण्डदण्डायुध- प्रेष्याभर्त्सनताडनादिविकले मां पाहि वेणुस्वनात् ॥ १२७॥ प्राणापायदशोपयातयमराडुच्चण्डदूतार्दिते काले संवृतबन्धुमित्ररुदितप्राये महादीतिदे । अश्रुव्याकुललोचनोघनिचयं स्मृत्वाहितं नाचरन् दीनोऽयं ननु यादवेन्द्रमुरलीगानेन सन्तोष्यताम् ॥ १२८॥ पश्येयं वा कदाहं नवघनसुभगं पीतकौशेयवासं श्रीवत्साङ्कं सुहारं पदधृतविरणन्मञ्जुमञ्जीररम्यम् । गोपालं कौस्तुभश्रीयुतरुचिरमहावक्षसं स्वक्षमीशं धन्यश्रीवन्यमालाधरमहमनिशं वेणुगानैकलोलम् ॥ १२९॥ गायन् वेणुं कनकरशनादामदीप्यत्कटिश्री- भास्वद्धेमाम्बरसुललितो नीलमेघाभिरामः । नृत्यन्तालक्रममनुसरन् विक्षिपन् पादपद्मे भायादायान्मम तु पुरतः वल्लवीभाग्यरत्नम् ॥ १३०॥ नाहं प्रीये सुरपतिपदावाप्तिमैश्वर्यसिद्धिं साम्राज्यं वा निखिलमपि वा भोगयोगं मुरारे । प्रीये ह्रीये मुहुरपि विभो सान्द्रनादामृतोद- वंशीनादे महति सरिति स्नानमानन्दरूपम् ॥ १३१॥ मन्दं मन्दं पदकमलके विक्षिपन् चारुवेणु- गानं कुर्वन्ननु च मधुरं मोदयन् मां व्रजेशः । आगच्छेद्वा दुरितनिचयं भञ्जयन्नञ्जनाभः सौधीमक्ष्णोः किमु स वितरेद्वृष्टिमानन्दरूपाम् ॥ १३२॥ यावज्जीवं मुरल्या मधुमयसरसानन्दगानामृतोदा- सारेणासिक्तकर्णः किमु हृदिकमले देवदेवं वरेण्यम् । ध्यात्वाखण्डप्रमोदं निरतिशयमहो किन्नु लप्स्ये कृपाब्धे छित्वा निश्शेषतापप्रकरमहमहो त्वत्पदे किन्नु युञ्ज्याम् ॥ १३३॥ पादाब्जान्निस्सरन्ती सगरसुतगतिप्रेष्टसोपानपङ्क्तिः गङ्गा भागीरथीति त्रिजगति विदिता पापहन्त्री नराणाम् । नादाख्येयं तु गङ्गा व्रजयुवतिजनप्रेमपात्राम्बुजात- वक्त्रप्रोतार्यवेणुस्रवदमृतरसा मोक्षदा भाति हृद्या ॥ १३४॥ (वक्त्रपद्मोन्नीतार्यवेणुक्वणितमधुझरी मोक्षदा भाति हृद्या) कारुण्याब्धे मुरारे मुरलिनिनद भो त्वामहं नौमि साक्षा- न्नादज्योतिस्स्वरूपं सकलमुनिमनोध्यानगम्यं सुसूक्ष्मम् । देव त्वा मूर्तमन्तर्मम हृदि कुतुकान्मूर्तिमाकल्प्य लीला- लोलं मोदाम्बुराशिं परसुखनिलयं धारयाम्यादरेण ॥ १३४॥ पायं पायं न तृप्याम्यतिमधुरतया देव ते वेणुगीत- नादानन्दामृताम्भःश्रवणपुटभृतं स्वादु नः स्वादु भूरि । तद्भो गोविन्द मोहाद्दुरितशतकृतोऽप्यस्य नादेऽतिभक्ति- र्भूयात्कारुण्यसिन्धो शरणद भगवन् जन्मजन्मान्तरेषु ॥ १३५॥ गायन्तं वेणुमुच्चैर्घनरुचिममलं सूर्यकोटिप्रकाशं नृत्यन्तं नर्तयन्तं पदकमलरणन्मञ्जुमञ्जीरघोषम् । आयान्तं मा बिभीहि त्यज मनसि रुजं सोऽहमस्म्यभ्युपेत इत्येवं मां गदन्तं यदुकुलतिलकं किं कदा वा निरीक्षे ॥ १३६॥ अज्ञोऽहं ते गुणानामणुमपि नितराम्मन्तुमीशो न चास्मि बोद्धुं वक्तुं च देवि श्रितसकलजनत्राणदीक्षे नमस्ते । क्षन्तव्यं साहसं मे निरुपधिकरुणे दीनदीनस्य मातः सान्द्रानन्दावबोधे यदुपतिमुरलीनादधारे नमस्ते ॥ १३७॥ नमस्ते पीयूषप्रिय मधुरसौभाग्यविभवे चिरात्पुण्यैर्लभ्ये मयि कुरु कृपामम्ब सदये । पुरस्ते पश्चात्ते स्वरमयि नमः पार्श्वत इदं कृतं चोर्ध्वं मातः कलमुरलिकानादलहरि ॥ १३८॥ मुकुन्दाखण्डेन्दुप्रतिमवदनाहं तव विभो सुधाधाराहृद्यां तव मुरलिकानादलहरीम् । दुरन्तामल्पज्ञः किमपि कणमात्रं गदितवान् क्षमस्वागांस्यस्य श्रितचरणपद्म दयया ॥ १३९॥ किमपि वचनमीषद्वक्तुकामः परस्य प्रियमुरलिनिनादानन्दधाराप्रभावे । अकरवमिदमस्मिन् दोषपङ्कं प्रमृज्य प्रियजनपरिदत्तं स्वीकुरुष्वामरेड्य ॥ १४०॥ आभीरवारनारीजारस्यामन्दमुरलिनिनदं मे मोदं सदा ददातु गीतरवाश्लिष्टमोहननिनादम् ॥ १४१॥ बाला वृद्धास्सकलमपि गोकुलं यस्य नाथ- स्याकर्ण्य द्रागमृतमधुरं वेणुगानं मनोज्ञम् । प्रापुः प्रेम्णा सकलजगतां नायकस्याभिराम- पादाम्भोजं विवशहृदयास्त्यक्तकार्यप्रपञ्चाः ॥ १४२॥ वेणुं क्वणन्तं गोपालबालमानन्दविग्रहं । नमामि जगताम्मूलं मुकुन्दमखिलेश्वरम् ॥ १४३॥ मुरलीमधुरध्वानमधुनिष्यन्ददायिने । मुरलीनादधाराख्यामर्पयामि मधुद्विषे ॥ १४४॥ रचितं सुब्बरामाख्यद्विजेन भक्तिपूर्वकम् । मुरलीधरप्रीत्यर्थं तदङ्घ्रिषु समर्पितम् ॥ १४५॥ इति मुरलीनादधारास्तोत्रं सम्पूर्णम् ।