अक्षर आकार:

मुरारिपञ्चरत्नम्

murAripa~ncharatnam

मुरारिपञ्चरत्नम्

श्रीगणेशाय नमः । यत्सेवनेन पितृमातृसहोदराणां चित्तं न मोहमहिमा मलिनं करोति । इत्थं समीक्ष्य तव भक्तजनान् मुरारे मूकोऽस्मि तेऽङ्घ्रिकमलं तदतीव धन्यम् ॥ १॥ ये ये विलग्नमनसः सुखमाप्तुकामा- स्ते ते भवन्ति जगदुद्भवमोहशून्याः । दृष्ट्वा विनष्टधनधान्यगृहान् मुरारे मूकोऽस्मि तेऽङ्घ्रिकमलं तदतीव धन्यम् ॥ २॥ वस्त्राणि दिग्वलयमावसतिः श्मशाने पात्रं कपालमपि मुडविभूषणानि । रुद्रे प्रसादमचलं तव वीक्ष्य शौरे मूकोऽस्मि तेऽङ्घ्रिकमलं तदतीव धन्यम् ॥ ३॥ यत्कीर्तिगायनपरस्य विधातृसूनोः कौपीनमैणमजिनं विपुलां विभूतिम् । स्वस्यार्थदिग्भ्रमणमीक्ष्य तु सार्वकालं मूकोऽस्मि तेऽङ्घ्रिकमलं तदतीव धन्यम् ॥ ४॥ यद्वीक्षणे धृतधियामशनं फलादि वासोऽपि र्जिनवने गिरिकन्दरासु । वासांसि वल्कलमयानि विलोक्य चैवं मूकोऽस्मि तेऽङ्घ्रिकमलं तदतीव धन्यम् ॥ ५॥ स्तोत्रं पादाम्बुजस्यैतच्छ्रीशस्य विजितेन्द्रियः । पठित्वा तत्पदं याति श्लोकार्थज्ञस्तु यो नरः ॥ ६॥ इति मुरारिपञ्चरत्नं सम्पूर्णम् ॥