अक्षर आकार:

मुचुकुन्दस्तुतिः

muchukundastutiH

मुचुकुन्दस्तुतिः

मुचकुन्द उवाच - कृष्णाय वासुदेवाय देवकिनन्दनाय च । नन्दगोपकुमाराय गोविन्दाय नमो नमः ॥ १॥ नमः पङ्कजनभाय नमः पङ्कजमालिने । नमः पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रये ॥ २॥ नमः कृष्णाय शुद्धाय ब्रह्मणे परमात्मने । प्रणतक्लेशनाशाय गोविन्दाय नमो नमः ॥ ३॥ नमोऽस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुबाहवे । सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटीयुगधारिणे नमः ॥ ४॥ हरे मत्समः पातकी नास्ति भूमौ तथा त्वत्समो नास्ति पापापहारी । इति त्वं च मत्वा जगन्नाथ देव यथेच्छा भवेत्ते तथा मां कुरु त्वम् ॥ ५॥ इति गर्गसंहितायां द्वारकाखण्डे द्वितीयाध्यायान्तर्गता मुचुकुन्दस्तुतिः समाप्ता । Garga Samhita, Dwarakakhanda, Adhaya 2 verses 26-30